वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 369, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३७३
दिग्ध्वजाष्टकसंयुक्तं द्वारकुम्भैः सुशोभिम् ।
हेमतोरणकुम्भैश्च भूषितं स्नापयेन्नृपम् ॥
चर्मोपरिसमासीनं शिवकुम्भेन सेचयेत् ।
तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि ॥
तन्नः शिवः प्रचोदयात् ।
मन्त्रेणानेन विधिना वर्द्धन्या गौरीगीतया ॥
रुद्राध्यायेन वा सर्वमघोरेणापि वा पुनः ।
दिव्यैराभरणैः शुक्लैर्मुकुटाद्यैः सुकल्पितैः ॥
क्षौमैर्वस्त्रैश्च राजानं भूषयेन्नियतः शुभैः ।
अष्टषष्टिपलेनैव हैमं कृत्वा सुरद्रुमम् ॥
नवरत्नैरलङ्कृत्य दद्याद्वै दक्षिणां गुरोः ।
दश धेनूः सवस्त्राश्च दद्यात्क्षेत्रं सुशोभनम् ॥
शतद्रोणं तिलं चैव शतद्रोणं च तण्डुलान् ।
शयनं वाहनं छत्रं शय्यां सोपस्करां शुभाम् ॥
होतॄणां चैव सर्वेषां त्रिंशत्पलमुदाहृतम् ।
अध्येतॄणां तदर्द्धेन ब्राह्मानां च तदर्द्धतः ॥
महापूजां ततः कुर्यान्महादेवस्य वै नृपः ।
एवं समासतः प्रोक्तं जयसेचनमुत्तमम् ॥
एवं पुराभिषिक्तस्तु शक्रः शक्रत्वमागतः ।
ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ॥
अम्बिका चाम्बिकात्वं च सौभाग्यमतुलं तथा ।
सावित्री च धरा लक्ष्मीर्देवी कात्यायनी तथा ॥
नन्दिना च पुरा मृत्यु रुद्राध्यायेन वै द्विज ।
अभिषिक्तोऽसुरैः पूर्वं तारकाख्यो महाबलः ॥
विद्युन्माली हिरण्याक्षो विष्णुना वै विनिर्जितः ।