वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
महोर्पः प्रचण्डेशो महावर्णो महासुरः ।
महारोमा महागर्भः प्रथमः कनकस्तथा ॥
खरजो गरुडश्चैव मेघनादोऽथ गर्भकः ।
गजत्वक्च्छेदको बाहुस्त्रिशिखो मारिरेव च ॥
वशित्वं कथितं व्यूहं शृणु कामावसायिकम् ।
विनादो विकटश्चैव वसन्तो ऽभय एव च ॥
विद्युन्महाबलश्चैव कमलो दमनस्तथा ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
धर्मश्चातिबलः सर्पो महाकायो महाहनुः ।
सबलश्चैव भस्माङ्गी दुर्जयो दुरतिक्रमः ॥
वेतालो रौरवश्चैव दुर्द्धराभोग एव च ।
वज्रः कालाग्निरुद्रश्च सिंहैनादो महागुहः ॥
द्वितीयावरणं प्रोक्तं व्यूहं कामावसायिकम् ।
कथितं षोडशव्यूहं द्वितीयावरणं शृणु ॥
द्वितीयावरणे चैव दक्षव्यूहे च शक्तयः ।
प्रथमावरणे चाष्टौ बाह्ये षोडश एव च ॥
मनोहरा महानादा चित्रा चित्ररथा तथा ।
रोहिणी चैव चित्राङ्गी चित्ररेखा विचित्रिका ॥
प्रथमावरणे प्रोक्ता द्वितीयावरणे शृणु ।
चित्रा विचित्ररूपा च शुभदा कामदा शुभा ॥
क्रूरा च पिङ्गला देवी खड्गिका लम्बिका सती ।
दंष्ट्राली राक्षसी ध्वंसी लोलुपा लोहितामुखी ॥
१ सुन्दरश्च इत्यपि पाठः ।
२ गजश्च च्छेदको बाहुरिति च पाठः ।
३ सद्योनाद इत्यपि पाठः ।
४६
३६२ वीरमित्रोदयस्य राजनीतिप्रकाशे
द्वितीयावरणे प्रोक्ताः षोडशैव समासतः ।
दक्षव्यूहं समाख्यातं दाक्षव्यूहं शृणुष्व मे ॥
सर्वाशिनी विश्वरूपा लम्पटा चामिषप्रिया ।
लम्बोष्ठी दीर्घदंष्ट्रा च लम्बजानुः प्रहारिणी ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
गजकर्णाश्वकर्णा च महाकाली सुभीषणा ॥
वातवेगरवा घोरा घना घनरवा तथा ।
घोरघोषा महाघण्टा सुघण्टा घण्टिका तथा ॥
घण्टेश्वरी महाघोरा घोरा चैवातिघोरिका ।
द्वितीयावरणे चैव षोडशैव प्रकीर्त्तिताः ॥
दाक्षव्यूहं समाख्यातं चण्डाव्यूहं शृणुष्व मे ।
अतिघण्टातिघोरा च कराला करका तथा ॥
विभूतिर्भोगदा कान्तिः शङ्खिनी चाष्टमी स्मृता ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
पत्रिणी चैव गान्धारी योगमाता सुपीवरा ।
उत्तालकोत्सुका वीरा संहारी रमणी तथा ॥
फलहारी जीवहारी स्वेच्छाहारी च तुण्डिका ।
रेवती रङ्गिणी सङ्गा द्वितीये षोडशैव तु ॥
चण्डाव्यूहं समाख्यातं चण्डायीव्यूहमुच्यते ।
चण्डी चण्डमुखी चण्डा चण्डवेगा महारवा ॥
भ्रुकुटी चण्डरूपा च चण्डभ्रूश्चाष्टमी स्मृता ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
चण्डघ्राणा चला चैव चलजिह्वा चलेश्वरी ।
यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३६३
चलवेगा महाकाया महामाया च विश्रुता ॥
कङ्काली च कृशाङ्गी च किंशुका चण्डघोषिका ।
महाहासा महारावा चण्डभाऽनङ्गचण्डिका ॥
चण्डायाः कथितं व्यूहं हरव्यूहं शृणुष्व मे ।
चण्डाक्षी कामदा देवी शूकरी कुक्कुटानना ॥
गान्धारी दुन्दुभिर्दुर्गा सौमित्रा चाष्टमी स्मृता ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
अमृतोद्भवा महालक्ष्मीर्वर्णदा जीवरक्षिणी ।
हरिणी क्षीणजीवा च चन्द्रवक्त्रा चतुर्भुजा ॥
व्योमचारी व्योमरूपा व्योमव्यापी शुभोदया ।
गृहचारी सुचारी च विषाहारी विषान्तिका ॥
हरव्यूहं समाख्यातं हरायीव्यूहमुच्यते ।
जम्भाऽच्युता च कङ्कारी देविका दुर्धरावहा ॥
चण्डिका चपला चेति प्रथमावरणे स्मृताः ।
चण्डिका चामरी चैव भण्डिका च शुभानना ॥
पिण्डिनी मुण्डिनी मुण्डा डाकिनी शार्ङ्गरी तथा ।
कर्त्तरी हर्त्तरी चैव भामिनी यज्ञदायिनी ॥
यमदंष्ट्रा महादंष्ट्रा कराला चेति शक्तयः ।
हराय्याः कथितं व्यूहं शौण्डान्यूहं शृणुष्व मे ॥
विकराली कराली च कालजङ्घा यशस्विनी ।
वेगा वेगवती विद्या वेदाङ्गा चाष्ट शक्तयः ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
वज्रा शङ्खवती शङ्खा बला चैकबला तथा ॥
१ अत्र लिङ्गपुराणे-“वज्रा शङ्खातिशङ्खा वा बला चैवाबला
१६४ वीरमित्रोदयस्य राजनीतिप्रकाशे
बला चातिबला लोला कुम्भिनी स्तम्भिनी तथा ।
अञ्जनी मोहनी माया विकटाङ्गी नली तथा ।
शौण्डाव्यूहं समाख्यातं शौण्डायीन्यूहमुच्यते ।
दन्तुरा रौद्रभागा च अमृता सुकुला तथा ॥
चलजिह्वार्धनेत्रा च रूपिणी दारिका तथा ।
प्रथमावरणस्यैता द्वितीयावरणे शृणु ॥
खादका रूपनाशा च संहारी चाक्षयान्तका ।
कण्डनी पेषणी चैव महाग्रासा कृतान्तिका ॥
दण्डिनी किङ्करी बिम्बा वर्णिनी चापलाङ्गिनी ।
विद्राणी द्राविणी चेति शक्तयः षोडशैव तु ॥
कथितं हि मनोरम्यं शौण्डायीव्यूहमुत्तमम् ।
प्रथमाख्यं प्रवक्ष्यामि व्यूहं रम्यं सुशोभनम् ॥
प्लवनी प्लावनी शोभा मन्दा चैव मदोत्कटा ।
मदाक्षया महादेवी प्रथमावरणे स्मृताः ॥
कामसन्दीchart? NO -> कामसन्दीchart: कामसन्दी पनी देवी अतिरूपा मनोहरा ।
महावशा मदग्राहा विह्वला मदविह्वला ॥
अरुणा घोषणी दिव्या रेवती भाण्डनायिका ।
स्तम्भनी घोररक्ताक्षी घोररूपा सुघोषणा ॥
व्यूहं तु प्रथमाख्यं ते स्वायम्भुव यथा तथा ।
कथितं प्रथमायाख्यं प्रवक्ष्यामि शृणुष्व मे ॥
घोरा घोरतरा घोरा अतिघोररायनायिका ॥
धावनी क्रोष्टुकी मुण्डा चाष्टमी परिकीर्त्तिता ।
तथा । अञ्जनी मोहनी माया विकटाङ्गी नली तथा ॥ गण्डकी दण्ड-
की घोणा शोणा सत्यवती तथा । कल्लोला चेति क्रमशः षोडशैव
यथाविधि ॥” इति पाठः ।
यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३६५
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
भीमा भीमतराऽभीमा शस्त्री चैव सुवर्चला ॥
स्तम्भनी मोहनी रौद्री रुद्रवत्यचलाचला ।
महाबला महाशान्तिः शिवाशीला शिवाशिवा ।
बृहत्कुक्षी बृहन्नासा षोडशैव प्रकीर्त्तिताः ॥
प्रथमायी समाख्याता मन्मथाख्यं वदामि ते ।
कालकर्णी कराला च कल्याणी कपिला शिवा ॥
इष्टिसुष्टिः प्रतिष्ठा च प्रथमावरणे स्मृताः ।
शान्तिः पुष्टिकरी तुष्टिर्ज्ञेया चैव श्रुतिर्धृतिः ॥
कामदा सुभगा सौम्या तेजनी कामतन्त्रिका ।
धार्मिकी धर्मिणी शीला पापहा धर्मवर्द्धनी ॥
मान्मथं कथितं व्यूहं मान्मथायिकमुच्यते ।
धर्मरक्षा निवाता च धर्माधर्मवती तथा ॥
सुमतिदुर्मतिर्मेधा विमला चाष्टमी स्मृता ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
शुद्धिर्बुद्धिर्मतिः कान्तिर्वर्तुला मोहावर्द्धनी ।
बला चातिबला भीमा प्राणवृद्धिकरी तथा ॥
निर्लज्जा निर्घृणा मन्दा सर्वपापक्षयङ्करी ।
कपिला चातिविधुरा षोडशैताः प्रकीर्त्तिताः ॥
मान्मथायिकमुक्तं ते भीमाव्यूहं वदामि ते ।
रक्ता चैव विरक्ता च उद्वेगा शोकवर्द्धनी ॥
कामा तृष्णा क्षुधा मोहा चाष्टमी परिकीर्त्तिता ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
जया निद्राऽभयालस्या सुतृष्णा रोदनी दरा ।
कृष्णाकृष्णाङ्गिनी वृद्धा शुद्धोच्छिष्टाशनी वृषा ॥
३६६ वीरमित्रोदयस्य राजनीतिप्रकाशे
कामदा भोगिनी दग्धा दुःखदा सुखदा तथा ।
भीमाव्यूहं मया प्रोक्तं भीमायणीव्यूहमुच्यते ॥
आनन्दा च सुनन्दा च महानन्दा शुभङ्करी ।
वीतरागा महोत्साहा जितरागा मनोरमा ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
मनोन्मनी मनःक्षोभा मदोन्मादा मदाकुला ॥
मदोद्गर्भा मदारामा कामानन्दा सुविह्वला ।
महावेगा सुवेगा च महाभोगा क्षयावहा ॥
क्रमणी क्रामिणी चक्रा द्वितीयावरणे स्मृताः ।
कथितं तव भीमायणीव्यूहं परमशोभनम् ॥
शाकुनं कथाम्यद्य व्यूहं परमशोभनम् ।
योगावेगा सुवेगा च अतिवेगा सुवासिनी ॥
देवी मनोरथावेगा रुद्रावर्तवती मतिः ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
रोधनी क्षोभणी बाला चातिघोषा सुघोषिणी ।
विद्युता त्रासनी देवी मनोवेगा च चापला ॥
विद्युज्जिह्वा महाजिह्वा भ्रुकुटीकुटिलानना ।
स्फुरज्ज्वाला महाज्वाला सुज्वाला च क्षयान्तिका ।
शाकुनं कथितं व्यूहं शाकुनार्थी शृणुष्व मे ।
ज्वालिनी चैव भस्माङ्गी तथा भस्मान्तकान्तका ॥
भाविनी च प्रजा विद्या ख्यातिश्चैवाष्टमी स्मृता ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
उल्लेखा च पताका च भोगा भोगवती खगा ।
योगव्रता योगमाता योगाख्या योगपारगा ।
१ जलावर्ता च धीमती इत्यपि पाठः ।
यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३६७
ऋद्धिर्बुद्धिर्धृतिः कान्तिः स्मृतिः साक्षाच्छुतिर्धरा ॥
शाकुनाय्या महाव्यूहं कथितं कामदायकम् ।
स्वायम्भुव तथा व्यूहं सुमताख्यं सुशोभनम् ॥
परेष्टा च परादित्या ह्यमृता फलनाशिनी ।
हरिणाक्षी सुवर्णाक्षी देवी साक्षात्कपिञ्जला ॥
कामरेखा च कथितं प्रथमावरणं शुभम् ।
रत्नदीपा वसुदीपा रत्नदा रत्नमालिनी ॥
रत्नशोभा सुशोभा च महाशोभा महाद्युतिः ।
शवरी शाम्बरी ग्रन्थिपादकर्णकरानना ॥
हयग्रीवा च जिह्वा च सर्वग्रासेतिशक्तयः ।
कथितं सुमतव्यूहं सुमत्या व्यूहमुच्यते ॥
सर्वाशी च महाभक्षा महादंष्ट्रातिरौरवा ।
स्फुलिङ्गा विस्फुलिङ्गा च कृतान्ता भास्करानना ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
रागा रागवती क्रोधा महाक्रोधा च रौरवा ॥
क्रोधनी मृदनी चै व कलहा कलहावती ।
कलान्तिका चतुर्भेदा दुर्गा वै दुर्गमानगा ॥
नाली कुनाली सौम्या च इत्येवं कथितं मया ।
गोपाव्यूहं वदाम्यद्य शृणु स्वायम्भुवाखिलम् ॥
पाटली पाटवी चैव पाटी विटिपिटा तथा ।
कङ्कटा सुघटा चैव प्रघटा च घटोद्भवा ॥
प्रथमावरणं चात्र गोपायाः कथितं मया ।
नादाक्षी नादरूपा च सर्वकारागमागमा ॥
अग्रचारी सुचारी च चण्डनाडी सुवाहिनी ।
सुयोगा च वियोगा च हंसाक्षी च विलासिनी ॥
३६८ वीरमित्रोदयस्य राजनीतिप्रकाशे
सर्वगा सुविरावा च बन्धनी चेति शक्तयः ।
गोपाव्यूहं मया ख्यातं गोपायीव्यूहमुच्यते ॥
भेदिनी छेदनी चैव सर्वकारी क्षुधाशनी ।
उच्छुष्मा चैव गान्धारी भश्माशी वडवानला ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
अन्ववज्वालिनी ज्वाला दीपाक्षामा तथैव च ॥
अन्तरिक्षा च हृल्लेखा हृद्रमा मायिकापरा ।
आमयासादिनी भिल्ली सह्यासह्या सरस्वती ॥
रुद्रशक्तिर्महाशक्तिर्महामोहा च रोदिनी ।
गोपाय्याः कथितं व्यूहं नन्दाव्यूहं वदामि ते ॥
नन्दिनी च निवृत्तिश्च प्रतिष्ठा च यथाक्रमम् ।
विद्यानाशी खग्रसनी चामुण्डा प्रियदर्शनी ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
गुह्या नारायणी मोहा प्रज्ञा देवी च वज्रिणी ॥
कङ्कटा च तथा काली शिवा घोषा ततः परम् ।
वीरा माया च कामेशी वहिनी भीषणी तथा ॥
स्वर्गा माला च निर्दिष्टा द्वितीयावरणे स्मृताः ।
नन्दाव्यूहं समाख्यातं नन्दायीव्यूहमुच्यते ॥
विनायकी पूर्णिमा च रङ्गिणी कूर्दनी तथा ।
इच्छा कपालिनी चैव दीपनी च जयन्तिका ॥
प्रथमावरणे चाष्टौ शक्तयः परिकीर्त्तिताः ।
पावनी चाम्बिका चैव सर्वाशा पूतना तथा ॥
छागली मोदिनी साक्षाद्देवी लम्बोदरी शुभा ।
संहारी कालिनी चैव कुसुमा च यथाक्रमम् ॥
१ रङ्कारी कुण्डली तथा इत्यपि पाठः ।
यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३६९
शुक्रा तारा तथाज्ञाना क्रिया गायत्रिका तथा ।
सावित्री चेति विधिना द्वितीयावरणे स्मृताः ॥
नन्दायाः कथितं व्यूहं पैतामहमतः शृणु ।
दन्तुरी चैव फेत्कारी क्रोधहासा षडङ्गुला ॥
आनन्दा च सुदुर्गा च संहारी ह्यमृताष्टमी
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
कुलान्तिकाऽनला चैव प्रचण्डा मर्दनी शुभा ।
सर्वभूताभया चैव देवी च वडवामुखी ॥
लम्पटा पन्नगा देवी कुसुमा विपुलान्तिका ।
केदारा च तथा कूर्मा दुरिता मन्दरोदरी ॥
खड्गचण्डेति विधिना द्वितीयावरणं स्मृतम् ।
व्यूहं पैतामहं प्रोक्तं धर्मकामार्थमोक्षदम् ॥
पितामह्यार्यव्यूहं च शृणुष्व कथयामि ते ।
वज्रा च मन्मथा चोरा विकारा रिपुभेदिनी ॥
रूपा चतुर्भुजा योगा प्रथमावरणे स्मृताः ।
भूताभया महाबाला खर्प्परा च ततः परम् ॥
भस्मा कान्ता तथा सृष्टिर्द्विभुजा ब्रह्मरूपिणी ।
सद्यःफेत्कारिका नाम कर्णमोटी तथापरा ॥
महामोहा महामाया गान्धारी पुष्पमालिनी ।
शब्दायी च महाघोषा षोडशैतास्तथान्तिमे ॥
सर्वाश्च द्विभुजा देव्यो बालभास्करसन्निभाः ।
पद्मशङ्खधराः शान्ता रक्तस्रग्वस्त्रभूषणाः ।
सर्वाभरणसम्पूर्णा मुकुटाद्यैरलङ्कृताः ॥
१ नन्दिनी इत्यपि पाठः ।
२ खड्गचक्रेत्यपि पाठः ।
४७
३७० वीरमित्रोदयस्य राजनीतिप्रकाशे
मुक्ताफलमयैर्दिव्यै रत्नचित्रैर्मनोरमैः ।
भूषिता हारकेयूरैर्गौरा ध्येयाः पृथक् पृथक् ॥
एवं सहस्रकलशं ताम्रजं मृन्मयं तु वा ।
पूर्वोक्त१दक्षिणायुक्तं रौद्रक्षेत्रे प्रतिष्ठितम् ॥
भवाद्यैर्विष्णुना प्रोक्तैर्नाम्नां चैव सहस्रकैः ।
सम्पूज्य विन्यसेदग्रे सेचयेद्वाणविग्रहम् ॥
अभिषिच्य च विज्ञाप्य सेचयेत्पृथिवीपतिम् ।
एवं सहस्रकलशं सद्यःसिद्धिफलप्रदम् ॥
चत्वारिंशन्महाव्यूहं सर्वलक्षणलक्षितम् ।
सर्वेषां कलशं प्रोक्तं पूर्ववद्धेमनिर्मितम् ॥
सर्वे गन्धोदकैः पूर्णास्तीर्थतोयसमन्विताः ।
तथा कनकसंयुक्ता देवस्य घृतपूरिताः ॥
क्षीरेण वाथ दध्ना वा पञ्चगव्येन वा पुनः ।
ब्रह्मकूर्चेन वा मेध्यमभिषेको विधीयते ॥
रुद्राध्यायेन रुद्रस्य नृपतेः शृणु सुव्रत ॥
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।
सर्वेभ्यः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥
मन्त्रेणानेन राजानं सेचयेदभिषेचितम् ।
होमं च मन्त्रेणानेन अघोरेणाघहारिणा ॥
प्रागाद्यं देवकुण्डे वा स्थण्डिले वा घृतादिभिः ।
समिदाज्यचरुं लाजशालिनीवारतण्डुलैः ॥
अष्टोत्तरशतं हुत्वा राजानमधिवासयेत् ।
पुण्याहं स्मस्ति२रित्याद्यैः कौतुकं हेमनिर्मितम् ॥
१ पूर्वोक्तलक्षणैर्युक्तमिति च पाठः ।
२ स्वस्तिरुद्राय इत्यपि पाठः ।
यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३७१
भसितं च मृदो१ चैव बन्धयेद्दक्षिणे करे ।
त्र्यम्बकं यजामहे सुगन्धि पुष्टिवर्द्धनम् ॥
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् ।
मन्त्रेणानेन राजानं सेचयेद्वाथ होमयेत् ॥
सर्वद्रव्याभिषेकं च होमद्रव्यैर्यथाक्रमम् ।
प्रागाद्यं ब्रह्माभिः प्रोक्तं सर्वद्रव्यैर्यथाक्रमम् ॥
तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ॥
स्वाहान्तं पुरुषेणैवं प्राक्कुण्डे होमयेद्द्विजः ।
अघोरेण च याम्येऽथ होमयेत्कृष्णवाससा ॥
वामदेवाय नमोज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः ।
इत्याद्युक्तक्रमेणैव जुहुयात्पश्चिमे पुनः ॥
सद्येन पश्चिमे होमः सर्वद्रव्यैर्यथाक्रमम् ।
सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।
भवे भवे नातिभवे भवस्व मां भवोद्भवाय नमः ॥
स्वाहान्तं जुहुयादग्नौ मन्त्रेणानेन बुद्धिमान् ।
आग्नेय्यां च विधानेन ऋचा रौद्रेण होमयेत् ॥
जातवेदसे सुनवामसोममित्यादि ।
नैर्ऋते च तथा द्रव्यैः सर्वैर्होमो विधीयते ॥
मन्त्रेणानेन दिव्येन सर्वसिद्धिकरेण च ।
निशि निशि जय स्वाहा खड्ग राक्षसभेदन ॥
रुधिराज्यार्द्रनैर्ऋत्यै स्वाहा नमः स्वधा नमः ।
यथेदं विधिना द्रव्यैर्मन्त्रेणानेन होमयेत् ॥
१ मृणालेन इत्यपि पाठः ।
३७२ वीरमित्रोदयस्य राजनीतिप्रकाशे
याम्यां१यां विविधैर्द्रव्यैरीशानेन द्विजोत्तमः ।
समीर समीर स्वाहा स्वधा नमः ।
ईशान्यामथ पूर्वोक्तैर्द्रव्यैर्होमं समाचरेत् ।
ॐईशानाय कद्रुद्राय रुद्राय प्रचेतसे त्र्यम्बकाय शर्वाय ।
तन्नो रुद्रः प्रचोदयात् ॥
प्रधानं पूर्ववद्द्रव्यैरीशाने च द्विजोत्तमः ।
प्रतिद्रव्यं सहस्रेण जुहुयान्नृपसन्निधौ ॥
स्वयं वा जुहुयादग्नौ पुरोहितमुखेन वा ।
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् । ब्रह्माधिपतिर्ब्र-
ह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवोम् ॥
प्रायश्चित्तमघोरेण शेषं सामान्यमाचरेत् ।
कृताधिवासं राजानं शङ्खभेर्यादिनिःस्वनैः ॥
जयशब्दैर्दिव्यैर्वेदघोषैः सुशोभनैः ।
सेचयेत्कूर्चतोयेन मोक्षयेद्वा नृपोत्तमम् ॥
रुद्राध्यायेन विधिना रुद्रभस्मप्रभारुणम् ।
शलाकाशतसम्पन्नं छत्रं चन्द्रसमप्रभम् ॥
शिबिकां वैजयन्तीं च साधयेन्नृपतेः समम् ।
राज्याभिषेकयुक्ताय क्षत्रियायेश्वराय वा ॥
नृपचिह्नानि यान्येषां क्षत्रियाणां विधीयते ।
वेदीप्रमाणं सर्वेषां द्वादशाङ्गुलमुच्यते ।
पलाशोदुम्बराश्वत्थवटाः पूर्वादितः क्रमात् ॥
तोरणाद्यानि वै तत्र पट्टमात्रेण पट्टिका ।
अष्टमाङ्गुलसंयुक्तदर्भमालासमावृतम् ॥
१ यमयतीति यमः सर्वनियन्ता वायुस्तद्दिता याम्या वायव्येत्य-
र्थः । तस्याम् ईशानेन तन्मन्त्रेणेत्यर्थः ।
यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३७३
दिग्ध्वजाष्टकसंयुक्तं द्वारकुम्भैः सुशोभिम् ।
हेमतोरणकुम्भैश्च भूषितं स्नापयेन्नृपम् ॥
चर्मोपरिसमासीनं शिवकुम्भेन सेचयेत् ।
तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि ॥
तन्नः शिवः प्रचोदयात् ।
मन्त्रेणानेन विधिना वर्द्धन्या गौरीगीतया ॥
रुद्राध्यायेन वा सर्वमघोरेणापि वा पुनः ।
दिव्यैराभरणैः शुक्लैर्मुकुटाद्यैः सुकल्पितैः ॥
क्षौमैर्वस्त्रैश्च राजानं भूषयेन्नियतः शुभैः ।
अष्टषष्टिपलेनैव हैमं कृत्वा सुरद्रुमम् ॥
नवरत्नैरलङ्कृत्य दद्याद्वै दक्षिणां गुरोः ।
दश धेनूः सवस्त्राश्च दद्यात्क्षेत्रं सुशोभनम् ॥
शतद्रोणं तिलं चैव शतद्रोणं च तण्डुलान् ।
शयनं वाहनं छत्रं शय्यां सोपस्करां शुभाम् ॥
होतॄणां चैव सर्वेषां त्रिंशत्पलमुदाहृतम् ।
अध्येतॄणां तदर्द्धेन ब्राह्मानां च तदर्द्धतः ॥
महापूजां ततः कुर्यान्महादेवस्य वै नृपः ।
एवं समासतः प्रोक्तं जयसेचनमुत्तमम् ॥
एवं पुराभिषिक्तस्तु शक्रः शक्रत्वमागतः ।
ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ॥
अम्बिका चाम्बिकात्वं च सौभाग्यमतुलं तथा ।
सावित्री च धरा लक्ष्मीर्देवी कात्यायनी तथा ॥
नन्दिना च पुरा मृत्यु रुद्राध्यायेन वै द्विज ।
अभिषिक्तोऽसुरैः पूर्वं तारकाख्यो महाबलः ॥
विद्युन्माली हिरण्याक्षो विष्णुना वै विनिर्जितः ।
३७४ वीरमित्रोदयस्य राजनीतिप्रकाशे
नृसिंहेन पुरा दैत्यो हिरण्यकशिपुर्हतः ॥
स्कन्देन तारकाद्याश्च कौशिक्या च पुराम्बया ।
सुन्दोपसुन्दतनयौ जितौ देवेन्द्रपूजितौ ॥
वसुदेवसुदेवौ तु निहतौ कृतकाम्यया ।
पुरा स्नानविधानेन ब्रह्मणा निर्मितेन तु ॥
देवासुरे दितिसुता जिता देवैरनेकशः ।
स्नाप्यैवं सर्वभूपैश्च तथान्यैरपि भूसुरैः ॥
प्राप्ताश्च सिद्धयो दिव्या नात्र कार्या विचारणा ।
अहोऽभिषेकमाहात्म्यमहो सुष्ठु सुभाषितम् ॥
येनैवमभिषिक्तेन सिद्धैर्मृत्युर्जितास्त्विति ।
कल्पकोटिशतेनापि यत्पापं समुपार्जितम् ॥
स्नात्वैवं मुच्यते राजा सर्वपापान्न संशयः ।
व्याधितो मुच्यते राजा क्षयकुष्ठादिभिः पुनः ॥
नित्यं च विजयी भूत्वा पुत्रपौत्रादिभिर्वृतः ।
जनानुरागसम्पन्नो देवराज इवापरः ॥
मोदते पापहीनश्च क्रियाधर्मे च निष्ठया ।
उद्देशमात्रं कथितं फलं परमशोभनम् ॥
नृपाणामुपकाराय स्वायम्भुव मनो मया । इत्यादि ।
अयं च जयाभिषेकः त्रैवार्णिकेन नृपेणापमृत्युजयार्थं स-
र्वशत्रुजयार्थं वैरिविशेषेण युद्धोपस्थितौ यात्रातः पूर्वं तज्जया-
र्थं च कर्तव्यः । तत्र सम्भाराः । राजाभिषेककलशस्थाप-
नार्थं नवकुण्डहोमार्थं च मण्डपः प्रपा कूटो वा । बहुस्तम्भः
सभाकारः समशीर्षकसन्निवेशः प्रपा । सैव मध्योन्नता वंशा-
वलम्बितपटलद्वयान्विता मण्डपः । स एव गिरिशृङ्गाकारो मध्ये
समन्ततोऽवलम्बितचतुष्पटलः कूटः । ते च मण्डपादयः पञ्चस-
यात्रामकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३७५
सप्तिहस्तायामविस्तारास्तावदर्थाद्भवन्ति ।
लिङ्गपुराणे,
विधिना मण्डपं कृत्वा प्रपां वा कूटमेव च ।
नवधा स्थापयेद्वह्निं ब्राह्मणो वेदपारगः ॥
ततः सर्वाभिषेकार्थं सूत्रपातं च कारयेत् ।
इत्यभिधानात्, चकारेण मण्डपादिमध्य एव मण्डलरचना-
प्रतीतेः, मण्डलरचनायाश्च सर्वतडागोत्सर्गादौ मण्डपप्रागपर-
दक्षिणोत्तरसूत्रयोस्त्रिधाविभक्तयोर्मध्यमतृतीयभागाश्रितवेद्याधिक-
रणकत्वदर्शनात् अत्रत्यमण्डलप्रकृतिपञ्चाशद्रेखानां च पदा-
नां द्वादशाङ्गुलप्रमाणत्वोक्त्या प्रत्येकं तावदन्तरत्वात् । तथा
च प्रत्येकद्वादशाङ्गुलान्तरालपञ्चाशद्रेखानिवर्त्यमण्डलसिद्ध्यर्थं
शुक्लरक्तकृष्णतत्तत्परिधिरेखासिद्धयर्थं च वेदियोग्यः पञ्चविंश-
तिहस्तस्तावन्मण्डपादिमध्यतृतीयभागोपेत इति मण्डपादेः पूर्वो-
क्तपरिमाणसिद्धिः । ततश्च तदनुरूपा स्तम्भपरिमाणविवृद्धिः ।
पटलनिवेशनार्थं तिर्यक्काष्ठनिवेशनार्थं चार्थात्स्तम्भविवृद्धिरपि क-
ल्प्या मण्डपकूटयोः । तत्र मध्यस्तम्भास्तावन्मण्डपविस्तारद-
लोच्चा एव, प्रान्तस्तम्भाश्च पञ्चहस्ता एव, अन्यत्र तथादर्श-
नात् । आर्थिकमध्यस्तम्भास्त्वार्थिकपरिमाणा एवेति दिक् ।
अस्मिंश्च मण्डपादौ प्रागपरदक्षिणोत्तरमध्यसूत्रत्रेधाविभागे-
न नवभागे कृतेऽष्टसु दिग्भागेषु अष्टौ पूर्वेशान्यन्तराले चैकमिति
नव कुण्डानि स्थण्डिलानि वा । तानि च तत्तदाकृतिकानि वर्ण-
भेदेन चतुरस्रादीन्येव वा । मध्यमभागे च वेदिरायामतृतीयां-
शोच्चा । तत्र च राजाभिषेककलशस्थापनार्थं मण्डलम् । तद्यथा-
प्रागपरायताः प्रत्येकं द्वादशाङ्गुलान्तरालाः पञ्चाशद्रेखा लि-
खित्वा तादृशीभिरेव दक्षिणोत्तराभिः पञ्चाशद्रेखाभिस्ता भेद-
३७६ वीरमित्रोदयस्य राजनीतिप्रकाशे
येत् । ततः प्रागपरायतासु दक्षिणोत्तरायतासु च रेखासु
उपान्त्यरेखामारभ्य षड्रेखाः सङ्गृह्य सप्तमीं सप्तमीं रेखां परि-
मार्जयेत् । तथा च प्रागपरायता अष्टौ तत्सम्भिन्नाश्च दक्षि-
णोत्तरायता अष्टौ एवं षोडशान्तरा वीथ्यः सम्पद्यन्ते । ततश्च
तन्मध्यवर्त्तिनः प्रत्येकं पञ्चविंशतिकोष्ठका एकोनपञ्चाशद्व्यूहा
भवन्ति । तेषु मध्यगतं व्यूहनवकं परिमृज्याष्टदलं कमलं का-
र्यम् । तत्समन्तान्नाभिवीथीमध्यस्थपद्मदलेषु परिशिष्टेषु च-
त्वारिंशद्व्यूहेषु च प्रतिकोष्ठकमलानि । तत्र मध्यकोष्ठेषु मु-
ख्याः शक्तयः सुभद्राद्या दाक्षाद्याश्च शिवस्य द्वितीयतृतीया-
वरणयोः । तत्प्रथमावरणे तु वामादिमिथुनाष्टकं केसरदलेषु प्र-
धानकमलस्य । मध्यमकोष्ठेभ्यो बहिरष्टकोष्ठकं प्रथमावरणं
षोडशषोडशकोष्ठकं द्वितीयं प्रत्येकं शक्तीनाम् । तत्र नाभि-
वीथ्यनन्तरबाह्यषोडशव्यूहसंलग्ना पिशाचवीथी । तत्संलग्ना
चतुर्विंशतिव्यूहबाह्या महावीथीति । सर्वाणि च पद्मानि शालिनी-
वारगोधूमाणुयवतण्डुलगौरसर्षपान्विततिलानामन्यतरेण धा-
न्येन यथालाभं समुदितैर्वा कार्याणि । तत्र मध्यवर्त्तिनि नव-
व्यूहाष्टदले शालयो द्रोणमिताः, तदर्धं तण्डुलाः, आढक-
मितास्तिलाः, तदर्द्धं यवादयः । अन्येषु आढकमिताः शा-
लयः, तदर्द्धं तण्डुलाः, तदर्धं यवतिलादयः । प्रधानकमलं च
हस्तमात्रमष्टाङ्गुलप्रमाणसुवर्णकर्णिकं चतुरङ्गुलकेसरस्थानमव-
शिष्टपत्रस्थानं कार्यम् । अन्यानि द्वादशाङ्गुलेषु कोष्ठेषु यथा-
सम्भवम्। प्रधानकमलकेसराष्टकदलाष्टकचत्वारिंशद्व्यूहान्तर्गत-
सहस्रपदेषु च स्थापनीयं षोडशाधिकं कलशसहस्रम् । तच्च
द्वादशाङ्गुलायामोदरं षडङ्गुलवर्त्तितनाभिकं द्व्यङ्गुलोत्सेधचतुरङ्गु-
लविस्तारकण्ठं द्व्यङ्गुलोत्सेधनिर्गमौष्ठं कार्यम् । प्रधानकमल-
यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकसम्भारः। ३७७
कर्णिकायां स्थापनीयश्चैकः । स चोदरादिषु पूर्वोक्तद्विगुण-
परिमाणः । तन्तूनां परस्परान्तरालं यवमात्रं यथा स्या-
तथा जालवद्वेष्टनीयश्च । तद्वामभागस्थाप्या करकापरपर्याया
चैका वर्धनी । सर्वे चैते हैमा राजतास्ताम्रमया वा । सर्वेषां
पूरणार्थं गन्धोदकं, तन्मध्ये च निक्षेप्याणि पञ्चरत्नानि कन-
कशकलानि ब्रह्मकूर्चाश्च । साधारणानि च पञ्चपल्लवसप्त-
मृदादीनि । शिवकुम्भोपरिस्थाप्यं चाग्नेयादिकोणेषु क्रमेण
सितरक्तपीतकृष्णवर्णसिंहयुक्तं पूर्वादिक्षु सुवर्णवर्णगात्रयुतं
सुवर्णादिमयं सिंहासनं, सर्वेषां प्रत्येकं वेष्टनार्थानि वस्त्रयुग्मानि,
प्रच्छादनार्थानि च हैमानि रत्नचित्राणि कमलानि, शिवप्र-
तिमा देवीप्रतिमा । तयोर्लक्षणमुक्तम्—
मत्स्यपुराणे,
पञ्चवक्त्रो वृषारूढः प्रतिवक्त्रं त्रिलोचनम् ।
कपालशूलखट्वाङ्गी चन्द्रमौलिः सदा शिवः ॥
अक्षसूत्रं च कमलं दर्पणं च कमण्डलुम् ।
उमा विभर्ति हस्तेषु पूजिता त्रिदशैरपि ॥ इति ।
अष्टाधिकं सहस्रमन्यप्रतिमा । तत्र स्त्रीप्रतिमाः-
सर्वाश्च द्विभुजा देव्यो बालभास्करसन्निभाः ।
पद्मशङ्खधराः शान्ता रक्तस्रग्वस्त्रभूषिताः ॥
सर्वाभरणसम्पूर्णा मुकुटाद्यैरलङ्कृताः ।
मुक्ताफलमयैर्दिव्यै रत्नचित्रैर्मनोरमैः ॥
भूषिता हारकेयूरैर्यावद्धेव्यः पृथक्पृथक् ।
इतिलिङ्गपुराणोक्तलक्षणलक्षिताः कार्याः । पुम्प्रतिमाश्च
रुद्ररूपाः । बाणलिङ्गं, तदभिषेकार्थं चान्यत्कलशसहस्रं ताम्रमयं
४८
३७८ वीरमित्रोदयस्य राजनीतिप्रकाशे
मृन्मयं वा पूर्वोक्तलक्षणलक्षितं हेमकमलाच्छादितं रुद्रक्षेत्रे स्थाप-
नीयम् । रुद्रक्षेत्राभावे तदर्थमप्येको मण्डपः कार्यः । तत्कलश-
पूरणार्थं घृतं क्षीरं दधि पञ्चगव्यं वा । घृतपलाशसमिदाज्यचरु-
लाजशालिनीवारतण्डुलरूपाण्यष्टौ होमद्रव्याणि प्रतिकुण्डम् । घृतं
लौकिकमाज्यं संस्कृतमिति भेदः । प्रतिकुण्डं होता ब्रह्मा चेति
द्वौ द्वौ ब्राह्मणौ । तत्र याम्ये कृष्णवासा होता । ऐन्द्रेशान्यन्त-
रालगते प्रधानकुण्डे आचार्यो नृपः पुरोहितो वा होता । द्वार-
जापकाश्चाष्टौ । रुद्राभिषेककर्त्ता तु पुरोहित एव । अनुक्तान्य-
कर्तृकेषु राजसम्बन्धिकार्येषु तस्यैव कर्तृत्वदर्शनात् । साहाय्या-
र्थं चान्येऽपि यथासम्भवम् । हैमं मृणालभासितं कौतुकम् । द्वारदे-
शात्पदमात्रे निखातैः पूर्वाक्रमेण पलाशोदुम्बराश्वत्थवटमयैर्हे-
मकुम्भान्वितैस्तोरणैर्युक्तं दर्भमालासमावृतं द्वारदेशादौ निक्षि-
प्ताष्टमङ्गलद्रव्यमावाहितदिग्गजाष्टकं द्वारकुम्भभूषितं राजाभिषे-
कमण्डपं दशहस्तं कुर्यात् । तन्मध्ये वेदिकायां भद्रासनम्, अष्ट-
मङ्गलानि च-
इक्षवः स्तवराजं च निष्पावाजाजिधान्यकम् ।
विकारवच्च गोक्षीरं कुसुम्भकुसुमं तथा ॥
लवणं चाष्टमं तत्र सौभाग्याष्टकमुच्यते ॥
इति मत्स्यपुराणोक्तानि । भद्रासनं च सौवर्णं रौप्यं ता-
म्रमयं क्षीरिवृक्षजं वा माण्डलिकानन्तरजिन्महाराजानां क्रमे-
णैकसपादसार्द्धहस्तोच्छ्रायं तावदायामं राजाभिषेकप्रकरणे
विष्णुधर्मोत्तरोक्तं ग्राह्यम्, आकाङ्क्षितत्वादवान्तरसामान्येन च
बुद्धिस्थत्वात् । राज्ञो धारणार्थमाहवनीयादिजं भस्म । श्वेत-
च्छत्रशिविकावैजयन्तीशङ्खचामरभेर्यादीनि नृपचिह्नानि राज-
भूषणानि च प्रभूतानि । अभिषेककाले च नानाविधानि वा-
यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३७९
द्यानि । दक्षिणाद्रव्याणि च यथा-अष्टषष्टिपलहेमनिर्मितो नव-
रत्नमलङ्कृतः सुरद्रुमो, दशधेनुशतानि, सुशोभनं क्षेत्रं, शतद्रोण-
मितास्तिलास्तण्डुलाश्च, सोपधानं शयनं, वाहनमश्वादि, यानं
रथादि च गुरवे। परिमाणतो मूल्यतश्चैतदर्धमितानि सुरद्रुमादीनि
सर्वाणि मिलितेभ्यः सर्वेभ्यो होतृभ्यः । तथैव तदर्द्धमितानि
सर्वाणि मिलितेभ्यो द्वारजापकेभ्यः । तदर्धमितानि ब्रह्मभ्यः ।
अन्यब्राह्मणदीनानाथादिभ्यो भूयसी यथाशक्ति । ब्राह्मणभो-
जनं च सहस्रावरं यथाशक्ति । महादेवमहापूजासामग्री राजो-
पचारादि ।
पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् ।
पलं च कुडवः प्रस्थ आढको द्रोण एव च ॥
धान्यमानेषु बोद्धव्याः क्रमशोडमी चतुर्गुणाः ।
इत्यसाधारणाः । साधारणाश्च मण्डपकाष्ठध्वजपताकादि
तत्तद्देवतापूजासामग्री द्वारतोरणकलशादि कुण्डोपयोगीष्टकादि
नवग्रहपीठतत्प्रतिमातन्पूजोपकरणादि मण्डपवास्तूपशमनसामग्री
ब्राह्मणवरणसामग्र्यादिकाः सम्भारा उपकल्पनीयाः ।
अथ प्रयोगः ।
उपकल्पितपूर्वोक्तसमस्तोपकरणः सपत्नीको राजा मौहू-
र्त्तिकेभ्योऽनन्तरसंलग्नदिनद्वयातिशुद्धिं विदित्वा पूर्वदिने पुरो-
हितमाचार्यार्त्विगादीन्मौहूर्त्तिकादींश्च सन्निधाप्य रङ्गवल्लयादि-
युक्ते शुचौ देशेऽन्तर्जानुकर उपविश्य इष्टदेवगुरुद्विजकुलज्येष्ठा-
न्नत्वा तैरनुज्ञातः सदर्भपाणिराचम्य प्राणानायम्य तिथ्या-
दि सङ्कीर्त्य अपमृत्युजयार्थं सर्वशत्रुजयार्थं शत्रुविशेषजयार्थं
वा लिङ्गपुराणोक्तविधिना जयाभिषेकं सपत्नीकोऽहममुकवर्मा
३८० वीरमित्रोदयस्य राजनीतिप्रकाशे
करिष्ये, तत्र निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं स्वस्तिवाचनं
मातृकापूजनाभ्युदयिकश्राद्धग्रहमण्डपवास्तूपशमनाचार्यादिव-
रणानि च तत्पूर्वाङ्गानि करिष्य इति सङ्कल्प्य, यथाविभवं षो-
डशोपचारैर्गणपतिमभ्यर्च्य, यथास्वगृह्यं स्वस्तिवाचनमातृकापूज-
नाभ्युदयिकश्राद्धानि विधाय, याज्ञवल्क्याद्युक्तप्रकारेण यथा-
विभवं नवग्रहमखं च कृत्वा, वास्तुशान्त्यर्थमाचार्यब्रह्मत्विजः
कृत्वा, मण्डपनैर्ऋत्यभागे कुण्डं निर्माय, एकाशीतिपदवास्तुम-
ण्डलनिर्माणपुरःसरं मण्डपवास्तुशान्तिं विधाय, जयाभिषेकार्थं
पुरोहितमाचार्यं ब्रह्माणमष्टसु कुण्डेषु प्रतिकुण्डं होता ब्रह्मा चे-
ति द्वौ द्वौ ब्राह्मणान् वृणुयात् । तत्र—
आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः ।
तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ॥
इत्याचार्यवरणे मन्त्रः ।
यथा चतुर्मुखो ब्रह्मा सर्ववेदधरः प्रभुः ।
तथा त्वं मम यज्ञेऽस्मिन् ब्रह्मा द्विजपते भव ॥
इति ब्रह्मवरणे ।
अस्य यागस्य निष्पत्तौ भवन्तोऽभ्यर्थिता मया ।
सुप्रसन्नाः प्रकुर्वन्तु स्वकार्यं विधिपूर्वकम् ॥
इत्यन्येषांम् । सर्वांश्च प्रत्येकमभ्यर्च्य शाखानुसारेण यथा-
विभवं मधुपर्केणार्हयेत् । द्वारजापकांश्च तत्तत्काले वरणार्थमु-
पकल्पयेत् । यथासम्भवमन्यांश्च साहाय्यार्थम् । सर्वांश्च यथाविभवं
वस्त्रालङ्कारादिभिः पूजयेत् । शिल्पिमौहूर्त्तिकादींश्च । तत आ-
चार्यो यजमानेन सपत्नीकेन सब्राह्मणेन जलपूर्णकलशह-
स्तेन भद्रं कर्णेभिरित्यादिमन्त्रघोषेण मण्डपप्रवेशे पश्चिमतः कृते
मण्डपान्तः पश्चिमत उपविश्याचम्य प्राणानायम्य यजमाना-