वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
४४४ वीरमित्रोदयस्य राजनीतिप्रकाशे
ध्वजं समुच्छ्रयिष्यामि वसोर्धारां सुखावहाम् ॥ इति ।
इति चिह्नेषु देवीपूजाविधिः ।
अथाश्ववृद्धिर्नृपैराश्विनशुक्लप्रतिपदमारभ्य महानवमीया-
वदश्वशान्त्यर्थं लोहाभिसारिकं कर्म कार्यम् । यथोक्तम्—
देवीपुराणे,
आश्वयुक्शुक्लप्रतिपत्स्वात्तियोगे शुभे दिने ।
पूर्वमुच्चैःश्रवा नाम प्रथमं श्रियमाहरत् ॥
तस्मात्साश्वैर्नरैस्तत्र पूज्योऽसौ श्रद्धया सदा ।
पूजनीयाश्च तुरगा नवमीं यावदेव हि ॥
शान्तिः स्वस्त्ययनं कार्यं तदा तेषां दिने दिने ।
धान्यं भल्लातकं कुष्ठं वचासिद्धार्थकांस्तथा ॥
पञ्चवर्णेन सूत्रेण ग्रन्थि तेषां तु बन्धयेत् ।
वायव्यैर्वारुणैः सौरैः शाक्रैर्मन्त्रैः सवैष्णवैः ॥
वैश्वदेवैस्तथा मन्त्रैर्होमः कार्यो दिने दिने ।
तुरगा रक्षणीयास्तु पुरुषैः शस्त्रपाणिभिः ॥
नैव ताड्याः क्वचित्तत्र न च वाह्याः कथञ्चन । इति ।
भविष्योत्तरेऽपि विशेष उक्तः ।
कन्यागते सवितरि शुक्लपक्षेऽष्टमी तु या ।
मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता ॥
तस्यां सदा पूजनीया चामुण्डा मुण्डमालिनी ।
तस्यां ये ह्युपयुज्यन्ते प्राणिनो महिषादयः ॥
सर्वे ते स्वर्गतिं यान्ति घ्नतां पापं न विद्यते ।
यावन्न चालयेद्गात्रं पशुस्तावन्न हन्यते ॥
न तथा बलिदानेन पुष्पधूपविलेपनैः ।
लोहाभिसारिकाविधिः । ४४५
यथा सन्तुष्यते मेषैर्महिषैर्विन्ध्यवासिनी ॥
वलिदानं च मांसमाषसहितौदनेन क्रियमाणम् ।
एवं च विन्ध्यवासिन्यां नवरात्रोपवासिना ।
एकभक्तेन नक्तेन स्वशक्त्याऽयाचितेन च ॥
पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे ।
स्नातैः प्रमुदितैर्हृष्टैर्ब्राह्मणैः क्षत्रियैर्नृपैः ॥
वैश्यैः शूद्रैर्भक्तियुक्तैर्म्लेच्छैरन्यैश्च मानवैः ।
स्त्रीभिश्च कुरुशार्दूल तद्विधानमिदं शृणु ॥
जलाभिलाषी नृपतिः प्रतिपत्प्रभृति क्रमात् ।
लोहाभिसारिकं कर्म कारयेद्यावदष्टमी ॥ इति ।
लोहाभिसारिकविधानं च—
तत्रैवोक्तम्,
प्रागुदक्प्रवणे देशे पताकाभिरलङ्कृते ।
मण्डपं कारयेद्दिव्यं नवसप्तकरं वरम् ॥
नवसप्तकरं, षोडशहस्तप्रमाणमित्यर्थः ।
आग्नेय्यां कारयेत्कुण्डं हस्तमात्रं सुशोभनम् ।
मेखलात्रयसंयुक्तं योन्या स्वच्छन्दलाभया ॥
राजचिह्नानि सर्वाणि शस्त्राण्यस्त्राणि यानि च ।
आनीय मण्डपे तानि सर्वाण्यण्यधिवासयेत् ॥
ततस्तु ब्राह्मणः स्नातः शुक्लाम्बरधरः शुचिः ।
ॐकारपूर्वकैर्मन्त्रैस्तलिलैर्जुहुयाद्घृतम् ॥
लोहनामाऽभवत्पूर्वं दानवः सुमहाबलः ।
स देवैः समरे क्रुद्धैर्बहुधा शकलीकृतः ॥
तदङ्गसम्भवं लोहं सर्वं यद्दृश्यते क्षितौ ।
शस्त्रास्त्रमन्त्रैर्होतव्यं पायसं घृतसंयुक्तम् ।
४४६ वीरमित्रोदयस्य राजनीतिप्रकाशे
हुतशेषं तुरङ्गाणां राजानमुपहारयेत् ॥
लोहाभिसारिकं कर्म तेनैतदृषिभिः स्मृतम् ।
धृतपल्ययनानश्वान् गजांश्च समलङ्कृतान् ॥
भ्रामयेन्नगरे नित्यं नन्दिघोषपुरस्कृतम् ।
प्रत्यहं नृपतिः स्नात्वा सम्पूज्य पितृदेवताः ॥
पूजयेद्राजचिह्नानि फलमाल्यविलेपनैः ।
तस्याभिसरणाद्राज्ञो विजयः समुदाहृतः ॥
पूजामन्त्रान् प्रवक्ष्यामि पुराणोक्तानहं तव ।
यैः पूजिता प्रयच्छन्ति कीर्तिमायुर्यशोबलम् ॥ इति ।
एते च मन्त्रा यात्राप्रकरणेऽभिहिता इति तत्रैवानुसन्धेयाः
इति लोहाभिसारिकं कर्म ।
अथ गवोत्सर्गः ।
तत्र देवीपुराणे,
कृष्णपक्षे त्वमावास्या कार्तिकस्य ततः परे ।
योऽह्नि कुर्याद्गवोत्सर्गमश्वमेधफलं लभेत् ॥
सुवर्णदाने गोदाने भूमिदाने च यत्फलम् ।
तत्फलं कोटिगुणितं गवोत्सर्गेण लभ्यते ॥
तस्मान्मनोरमे स्थाने शाद्वले गर्तवर्जिते ।
शर्करा अश्मरहिते शङ्खभेरीनिनादिते ॥
स्तम्भद्वयं समारोप्य पूर्वपश्चिमसंस्थितम् ।
तत्र दर्भमयी कार्या शरवंशभवाथवा ॥
मध्ये कम्बलसंयुक्ता दीर्घारज्जुः सुशोभना ।
उभयोः पार्श्वयोर्विप्रा वेदध्वनिसमन्विताः ॥
एवंविधानतः कृत्वा उत्सर्गं कारयेत्ततः ।
गवोत्सर्गो देवीपुराणोक्तवसोर्द्धाराविधिश्च । ४४७
प्रथमं गच्छते होता यजमानसमन्वितः ॥
ब्रह्मक्षत्रविशः शूद्रास्तथा गावः प्रजाः पुनः ।
तथान्ये वर्णबाह्यास्तु चण्डालपरिवर्जिताः ॥
गच्छन्ति मुदिता हृष्टा हास्यतोषसमन्विताः ।
यस्त्वेवं कुरुते राजा पुरे ग्रामेऽथ पत्तने ॥
नश्यन्ति षेतयः सर्वा प्रजानां नन्दनं चिरम् ।
नाकाले म्रियते राजा पुत्रपौत्रैश्च वर्द्धते ॥
देवा भवन्ति सुप्रीतास्तथा वै मातरस्तथा ।
गोलोकं च लभेद्वत्स सर्वान् कामानवाप्नुयात् ॥
ईतयः प्रसिद्धाः । यथा—
अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः ।
अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥ इति ।
इति गवोत्सर्गः ।
अथ वसोर्धारा ।
तत्र देवीपुराणे,
विद्याधर उवाच ।
यथा सा सर्वगा देवी सर्वेषां च फलप्रदा ।
तथाहं श्रोतुमिच्छामि वसोर्द्धारां सविस्तराम् ॥
अगस्त्य उवाच ।
ब्रह्मणा या समाख्याता देवराजस्य पृच्छतः ।
विधिश्च पापहा श्रोतुः शृणुष्वावहितो मम ॥
वसोर्द्धारास्थिता देवी सर्वकामप्रदायिका ।
तथा ते कथयिष्यामि शृणु पुण्यविवृद्धये ॥
सर्वेषामेव देवानामुक्ता देवी मयोत्तमा ।
४४८ वीरमित्रोदयस्य राजनीतिप्रकाशे
विशेषेण तु वह्निस्था आयुरारोग्यदा मता ॥
विजयं भूमिलाभं च मानवानां प्रियं तथा ।
विद्यासौभाग्यपुत्रादि कुण्डस्था सम्प्रयच्छति ॥
तस्मान्नृपेण भूत्यर्थं वसोर्द्धाराश्रिता शिवा ।
पूजनीया यथाशक्त्या सर्वकामफलप्रदा ॥
रुद्रादित्या ग्रहा विष्णुर्ब्रह्मा यक्षाः सकिन्नराः ।
हुताशनमुखाः सर्वे दृष्टादृष्टफलप्रदाः ॥
गोदानं भूमिदानं च रत्नसर्पिस्तिलादि च ।
दानानि च महान्त्याहुस्तेषां धारा विशिष्यते ॥
विप्राणां कोटिकोटीनां भोजयित्वा तु यत्फलम् ।
लभते तदवाप्नोति धारां दत्त्वा हुताशने ॥
व्यतीपाते न सन्देहः स च सूक्ष्मः प्रकीर्तितः ।
अयनं विषुवच्चैव दिनच्छिद्रं तथैव च ॥
दुष्प्रापं दानहोमानां धारायां लभ्यते नृप ।
तस्मान्नृपेण वृद्ध्यर्थं दृष्टादृष्टजिगीषुणा ॥
वसोर्द्धारा प्रकर्त्तव्या सर्वकामसुखावहा ।
समां वा अर्द्धमर्द्धं वा ऋतुमासार्द्धवासरम् ॥
समाम् अब्दम् ।
कृत्वा विभवरूपेण शाश्वतं लभते फलम् ।
एकाहमपि यो देवीं कल्पयित्वा हुताशने ॥
पातयेत्सर्पिषो धारां स लभेदीप्सितं फलम् ।
देवीमातृसमीपस्थं शिवविष्णुसमीपगम् ॥
भानोः प्रजापतेर्वापि वसोर्धारागृहं भवेत् ।
चिरन्तनेषु सर्वेषु स्वयं वा संस्कृतेषु च ॥
पर्वतेषु च दिव्येषु नदीनां सङ्गमेषु च ।
देवीपुराणोक्तवसुधाराविधिः । ४४९
गुहासु च विचित्रासु गृहगर्भेषु भूमिषु ॥
दत्त्वा समाहितान् कामान् विधिना लभते नृप ।
अथ सामान्यतो गेहं समसूत्रं जलोन्मुखम् ॥
वास्तुसंशुद्धविन्यासमेकादशकरं परम् ।
त्रीणि पञ्चाथवा सप्त दश वा नव कारयेत् ॥
विंशकं यावदेकोनत्रिंशदूर्ध्वं न कारयेत् ।
पकेष्टं शैलदार्वं वा सालिन्दं सहतोरणम् ॥
पञ्चसप्तनवास्यं वा गवाक्षकविभूषितम् ।
सर्वतोभद्रविन्यासं क्रमवृद्ध्या विवर्द्धितम् ॥
ऊर्ध्वं च धूमनिष्काशं सप्रकाशं विशेषतः ।
सदेवसङ्गहं कार्यमथवा देवतागमम् ॥
सदेवसङ्ग्रहं, प्राचीनस्थापितदेवप्रतिमम् । देवतागमं, तत्का-
लातीतदेवप्रतिमम् ।
तस्य मध्ये भवेत्कुण्डं हस्तादिशुभलक्षणम् ।
चतुष्कमथ वा वृत्तं पङ्कजाकृति वाथ वा ॥
अथवेत्यनेन योनिकुण्डमुच्यते । अत एव “योन्यां कामफ-
लप्रदम्” इसनेनाग्रे तत्फलमुक्तम् ।
पृथिवीजयदं शाक्रं वृत्तं कामफलप्रदम् ।
शाक्रं चतुरस्रम् ।
पङ्कजे जयमारोग्यं योन्यां कामफलप्रदम् ।
शेषाः कार्यविभागेन कुण्डाः कार्या विजानता ॥
सामान्यं सर्वहोमेषु शाक्रकुण्डं नरोत्तम ।
विस्तारखाततुल्यं तु त्रिमेखलसमन्वितम् ॥
चतुरस्रि द्वे च वा कुर्यादङ्गुलान् कुण्डमानतः ।
द्विगुणान् द्विगुणे कुण्डे होमसारेण कारयेत् ॥
५७
..." or "षड्भिः पलैर्..."
Wait! In Surya Siddhanta / Jyotisha / Rajanitiprakasha:
The ghaṭikā yantra (clepsydra):
"दशभिः पलैस्ताम्रस्य कृतं पात्रं षडङ्गुलं विस्तृतम्..."
Wait, here:
"घृतनिष्क्रमणार्थाय कार्यं सम्यग्विपाश्चता (सम्यग्विपाश्चिता / सम्यग्विपश्चिता) ॥"
"पलैर्दशभिर्..." -> "नाड्येका तु यथा व्रजेत् ।"
"पञ्चाद्भिस्तु शतैर्होमः सप्तत्याथ षडग्रया ॥" (Wait, 576 ahutis? 500 + 70 + 6 = 576? 576 ahutis in a certain time!)
"यथा पूर्णा व्रजेत्तत्स तथा कुर्यान्न चान्यथा ।" (पूर्णा = pūrṇāhuti)
Yes! It's measuring time / dripping of ghee for ahutis during a sacrifice!
In one nāḍī (नाड्येका), how much ghee flows out?
"पलैर्दशभिर्..." -> wait, how many palas of ghee? Or a vessel of 10 palas?
Wait, could the word be:
द्रोणैर्? 1 drona = 16 prasthas = 6
देवीपुराणोक्तवसुधाराविधिः । ४५१
स्थूलरूपा तु तैस्तुष्टैस्तुष्टा देवी महाफला ।
कालादिबलिगन्धादि प्रतिष्ठावच्च कारयेत् ॥
यथासम्पत्ति सम्पन्नः सर्वकालं प्रदापयेत् ।
तदा मातृग्रहान् भूतान् लोकपालान्निवेशयेत् ।
हैमान् राजतताम्रान् वा स्वनिवेशोपलक्षितान् ॥
स्वर्णपुष्पबलिगन्धदक्षिणादि यथाक्रमम् ।
मातृणां लोकपालानां ग्रहाणां च यथाविधि ॥
हृदयेन प्रदेयं च मूलमन्त्रैः पुरातनैः ।
अथ वा सर्वसामान्यां वैदिकीमपि कारयेत् ॥
अथर्वविधिना वत्स पूर्वोक्तां वा यथा पुरा ।
प्रभूतमनं नैवेद्यैर्भूरिदक्षिणसंयुतैः ॥
कुर्यान्महाप्रयत्नेन नान्यथा च कदाचन ।
छेदे भयं विजानीयात्तदर्थं तत्र कारयेत् ॥
महाव्याहृतिहोमेन पात्रमत्र निवेशयेत् ।
मूलमन्त्रेण देव्यास्तु शृङ्गलं हृदयेन तु ॥
घृतं शिरसो मन्त्रेण शिखया चानुतापयेत् ।
कवचेन तथा वह्निं रक्षयित्वा प्रदापयेत् ॥
अस्त्रेण नेत्रमन्त्रेण सर्वं सर्वत्र निक्षिपेत् ।
लोकपालान् ग्रहान्नागान् द्वादशार्धेन पूजयेत् ।
शिवाद्यान्सनकाद्यांश्च देवाद्यानपि पूजयेत् ॥
नित्येषु च महाप्राज्ञ निमित्तेषु विशेषतः ।
अग्नेर्वर्णश्च गन्धश्च शब्दश्चाकृतयस्तथा ॥
विकाराश्च तदा वत्स बोद्धव्या सिद्ध्यासिद्धिदाः ।
तदन्ते वत्स सत्कार्या सर्वकामप्रदायिका ॥
येन सान्निध्यमायाति सर्वहोमेषु मङ्गला ।
तिकर्त्रे च वरदाय च"
"नमस्ते स्कन्दमातस्ते स्कन्दपित्रे नमोनमः"
"कुण्डे वा मण्डले वापि स्थण्डिले वाथ वा विभो" (wait, line 16 has 'तां विभो' or 'वा विभो'? Let's check!)
Let's check Line 16:
"कुण्डे वा मण्डले वापि स्थण्डिले वाथ तां विभो ॥"
Wait, look at 'तां विभो':
It has 'त' with 'ा' and anusvara: 'तां विभो' or is it 'वा विभो'?
Wait, the letter has a left loop: it is 'त'! With 'ा' and 'ं': 'तां विभो ॥' (or maybe 'वा विभो'? No, it has a flat top, clearly 'तां').
Let's look at Line 7 again:
Look at:
व सु [space]
Then:
आ
Then: an anusvara?
Then: look at the glyph!
Is that 'इ' or 'ह' or 'श'?
Wait! Look at:
आ
ं
श
्
व
ा
न
े
रू
प
ा
य
Wait, could it be:
वसु आंश्वानेरूपाय or वसु आंश्वानरूपाय?
Look at the character:
It has:
'आ'
then above the line, a dot (anusvara).
अन्नं चित्रं विशुद्धं च संस्कृतं घृतपायसैः ।
होमयेद्विधिवद्विप्रो बलिं चापि प्रदापयेत् ॥
सितवस्त्रधरो भूपः सबलः सहवाहनः ।
पूजयेच्छत्ररत्नादीन्मातरं पितरं द्विजान् ॥
आचार्यान् बान्धवांल्लोकान्सर्वाश्रमरताश्च ये ।
नटनर्त्तकवेश्याश्च कन्यका विधवाः स्त्रियः ॥
दीनान्धकृपणांश्चैव अन्नदानेन पूजयेत् ।
एवं निवेशनं कृत्वा नित्यं जप्यं शतं शतम् ॥
प्रातर्मध्याह्नसन्ध्यायां तत्र शान्तिः प्रकीर्त्तिता ।
भवते नृपराष्ट्रस्य पूर्वोक्तफलदायकम् ॥ इति ।
एवं वसोर्धारानिवेशनं विधाय तत्र धूमस्य वर्णभेदेन
फलाफलम्—
तत्रैवोक्तम,
ब्रह्मोवाच,
तप्तहाटकवर्णाभः सूर्य्यसिन्दूरकान्तिभृत् ।
शङ्खकुन्देन्दुपद्माभो घृतक्षीरनिभः शुभः ॥
जपाभः शङ्खपुष्पाभो लाक्षाजलजसन्निभः ।
शुभदः सर्वकार्याणां विपरीतो ह्यसिद्धिदः ॥
मेघदुन्दुभिशङ्खानां वेणुवीणास्वनःशुभः ।
वृषेभशिखिकाकानां कोकिलस्य न पूजितः ॥
कुङ्कुमागुरुकर्पूरमदरोचनगन्धवान् ।
मदो, मृगमदः ।
मांस्येलाकुष्ठतगरसितगन्धिश्च पूजितः ॥
हंसच्छत्रभगोकुम्भपद्माकरकृतिः शुभः ॥
सिंहबर्हिणशैलानां चामराकृतिरिष्टदः ।
सधूमोऽमृतगन्धी च शुकास्यचरणोपमः ॥
४५४ वीरमित्रोदयस्य राजनीतिप्रकाशे
छिन्नज्वालोऽथ वा रोदी नेष्टः सर्वेषु पावकः ।
सुसंहतशिखः शस्त ऊर्ध्वं प्रज्वलितोऽथ वा ॥
लेलिहानः शुभः कुन्ददीप्तिमान् वरदोऽनलः ।
एवंविधः सदैवाथ यज्ञे वैश्वानरो हितः ॥
यात्रायां शक्रकेतौ च सर्वकार्येषु सिद्धिदः ।
न्यूना या वहते धारा मानात्सर्पिर्न सा शुभा ॥
नाधिका शस्यते विप्र दुर्भिक्षकलिकारिका ।
त्रुट्यते वहमाना या शाम्यते वा हुताशनः ॥
सापि चान्यं नृपं त्विच्छेद्या च धारा पतेद्बहिः ।
ऋजुनादा महारूपा मनोज्ञा प्रियकारिका ॥
सुवर्णा हेमवर्णा च धारा राज्यविवृद्धये ।
सन्तता पतते या च तनोतीव च पावकम् ॥
तनोति नृप राष्ट्रं सा वसोर्धारा न संशयः ।
सुगन्धि स्वस्थं विमलं कृमिकीटविवर्जितम् ॥
शस्यते वसुधारायां सर्पिर्गव्यं च पूजितम् ।
अभावाद्गव्यमाज्यं वा होतव्यं च सुशोभनम् ॥
घृतक्षौद्रपयोधारा सर्वपीडानिवारिणी ।
गुडूचीशकलैर्होमः सहकारदलैः शुभः ॥
अश्वत्थमालतीदूर्वा आयुरारोग्यपुत्रदाः ।
सौभाग्यं च श्रियं देवी प्रयच्छत्यविचारणात् ॥
आर्क्याद्या वा शुभा वत्स सफलाः सार्वकामिकाः
होतव्याः सर्वकालं तु सातत्यात्समिधो नृप ॥
सर्वकालं घृतं प्रोक्तं निमित्ते च निमित्ततः ।
विशुद्धे सर्पिषो यानि तानि चात्र विचारयेत् ॥
ज्वालावच्च शुभं गन्धं सर्वहोमेषु लक्षयेत् ।
वसोर्धाराया माहात्म्यम् । ४५५
संयतैः संयताहारैः सर्वशास्त्रार्थपारगैः ॥
जपहोमरतैर्भूप धारा देया तु तद्विधैः ।
पाखण्डविकलान् लुब्धान् धर्मापेतान् बहिष्कृतान् ॥
सर्वकालप्रवादांश्च न वदेन्नावलोकयेत् ।
मृत्युञ्जयमहामन्त्रं चतुर्थ्यन्तं जपेत्तथा ॥
भाग्यवान् नित्यहोमे तु अन्यथा विफलं भवेत् ।
सामान्या या भवेद्धारा तत्र जप्यं शतं शतम् ॥
प्रातर्मध्याह्नसन्ध्यासु सर्वकामसमृद्धये ।
वसुद्रव्यं घृतं वाज्यममृतं हविष्कामिकम् ॥
तस्य धारा सदा देया वसोर्धारा हि सा मता ।
वसुनापत्यकामेन दक्षेण च महात्मना ॥
मया च विष्णुना शक्र रुद्रेण च सहोमया ।
आत्मानं च स्वरूपेण धारायां तु प्रपातितम् ॥
देवी सान्निध्यमायाता सर्वकामप्रदायिका ।
तस्मात्त्वमपि राजेन्द्र वसोर्धारां प्रदापय ॥
नातः परतरं पुण्यं विद्यते नृपसत्तम ।
वसोर्धाराप्रदानस्य एकाहमपि यद्भवेत् ॥
नृपेण पुष्टिकामेन परराज्यजिगीषुणा ।
देया धारा सदा वत्स रिपुनाशाय विद्धि ताम् ॥
विच्छेदो नित्यहोमस्य न कार्यस्तु कदाचन ।
महादोषमवाप्नोति यः कुर्याद्विमुखान् सुरान् ॥
द्रव्याभावे घृताभावे नृप तस्करजं भयम् ।
यदि नो वहते धारा तदा छिद्रं न विद्यते ॥
होमं कृत्वा क्षमापेत देवं देवीं नृपोत्तम ।
पुनः प्राप्ते भवेद्वत्स प्रतिष्ठा विधिचोदिता ॥
४५६ वीरमित्रोदयस्थ राजनीतिप्रकाशे
महत्याश्विनमासे तु अष्टमी नवमीषु च ।
कार्तिकीयां माघचैत्रे तु चित्रायां रोहिणीषु च ।
वैशाख्यां तु प्रदातव्या ज्यैष्ठयां ज्येष्ठस्य सत्तम ॥
आषाढे द्वादशी प्रोक्ता अष्टमी पूर्णिमा नभे ।
नभस्ये रोहिणी वत्स चतुर्थ्यां भौमवासरे ॥
सङ्क्रान्तिषु च सर्वासु गुरुसौरभवासु च ।
चन्द्रसूर्योपरागेषु प्रतिष्ठा यज्ञकर्मणि ॥
पुत्रोत्सवे प्रदातव्या जन्मपुष्पाभिषेचने ।
जन्मदिनाभिषेके पुष्पाभिषेके च ।
मार्गे व्रतनिबन्धे तु सुघोरे केतुदर्शने ।
ग्रहकृत्योपशमने धारा देया शुभावहा ॥
एवं यो वाहयेद्धारां शास्त्रदृष्टेन कर्मणा ।
तस्य भूः सिद्ध्यते सर्वा सनागा सहसागरा ॥
अश्वमेधसमं पुण्यं दिनहोमात्प्रजायते ।
वाजपेयं शतं रात्रावाग्निष्टोमशतं तथा ॥
आधयो व्याधयस्तस्य न भवन्ति कदाचन ।
आयुरारोग्यमैश्वर्यं तदन्ते च शिवो भवेत् ॥ इति ।
तथा,
हिमवद्धेमकूटे च विन्ध्ये माहेन्द्रपर्वते ।
वैदिशे तु जयन्ते वा महासेने च भूभृति ॥
गोपागिरौ महापुण्ये चित्रकूटेऽथ यामुने ।
कालञ्जरेऽथ वा काश्यां प्रयागे देवपर्वते ॥
उज्जयिन्यां च यो धारां दापयेद्वा महेश्वरि ।
एतेषु पुण्यदेशेषु विषुवायनेसङ्क्रमे ॥
पुष्करे नैमिषे वत्स देया पञ्चमुखेक्षिते ।
स्थानविशेषेण वसुधाराफलम् । ४५७
गिरौ धाराप्रदानेन ग्रहपीडा न जायते ॥
बहुवक्रगते देहे वत्सरं न भयं भवेत् ।
जन्मतारार्क्षपीडायां दत्ता धारा व्यपोहति ॥
जम्बूमार्गे सदापूजा धारापाते विशिष्यते ।
सर्वकामानवाप्नोति नर्मदायां महामुने ।
धारादानेन गङ्गायां कालिन्द्यां वा महाह्रदे ॥
दत्त्वा विधानविहितं न भयं जायते क्वचित् ।
शनिसूर्यकृतां पीडां गुरुभौमीं व्यपोहति ॥
यथापूजाविधानेन प्रतिसंवत्सरे स्थिता ।
पीडां निवारयेद्वत्स संवत्सरग्रहोद्भवाम् ॥
मन्त्रं जपेत्सङ्कथितं न भयं विद्यते क्वचित् ।
एकान्ते दुष्टरहिते पापजन्तुविवर्जिते ॥
धाराहोमश्च कर्त्तव्यो यथोक्तः श्रियमिच्छता ।
जिह्वायां पातयेद्धारां न द्रुतां न विलम्बिताम् ॥
सावधानेन मनसा मृत्युञ्जयनिपातिता ।
मन्त्रयोगाद्भवेत्सिद्धिर्दृष्टादृष्टप्रसाधिका ॥
ग्रहोद्भवां हरेत्पीडां त्रिविधामपि दुःस्थिताम् ।
ग्रहाश्च त्रिविधाः प्रोक्तास्तेषां मन्त्रा विधानतः ॥
अंशजा मूलमन्त्राश्च पीठपादगतास्तथा ।
होमकाले प्रयोक्तव्याः पूजाकाले तथैव च ॥
एवं सिद्धिमवाप्नोति इह स्वर्गापवर्गिकाम् ।
तावत्काले क्रियायोगाद्धारायां लभते मुने ॥
धारादानं प्रकर्त्तव्यं यत्र कुत्र घटादिभिः ।
तैर्मन्त्रैर्नित्यहोमे च पूर्वं च कथितो विधिः ॥ इति ।
इति देवीपुराणोक्तो वसोर्धाराविधिः ।
५८
४५८ वीरमित्रोदयस्य राजनीतिप्रकाशे
अथ शत्रुनाशनं कृत्तिकास्नानम् ।
विष्णुधर्मोत्तरे,
पुष्कर उवाच ।
कृतोपवासो याम्यर्क्षे सोपवासस्य भार्गव ।
पुरोधाः स्नपनं कुर्यात्कृत्तिकासु यथाविधि ॥
अकालमूलैः कलशैर्मृन्मयैरथ काञ्चनैः ।
उज्ज्वलैलक्षणैः पूर्णैस्तथा तीर्थोदकैः शुभैः ।
अग्निमन्थशिरीषाणां न्यग्रोधाश्वत्थयोरपि ॥
पत्रपूर्णैस्तथा युक्तैस्तिलैः कृष्णैर्द्विजोत्तम ।
वह्निं कुमारं शशिनं रुद्रं वरुणमेव च ॥
पूजयेत्कृत्तिकाश्चैव गन्धमाल्यान्नसम्पदा ।
पीतरक्तैस्तथा वर्णैर्घृतधूपैस्तथैव च ॥
दध्ना गव्येन लाजाभिरग्निमन्थेन चाप्यथ ।
कृसरोल्लोपिकाभिश्च अपूपैश्च पृथग्विधैः ॥
देवतानां यथोक्तानां प्रियङ्गुं जुहुयात्ततः ।
गर्दभाश्वमयूराणां लोमानि मनुजोत्तम ॥
अग्निमन्थगृहात् धूमं कृत्वा रुक्माङ्गदं मणिम् ।
धारयेद्दक्षिणां दद्याच्छक्त्या कनकमेव च ॥
श्वेतवासास्ततः पश्चात्पूजयेन्मधुसूदनम् ।
कर्मैतत्सर्वतः कृत्वा वह्नयाधानमथाप्नुयात् ॥
कर्मैतदुक्तं रिपुनाशकारि सर्वाग्निकर्मप्रसमृद्धिदं च ।
धन्यं यशस्यं च तथैव काम्यं नित्यं कृतं धर्मभृतां वरिष्ठ ॥
इति शत्रुनाशनं कृत्तिकास्नानम् ।
शत्रुनाशनं कर्मान्तरम् । ४५९
अथापरं शत्रुनाशनं कर्म ।
विष्णुधर्मोत्तरे,
राम उवाच ।
अग्न्याधेयमवाप्नोति शत्रुनाशमथापि वा ।
स्वेच्छया कर्मणा केन सदा यादोनृपात्मज ॥
शत्रुनाशकरं कर्म कथयस्व तथाऽपरम् ।
तदहं श्रोतुमिच्छामि तत्र श्रद्धा सदा मम ॥
पुष्कर उवाच ।
कृतोपवासो याम्यर्थे कृत्तिकासु सदैव तु ।
पूजयेद्वासुदेवं तु कुङ्कुमेन सुगन्धिना ॥
रक्तैश्च कुसुमैर्हृद्यैर्धूपं दद्याच्च गुग्गुलम् ।
घृतेन दीपं दद्याच्च रक्तवर्णं तथैव च ॥
निवेदनीयं देवाय तथा सर्वं निवेदयेत् ।
होतव्याश्च समिद्धेऽग्नौ तथैवासुरसर्षपाः ।
आयुधानि प्रदेयानि ब्राह्मणेभ्यस्तु दक्षिणा ॥
कर्मैतदुक्तं रिपुनाशकारि कार्यं सदा शत्रुगणप्रमाथि ।
कृत्वैतदग्र्यं रिपुनाशमाशु प्राप्नोति राजा न हि संशयोऽत्र॥
इति शत्रुनाशनं कर्मः ।
अथ शत्रुनाशिनी घृतकम्बलशान्तिः ।
तत्र विष्णुधर्मोत्तरे,
राम उवाच ।
शान्तिमाचक्ष्व मां देव घृतकम्बलसंज्ञिताम् ।
कार्या या पार्थिवेन्द्राणां विजयाय पुरोधसा ॥
४६० वीरमित्रोदयस्य राजनीतिप्रकाशे
पुष्कर उवाच ।
पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे ।
प्रागुदक्प्रवणे देशे शान्त्यगारं तु कारयेत् ॥
शुभमत्यन्तविस्तीर्णं नानावस्त्रसमन्वितम् ।
पुनर्वसुगते चन्द्रे तत्र यायान्नराधिपः ॥
पुरस्कृत्य महाभाग सांवत्सरपुरोहितौ ।
आभिषेचनिका मन्त्रा ये मयाभिहिताः पुरा ॥
देवादयस्तु तेषां वै स्थानं तत्र प्रकल्पयेत् ।
ते च मन्त्रा राज्याभिषेकप्रकरणे पठिताः ।
गन्धमण्डलकर्मुख्यैर्यथास्थानं पुरोहितः ॥
आवाहनं ततः कुर्यात्स्नातस्तत्र सुखोषितः ।
देवादीनां तु सर्वेषां ब्राह्मणैः सहितो द्विज ॥
आवाहितानां सर्वेषां गन्धमाल्यान्नसम्पदा ।
दैववित्पूजनं कुर्यात्तथा नृपपुरोहितौ ॥
एवं सम्पूजनं कृत्वा सोपवासास्तु ते त्रयः ।
स्वप्युश्च तां निशां तत्र सर्व एव समाहिताः ॥
ततो नैर्ऋतकं कर्म प्रदिशेत्तु पुरोहितः ।
नैर्ऋतकं कर्म, बलिदानादि ।
कृत्वा त्रिभागशेषायां रात्रौ कुर्यात्तु शान्तिकम् ॥
हुत्वा दशगुणं तत्र स्नापयेत्तं नराधिपम् ।
पूर्वमेव तथा स्नातं सिद्धार्थोत्सादितं तथा ॥
पूर्णेन घृतकुम्भेन मन्त्रेणानेन कालवित् ।
आज्यं तेजः समुद्दिष्टमाज्यं पापहरं स्मृतम् ॥
आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः ।
भौमान्तरिक्षद्दिव्यं वा यत्ते किल्बिषमागतम् ॥
विष्णुधर्मोत्तरोक्ता घृतकम्बलशान्तिः । ४६१
सर्वं तदाज्यसंस्पर्शात्प्रणाशमुपगच्छतु ।
ततो विरूक्षितं स्नातं स्नानवेद्यां नराधिपम् ॥
गच्छेतां तु पुरस्कृत्य सांवत्सरपुरोहितौ ।
स्नानवेदी प्रकर्तव्या लाजाकुसुममण्डिता ॥
चतुर्भिः पूर्णकुम्भैस्तु विदिक्षु ह्युपशोभिता ।
चत्वारि तस्याश्चर्माणि प्राग्ग्रीवाणि समास्तरेत् ॥
वृषस्य द्वीपिनश्चैव सिंहशार्दूलयोस्तथा ।
भद्रासनं न्यसेद्राम तेषामुपरि चर्मणाम् ॥
स्वासीनं नृपतिं तत्र वस्त्रैराच्छादयेन्नवैः ।
कार्पासिकैस्ततः पश्चादाविकैः कृमिजैस्ततः ॥
ततस्तु सर्पिषः कुम्भैः पूर्णैस्तमभिषेचयेत् ।
कुम्भाष्टकं तु कर्त्तव्यमष्टाविंशतिरेव वा ॥
अथ वाष्टशतं राम वृद्धिरेषा गुणोत्तरा ।
ततोऽपनीय वस्त्राणि तस्यां वेद्यां पुरोहितः ॥
शूलेन मृन्मयं भिन्द्याच्छत्रुं क्रोधसमन्वितः ।
राज्ञस्तु कलशं दद्यात्स्वयं सांवत्सरस्ततः ॥
आभिषेचनमन्त्रेण स्वर्चितं कल्पितं दृढम् ।
ज्योतिष्मतीं त्रायमाणामभयामपराजिताम् ॥
जीवां विश्वेश्वरीं पाठां समङ्गामभयं तथा ।
सहां च सहदेवीं च पूर्णकोशां शतावरीम् ॥
अरिष्टिकां शिवां भद्रां कलशं तत्र विन्यसेत् ।
ब्राह्मीं क्षेमामजां चैव सर्वबीजानि काञ्चनम् ॥
मङ्गल्याश्च यथालाभं सर्वौषध्यो रसस्तथा ।
रत्नानि सर्वगन्धाश्च बिल्वं च सविकङ्कतम् ॥
एवं स्नातो घृते दृष्ट्वा वदनं दर्पणं तथा ।
४६२ वीरमित्रोदयस्य राजनीतिप्रकाशे
मङ्गलालम्भनं कृत्वा धौतवासाः समाहितः ॥
आयुधाभ्यर्चनं कार्यं वाहनाभ्यर्चनं तथा ॥
राजचिह्णार्चनं कृत्वा ह्यलङ्कृत्य स्वकां तनुम् ।
अनुलेपनमाद्याद्गन्धद्वारेतिमन्त्रितम् ॥
शुभं चन्दनमादद्याच्छ्रीसूक्तेनाभिमन्त्रितम् ।
श्रियं धातर्मयि धेहि मन्त्रः सुमनसां भवेत् ॥
रायस्पोषेति च तथा मन्त्रोऽलङ्करणे स्मृतः ।
ततोऽनुलिप्तः सुरभिस्स्रग्वी रुचिरभूषणः ॥
केशवाभ्यर्चनं कृत्वा वह्निस्थानं ततो व्रजेत् ।
वन्हेरुत्तराद्दिग्भागे तथा प्रागुक्तचर्मणाम् ॥
सिंहासनं न्यसेत्पृष्ठे परार्द्ध्यास्तरणैर्युतम् ।
ततस्तु राम चर्माणि प्राग्ग्रीवाणि तु विन्यसेत् ॥
वृषस्य वृषदंशस्य करिणः पृषतस्य च ।
तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् ॥
ध्रुवा द्यौरितिमन्त्रेण नृपं तत्रोपवेशयेत् ।
दर्भपाणिस्ततो राजा तथैव च पुरोहितः ॥
तयोर्हस्तगतावग्रे दर्भौ सङ्ग्रन्थयेद्द्विजः ।
ततः पुरोधा जुहुयाद्ब्राह्मैर्मधुघृतं शुचिः ॥
रौद्रवैष्णववायव्यशाक्रसौम्यैस्सवारुणैः ।
बार्हस्पत्यैस्ततः कुर्यात्तन्त्रमुत्तरसंज्ञितम् ॥
दैवज्ञः प्रयतः कुर्याद्देवतानां विसर्जनम् ।
यान्तु देवगणाः सर्वे सानुगास्सपरिच्छदाः ॥
१ अत्र—"अभ्यर्चनं ततः कुर्याद्देवादीनां पृथक्पृथक् । तेषामेव
ततो वह्नौ चतुर्थ्यन्तैस्तु नामभिः ॥ ओङ्कारपूतं जुहुयाद्घृतं बहु
पुरोहितः ।” इत्यधिकं मुद्रितविष्णुधर्मोत्तरे वर्तते ।
आथर्वणपरिशिष्टोक्ता घृतकम्बलशान्तिः। ४६३
आदाय पार्थिवात्पूजां पुनरागमनाय च ।
ततश्च पूजयेद्राजा सांवत्सरपुरोहितौ ॥
घनेन ब्राह्मणानां च ततो दद्यात्तु दक्षिणाम् ।
मङ्गलालम्भनं कृत्वा खड्गपाणिर्गृहान्व्रजेत् ॥
शान्तिघोषेण महता राजा कुञ्जरगस्ततः ।
शान्तिर्मया तेऽभिहिता नृवीर धन्या यशस्या रिपुनाशिनी च ।
सुखावहा राष्ट्रविवृद्धिकर्त्री कार्या नृपैर्धर्मविवृद्धिदा च ॥ इति ।
इति विष्णुधर्मोत्तरे घृतकम्बलशान्तिः ।
अथाथर्वणपरिशिष्टोक्तो घृतकम्बलः ।
ततो ज्येष्ठं घृतकम्बलं ब्रह्मणः पुत्रमकरोत्त्तस्य ह वा एतस्य
घृतकम्बलस्य सावित्रीगणशरीरस्य शान्तातीयः शिरः त्रिषष्ठीयं
मुखं रुद्रगणौ चक्षुषी घृतलिङ्ग आस्यं नैऋन्तो जिह्वा दन्तौष्ठावभ-
यापराजितौ कृत्यादूषणवातनौ श्रोत्रे शर्मवर्मस्वस्त्ययनौ बाहू
मातृनामावास्तोष्पत्यौ पादौ पायुश्च भैषष्ठंन्यायः (?) प्राणा-
पानान्विति मीमांसन्त इत्येष ह वै ज्येष्ठो घृतकम्बलो ब्रह्मणः
पुत्रोऽपराजितगणेनेष्टेन्द्रोऽसुरानजयद्राज्यमलक्ष्मीमरातिं दुष्ट-
स्वमदुर्भूर्तान्यजयद्यथा चैवंविद्वान् घृतकम्बलं कुरुते सर्व-
कामानाप्नोति सर्वव्याधिरहितो भवतीति ब्रह्मलोकमवाप्नो-
तीति ब्राह्मणम् ।
यदा सर्वमिदं व्याप्तमसुरैर्नावशेषितम् ।
स्थातुं देवाः पराभूतास्तेऽथर्वाणमुपागताः ॥
कर्म स्वकं कुरुष्व त्वं यद्भृग्वङ्गिरसोर्म्मतम् ।
असुराणां वधार्थायेत्युक्तः कर्त्ताऽथ सोऽभवत् ॥
परचक्रोपसृष्टस्य राज्ञो विजयमिच्छतः ।
प्रतिराष्ट्रस्य वा भूयः श्रीकामस्येच्छतः श्रियम् ॥