वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 445, कुल 490 में से
संदर्भ में पढ़ेंदेवीपुराणोक्तवसुधाराविधिः । ४४९
गुहासु च विचित्रासु गृहगर्भेषु भूमिषु ॥
दत्त्वा समाहितान् कामान् विधिना लभते नृप ।
अथ सामान्यतो गेहं समसूत्रं जलोन्मुखम् ॥
वास्तुसंशुद्धविन्यासमेकादशकरं परम् ।
त्रीणि पञ्चाथवा सप्त दश वा नव कारयेत् ॥
विंशकं यावदेकोनत्रिंशदूर्ध्वं न कारयेत् ।
पकेष्टं शैलदार्वं वा सालिन्दं सहतोरणम् ॥
पञ्चसप्तनवास्यं वा गवाक्षकविभूषितम् ।
सर्वतोभद्रविन्यासं क्रमवृद्ध्या विवर्द्धितम् ॥
ऊर्ध्वं च धूमनिष्काशं सप्रकाशं विशेषतः ।
सदेवसङ्गहं कार्यमथवा देवतागमम् ॥
सदेवसङ्ग्रहं, प्राचीनस्थापितदेवप्रतिमम् । देवतागमं, तत्का-
लातीतदेवप्रतिमम् ।
तस्य मध्ये भवेत्कुण्डं हस्तादिशुभलक्षणम् ।
चतुष्कमथ वा वृत्तं पङ्कजाकृति वाथ वा ॥
अथवेत्यनेन योनिकुण्डमुच्यते । अत एव “योन्यां कामफ-
लप्रदम्” इसनेनाग्रे तत्फलमुक्तम् ।
पृथिवीजयदं शाक्रं वृत्तं कामफलप्रदम् ।
शाक्रं चतुरस्रम् ।
पङ्कजे जयमारोग्यं योन्यां कामफलप्रदम् ।
शेषाः कार्यविभागेन कुण्डाः कार्या विजानता ॥
सामान्यं सर्वहोमेषु शाक्रकुण्डं नरोत्तम ।
विस्तारखाततुल्यं तु त्रिमेखलसमन्वितम् ॥
चतुरस्रि द्वे च वा कुर्यादङ्गुलान् कुण्डमानतः ।
द्विगुणान् द्विगुणे कुण्डे होमसारेण कारयेत् ॥
५७