सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३५३
मनोन्मनाय देवाय मनोन्मन्यै नमो नमः ।
मन्त्रैरेतैैर्यथान्यायं पूजयेन्मण्डलोपरि ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
द्वितीयावरणे चैव शक्तयः षोडशैव तु ॥
तृतीयावरणे चैव चतुर्विंशदनुक्रमात् ।
पिशाचवीथी वै मध्ये नाभिवीथी समन्ततः ॥
पिशाचानां हि मध्ये तु महावीथी प्रकीर्तिता ।
अष्टोत्तरसहस्रं तु पदमष्टारसंयुतम् ॥
तेषु तेषु पृथक्त्वेन पदेषु कमलं क्रमात् ।
कल्पयेच्छालीनीवारगोधूमाणुयवादिभिः ॥
तण्डुलैश्च तिलैर्वाथ गौरसर्षपसंयुतैः ।
अथ वा कल्पयेदेतैैर्यथाकालं विधानतः ॥
अष्टपत्रं लिखेत्तेषु कर्णिकाकेसरान्वितम्
शालीनामाढकं प्रोक्तं कमलानां पृथक् पृथक् ॥
तण्डुलानां तदर्द्धं स्यात्तदर्द्धं तु यवादयः ।
द्रोणं प्रधानकुम्भस्य तदर्द्धं तण्डुलाः स्मृताः ॥
तिलानामाढकं मध्ये यवानां च तदर्द्धकम् ।
अर्घ्याम्भसा समभ्युक्ष्य कमलं प्रणवेन तु ॥
तेषु सर्वेषु विधिना प्रणवं च न्यसेक्रमात् ।
एवं समाप्य चाभ्यर्च्य पदसाहसमुत्तमम् ॥
कलशानां सहस्राणि हैमानि च शुभानि तु ।
उक्तलक्षणयुक्तानि कारयेद्राजतानि वा ॥
१ मन्त्रैरेतैैर्यथान्यायं पिशाचानां प्रकीर्तिता । इतिमुद्रितलिङ्गपु-
राणे पाठः ।
४५

३५४ वीरमित्रोदयस्य राजनीतिप्रकाशे
ताम्रजानि यथान्यायं प्रणवेनार्घ्यवारिणा ।
द्वादशाङ्गुलविस्तारमुदरे समुदाहृतम् ॥
वर्त्तितस्तु तदर्द्धेन नाभिस्तस्य विधीयते ।
कण्ठं च व्यङ्गुलोत्सेधं विस्तारं चतुरङ्गुलम् ॥
ओष्ठं तु व्यङ्गुलोत्सेधं निर्गमं तु द्विरङ्गुलम् ।
तस्माद्वै द्विगुणं दिव्यं शिवकुम्भं प्रकीर्त्तितम् ॥
यवमात्रान्तरं सम्यक् तन्तुनावेष्ट्य कीर्त्तितः ।
१ अत्र मुद्रितलिङ्गपुराणे-यवमात्रान्तरं सम्यक्तन्तुनावेष्टयेद्द्वि-
वै। इति पाठपूर्वकम्-“अवगुण्ठ्य तथाभ्युक्ष्य कुशोपरि यथावि-
धि। पूर्ववत्प्रणवेनैव पूरयेद्गन्धवारिणा ॥ स्थापयेच्छिवकुम्भा-
ख्यं वर्धनीं च विधानतः। मध्यपद्मस्य मध्ये तु सकूर्चं साक्षतं क्र-
मात् ॥ आवेष्ट्य वस्त्रयुग्मेन प्रच्छाद्यकमलेन तु। हैमेन चित्ररत्नेन
सहस्रकलशं पृथक् ॥ शिवकुम्भे शिवं स्थाप्य गायत्र्या प्रणवेन च।
विद्महे पुरुषायैव महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ।
मन्त्रेणानेन रुद्रस्य सान्निध्यं सर्वदा स्मृतम् । वर्धन्यां देव गायत्र्या
देवीं संस्थाप्य पूजयेत् ॥ गणाम्बिकायै विद्महे महातपायै धीमहि।
तन्नो गौरी प्रचोदयात् । प्रथमावरणे चैव वामाद्याः परिकीर्तिताः।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ शक्तयः षोडशैवात्र पूर्वाद्यं
तेषु सुव्रत । ऐन्द्रव्यूहस्य मध्ये तु सुभद्रां स्थाप्य पूजयेत् ॥
भद्रामाग्नेयचक्रे तु याम्ये तु कनकाण्डजाम् । अम्बिकां नैर्ऋते व्यूहे
मध्यकुम्भे तु पूजयेत् ॥ श्रीदेवीं वारुणे भागे वागीशां वायुगोचरे।
गोमुखीं सौम्यभागे तु मध्ये कुम्भे तु पूजयेत् ॥ रुद्रव्यूहस्य मध्ये
तु भद्रकर्णी समर्चयेत् । ऐन्द्राग्निविदिशोर्मध्ये पूजयेदणिमां
शुभाम् ॥ याम्यपावकयोर्मध्ये लघिमां कमले न्यसेत् । राक्षसा-
न्तकयोर्मध्ये महिमां मध्यतो यजेत् ॥ वरुण/सुरयोर्मध्ये प्राप्तिं वै
मध्यतो यजेत् ॥ वरुणानिलयोर्मध्ये प्राकाम्यं कमले न्यसेत् ॥
वित्तेशानिलयोर्मध्ये ईशित्वं स्थाप्य पूजयेत् । वित्तेशेशानयोर्म-
ध्ये वशित्वं स्थाप्य पूजयेत् ॥ ऐन्द्रेशेशानयोर्मध्ये यजेत्कामावसा-

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३५५
१पूर्वे या देवताः सर्वाः प्रधानकलशेषु च ॥
पूजयेद्व्यूहमध्ये च पूर्ववद्विधिपूर्वकम् ।
दक्षां दक्षायिकां चैव चण्डां चण्डायिकां तथा ॥
हरां हरायिकां चैव शौण्डां शौण्डायिकां तथा ।
प्रथमां प्रथमायिकां मन्मथां मन्मथायिकाम् ॥
भीमां भीमायिकां चैव शकुनिं शकुनायिकाम् ।
सुमतिं च सुमत्यर्यां गोपीं गोपायिकां तथा ॥
अथ नन्दं च नन्दार्यीं पितामहमतः परम् ।
पितामहायां पूर्वायां त्विांधेवत्स्थाप्य पूजयेत् ॥
एवं सम्पूज्य विधिना तृतीयावरणं शुभम् ।
सौभद्रव्यूहमासाद्य प्रथमावरणे क्रमात् ॥
प्रागाद्यं स्थाप्य विधिना शक्त्यष्टकमनुक्रमात् ।
द्वितीयावरणे चैव प्रागाद्यं शृणु शक्तयः ॥
षोड

३५६ वीरमित्रोदयस्य राजनीतिप्रकाशे
सौभद्रं कथितं व्यूहं भद्रव्यूहं शृणुष्व मे ॥
ऐन्द्री हुताशनी याम्या नैर्ऋती वारुणी तथा ।
वायव्या चैव कौबेरी ऐशानी चाष्टशक्तयः ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
हरिणी च सुवर्णा च काञ्चनी हाटकी तथा ॥
रुक्मिणी चं नमस्या च सुभगा जम्बुनायिका ।
वाग्भवा वाक्पथा वाणी भीमा चित्ररथा सुधीः ॥
वेदमाता हिरण्याक्षी द्वितीयावरणे स्मृताः ।
भद्राख्यं कथितं व्यूहं कनकाख्यं शृणुष्व मे ॥
वज्रं शक्तिश्च दण्डश्च खड्गं पाशो ध्वजस्तथा ।
गदा त्रिशूलं क्रमशः प्रथमावरणे स्मृताः ॥
बुद्धा प्रबुद्धा चण्डा च मुण्डा चैव कपालिनी ।
मृत्युहन्त्री विरूपाक्षी कपर्दी कमलासना ॥
दंष्ट्रिणी रङ्गिणी चैव लम्बाक्षी कङ्कभूषणी ।
सम्भवा शाङ्गिणी चैव षोडशैताः प्रकीर्तिताः ॥
कथितं कनकव्यूहमम्बिकाख्यं शृणुष्व मे ।
खेचरी सर्वनामा च शमनी ब्रह्मरूपिणी ॥
चलिनी बलनामा च महिमाऽमृतलालसा ।
प्रथमावरणे चाष्टौ शक्तयः सर्वसम्मताः ।
शङ्खिनी शिखरा देवी मृदुरत्ना सुशीतला ॥
छाया भूतधनी धन्या इन्द्रमाता च वैष्णवी ।
तृष्णा रागवती मोहा कामकोपा मदोत्कटा ॥
इन्द्रा च वधिरा देवी षोडशैताः प्रकीर्त्तिताः ।
कथितं चाम्बिकाव्यूहं श्रीव्यूहं शृणु सुव्रत ॥
१ सत्यभामा चेत्यपि पाठः । २ भाविनी इत्यपि पाठः

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३५७
स्पर्शा स्पर्शवती गन्धा प्राणापानसमानका ।
उदाना व्याननामा च प्रथमावरणे स्मृताः ॥
तमोहता प्रभा मोघा तेजनी दहनी तथा ।
भीमास्या ज्वालिनी शेषा शोषिणी रुद्रनायिका ॥
वीरभद्रा गणाध्यक्षा चन्द्राहासा च गह्वरा ।
गणमाताऽम्बिका चैव शक्तयः सर्वसम्मताः ॥
द्वितीयावरण प्रोक्ताः षोडशैव यथाक्रमात् ।
श्रीव्यूहं कथितं भद्रं वागीशं शृणु सुव्रत ॥
धारा वारिधरा चैव वाहिकी वायसी तथा ।
मर्त्यातीता महामाया वज्रिणी कामधेनुका ॥
प्रथमावरणेऽप्येवं शक्तयोऽष्टौ प्रकीर्त्तिताः ।
पयोष्णी वारुणी शान्ता जयन्ती च वरप्रदा ॥
प्लाविनी जलमाता च पयोमाता महाम्बिका ।
रक्ता कराली चण्डाक्षी महोच्छुष्मा पयस्विनी ॥
माया विघ्नेश्वरी काली कालिका च यथाक्रमम् ।
षोडशैव समाख्याताः शक्तयः सर्वसम्मताः ॥
व्यूहं वागीश्वरं प्रोक्तं गोमुखं व्यूहमुच्यते ।
शङ्खिनी हलिनी चैव लम्बकर्णा च कल्किनी ॥
यक्षिणी मालिनी चैव वमनी वरमानिनी ।
प्रथमावरणे चैव शक्तयोऽष्टौ प्रकीर्तिताः ॥
चण्डा घण्टा महानादा सुमुखी दुर्मुखी बला ।
रेवती प्रथमा घोरा सौम्या लीना महाबला ॥
जया च विजया चैव अजिता चापराजिता ।
द्वितीयावरणे चैताः शक्तयः षोडशैव तु ॥
१ सैन्या इति पाठः ।

३५८ वीरमित्रोदयस्य राजनीतिप्रकाशे
कथितं गोमुखं व्यूहं भद्रकर्णीं शृणुष्व मे ।
महाघण्टा विरूपाक्षी शुष्काभाकाशमातृका ॥
संहारी जातहारी च दंष्ट्राली शुष्करेवती ।
प्रथमावरणे चाष्टौ शक्तयः परिकीर्त्तिताः ॥
पिपीलिका पुष्पहारी अशनी सर्वहारिणी ।
भद्रहारी शुभाचारी हेमा योगेश्वरी तथा ॥
चित्रा भानुमती छिद्रा सैंहिकी सुरभी यमा ।
सर्वानन्दा खगाख्या च शक्तयः षोडशैव तु ॥
महाव्यूहाष्टकं प्रोक्तमुपव्यूहाष्टकं शृणु ।
अणिमाव्यूहमावेष्ट्य प्रथमावरणे क्रमात् ॥
ऐन्द्री च चित्रभानुश्च वारुणी दण्डिरेव च ।
प्राणरूपी तथा हंसः स्वात्मशक्तिः पितामहः ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
केशवो भगवान् रुद्रश्चन्द्रमा भास्करस्तथा ॥
ईश्वरश्च तथा ह्यात्मा ह्यन्तरात्मा महेश्वरः ।
परमात्मा ह्यणुर्जीवः पिङ्गलः पुरुषः पशुः ॥
भोक्ता च भूपतिर्भावो द्वितीयावरणे स्मृताः ।
कथितं चाणिमाव्यूहं लघिमाख्यं वदामि ते ॥
श्रीकैण्ठः श्रीधरः श्रीशः सत्यकश्च तथा वरः ।
अमरेशः स्थितीशश्च भारभूतस्तथाष्टमः ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
१ महाजया इत्यपि पाठः ।
२ सर्वभव्या च वेगाख्या इत्यपि पाठः ।
३ श्रीकण्ठोऽन्तश्च सूक्ष्मश्च त्रिमूर्तिः शशकस्तथा । इत्यपि
पाठः ।

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकाविधिः। ३५९
स्थाणुर्हरश्च चण्डेशो भूतीशः सुरपुङ्गवः ॥
सद्योजातो गुहेशश्च सूरसेनः सुरेश्वरः ।
क्रोधीशश्च तथा चण्डः प्रचण्डः शिव एव च ॥
एकरुद्रस्तथा कूर्चस्त्वेकनेत्रश्चतुर्मुखः ।
द्वितीयावरणे रुद्रा षोडशैव प्रकीर्त्तिताः ॥
कथितं लघिमाव्यूहं महिमां शृणु सुव्रत ।
अजेशः क्षेमरुद्रश्च सोमेशो लाङ्गली तथा ॥
चण्डारुश्चार्द्धनारीश एकान्तश्चान्त एव च ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
शिखीशः शकलश्चण्डो द्विरण्डः कल एव च ।
पाली भुजङ्गनामा च पिनाकी खड्गिरेव च ॥
काम ईशस्तथा श्वेतो भृगुः षोडश वै स्मृताः ।
कथितं महिमाव्यूहं प्राप्तिव्यूहं शृणुष्व मे ॥
संवर्त्तो लकुलीशश्च वाडवो हस्तिरेव च ।
चण्डयक्षो गणपतिर्महाभृगुरजोऽष्टमः ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
त्रिविक्रमो महाजिह्वो ध्वाँङ्क्षः श्रीभद्र एव च ॥
महादेवो दधीचश्च कुमारश्च परावरः ।
महादंष्ट्रः करालश्च सूचकश्च सुवर्धनः ॥
महाध्वाङ्क्षो महानन्दी गॅण्डो गोपालकस्तथा ।
१ इदमर्धं मु० लिं० पु० नास्ति ।
२ इदमप्यर्धं नास्ति ।
३ ऋक्ष इति च पाठः ।
४ दण्डी इति च पाठः ।

३६० वीरमित्रोदयस्य राजनीतिप्रकाशे
प्राप्तिव्यूहं समाख्यातं प्राकाम्यं शृणु सुव्रत ॥
पुष्पदन्तो महानन्दो विपुलानन्दकारकः ।
शुल्को विडालः कमलो बिल्वश्चारुण एव च ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
रतिप्रियः सुरेशानश्चित्राङ्गश्च सुदुर्जयः ॥
विनायकः क्षेत्रपालो महामोहश्च जाङ्गलः ।
वत्सपुत्रो महापुत्रो ग्रामदेशाधिपौ तथा ॥
सर्वस्थानाधिपो देवो मेघनादः प्रचण्डकः ।
कालदूतश्च कथितो द्वितीयावरणं स्मृतम् ॥
प्राकाम्यं कथितं व्यूहमैश्वर्यं कथयामि ते ।
मङ्गला चर्चिका चैव योगीशा वरदायिका ॥
भासुरा सुरमाता च सुन्दरी मातृकाष्टमी ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
गणाधिपश्च मन्त्रज्ञो वामदेवः षडाननः ।
विदग्धश्च विचित्रश्च अमोघो मोघ एव च ।
अंश्वो भद्रश्च सोमेशश्चोत्तमोदुम्बरस्तथा ॥
नारसिंहश्च विजयस्तथा इन्द्रग्रहः प्रभुः ।
अपांपतिश्च विधिना द्वितीयावरणं स्मृतम् ॥
ऐश्वर्यं कथितं व्यूहं वशित्वं कथयाम्यतः ।
गगनो भुवनश्चैव विजयो ह्यजयस्तथा ॥
महाजयस्तथाङ्गारो व्यङ्गारश्च महायशाः ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
१ शुक्लो विशाल इत्यपि पाठः ।
२ अश्वी रुद्रश्च इत्यपि पाठः ।

महोर्पः प्रचण्डेशो महावर्णो महासुरः ।
महारोमा महागर्भः प्रथमः कनकस्तथा ॥
खरजो गरुडश्चैव मेघनादोऽथ गर्भकः ।
गजत्वक्च्छेदको बाहुस्त्रिशिखो मारिरेव च ॥
वशित्वं कथितं व्यूहं शृणु कामावसायिकम् ।
विनादो विकटश्चैव वसन्तो ऽभय एव च ॥
विद्युन्महाबलश्चैव कमलो दमनस्तथा ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
धर्मश्चातिबलः सर्पो महाकायो महाहनुः ।
सबलश्चैव भस्माङ्गी दुर्जयो दुरतिक्रमः ॥
वेतालो रौरवश्चैव दुर्द्धराभोग एव च ।
वज्रः कालाग्निरुद्रश्च सिंहैनादो महागुहः ॥
द्वितीयावरणं प्रोक्तं व्यूहं कामावसायिकम् ।
कथितं षोडशव्यूहं द्वितीयावरणं शृणु ॥
द्वितीयावरणे चैव दक्षव्यूहे च शक्तयः ।
प्रथमावरणे चाष्टौ बाह्ये षोडश एव च ॥
मनोहरा महानादा चित्रा चित्ररथा तथा ।
रोहिणी चैव चित्राङ्गी चित्ररेखा विचित्रिका ॥
प्रथमावरणे प्रोक्ता द्वितीयावरणे शृणु ।
चित्रा विचित्ररूपा च शुभदा कामदा शुभा ॥
क्रूरा च पिङ्गला देवी खड्गिका लम्बिका सती ।
दंष्ट्राली राक्षसी ध्वंसी लोलुपा लोहितामुखी ॥
१ सुन्दरश्च इत्यपि पाठः ।
२ गजश्च च्छेदको बाहुरिति च पाठः ।
३ सद्योनाद इत्यपि पाठः ।
४६

३६२ वीरमित्रोदयस्य राजनीतिप्रकाशे
द्वितीयावरणे प्रोक्ताः षोडशैव समासतः ।
दक्षव्यूहं समाख्यातं दाक्षव्यूहं शृणुष्व मे ॥
सर्वाशिनी विश्वरूपा लम्पटा चामिषप्रिया ।
लम्बोष्ठी दीर्घदंष्ट्रा च लम्बजानुः प्रहारिणी ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
गजकर्णाश्वकर्णा च महाकाली सुभीषणा ॥
वातवेगरवा घोरा घना घनरवा तथा ।
घोरघोषा महाघण्टा सुघण्टा घण्टिका तथा ॥
घण्टेश्वरी महाघोरा घोरा चैवातिघोरिका ।
द्वितीयावरणे चैव षोडशैव प्रकीर्त्तिताः ॥
दाक्षव्यूहं समाख्यातं चण्डाव्यूहं शृणुष्व मे ।
अतिघण्टातिघोरा च कराला करका तथा ॥
विभूतिर्भोगदा कान्तिः शङ्खिनी चाष्टमी स्मृता ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
पत्रिणी चैव गान्धारी योगमाता सुपीवरा ।
उत्तालकोत्सुका वीरा संहारी रमणी तथा ॥
फलहारी जीवहारी स्वेच्छाहारी च तुण्डिका ।
रेवती रङ्गिणी सङ्गा द्वितीये षोडशैव तु ॥
चण्डाव्यूहं समाख्यातं चण्डायीव्यूहमुच्यते ।
चण्डी चण्डमुखी चण्डा चण्डवेगा महारवा ॥
भ्रुकुटी चण्डरूपा च चण्डभ्रूश्चाष्टमी स्मृता ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
चण्डघ्राणा चला चैव चलजिह्वा चलेश्वरी ।

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३६३
चलवेगा महाकाया महामाया च विश्रुता ॥
कङ्काली च कृशाङ्गी च किंशुका चण्डघोषिका ।
महाहासा महारावा चण्डभाऽनङ्गचण्डिका ॥
चण्डायाः कथितं व्यूहं हरव्यूहं शृणुष्व मे ।
चण्डाक्षी कामदा देवी शूकरी कुक्कुटानना ॥
गान्धारी दुन्दुभिर्दुर्गा सौमित्रा चाष्टमी स्मृता ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
अमृतोद्भवा महालक्ष्मीर्वर्णदा जीवरक्षिणी ।
हरिणी क्षीणजीवा च चन्द्रवक्त्रा चतुर्भुजा ॥
व्योमचारी व्योमरूपा व्योमव्यापी शुभोदया ।
गृहचारी सुचारी च विषाहारी विषान्तिका ॥
हरव्यूहं समाख्यातं हरायीव्यूहमुच्यते ।
जम्भाऽच्युता च कङ्कारी देविका दुर्धरावहा ॥
चण्डिका चपला चेति प्रथमावरणे स्मृताः ।
चण्डिका चामरी चैव भण्डिका च शुभानना ॥
पिण्डिनी मुण्डिनी मुण्डा डाकिनी शार्ङ्गरी तथा ।
कर्त्तरी हर्त्तरी चैव भामिनी यज्ञदायिनी ॥
यमदंष्ट्रा महादंष्ट्रा कराला चेति शक्तयः ।
हराय्याः कथितं व्यूहं शौण्डान्यूहं शृणुष्व मे ॥
विकराली कराली च कालजङ्घा यशस्विनी ।
वेगा वेगवती विद्या वेदाङ्गा चाष्ट शक्तयः ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
वज्रा शङ्खवती शङ्खा बला चैकबला तथा ॥


१ अत्र लिङ्गपुराणे-“वज्रा शङ्खातिशङ्खा वा बला चैवाबला

१६४ वीरमित्रोदयस्य राजनीतिप्रकाशे
बला चातिबला लोला कुम्भिनी स्तम्भिनी तथा ।
अञ्जनी मोहनी माया विकटाङ्गी नली तथा ।
शौण्डाव्यूहं समाख्यातं शौण्डायीन्यूहमुच्यते ।
दन्तुरा रौद्रभागा च अमृता सुकुला तथा ॥
चलजिह्वार्धनेत्रा च रूपिणी दारिका तथा ।
प्रथमावरणस्यैता द्वितीयावरणे शृणु ॥
खादका रूपनाशा च संहारी चाक्षयान्तका ।
कण्डनी पेषणी चैव महाग्रासा कृतान्तिका ॥
दण्डिनी किङ्करी बिम्बा वर्णिनी चापलाङ्गिनी ।
विद्राणी द्राविणी चेति शक्तयः षोडशैव तु ॥
कथितं हि मनोरम्यं शौण्डायीव्यूहमुत्तमम् ।
प्रथमाख्यं प्रवक्ष्यामि व्यूहं रम्यं सुशोभनम् ॥
प्लवनी प्लावनी शोभा मन्दा चैव मदोत्कटा ।
मदाक्षया महादेवी प्रथमावरणे स्मृताः ॥
कामसन्दीchart? NO -> कामसन्दीchart: कामसन्दी पनी देवी अतिरूपा मनोहरा ।
महावशा मदग्राहा विह्वला मदविह्वला ॥
अरुणा घोषणी दिव्या रेवती भाण्डनायिका ।
स्तम्भनी घोररक्ताक्षी घोररूपा सुघोषणा ॥
व्यूहं तु प्रथमाख्यं ते स्वायम्भुव यथा तथा ।
कथितं प्रथमायाख्यं प्रवक्ष्यामि शृणुष्व मे ॥
घोरा घोरतरा घोरा अतिघोररायनायिका ॥
धावनी क्रोष्टुकी मुण्डा चाष्टमी परिकीर्त्तिता ।
तथा । अञ्जनी मोहनी माया विकटाङ्गी नली तथा ॥ गण्डकी दण्ड-
की घोणा शोणा सत्यवती तथा । कल्लोला चेति क्रमशः षोडशैव
यथाविधि ॥” इति पाठः ।

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३६५

प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
भीमा भीमतराऽभीमा शस्त्री चैव सुवर्चला ॥
स्तम्भनी मोहनी रौद्री रुद्रवत्यचलाचला ।
महाबला महाशान्तिः शिवाशीला शिवाशिवा ।
बृहत्कुक्षी बृहन्नासा षोडशैव प्रकीर्त्तिताः ॥
प्रथमायी समाख्याता मन्मथाख्यं वदामि ते ।
कालकर्णी कराला च कल्याणी कपिला शिवा ॥
इष्टिसुष्टिः प्रतिष्ठा च प्रथमावरणे स्मृताः ।
शान्तिः पुष्टिकरी तुष्टिर्ज्ञेया चैव श्रुतिर्धृतिः ॥
कामदा सुभगा सौम्या तेजनी कामतन्त्रिका ।
धार्मिकी धर्मिणी शीला पापहा धर्मवर्द्धनी ॥
मान्मथं कथितं व्यूहं मान्मथायिकमुच्यते ।
धर्मरक्षा निवाता च धर्माधर्मवती तथा ॥
सुमतिदुर्मतिर्मेधा विमला चाष्टमी स्मृता ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
शुद्धिर्बुद्धिर्मतिः कान्तिर्वर्तुला मोहावर्द्धनी ।
बला चातिबला भीमा प्राणवृद्धिकरी तथा ॥
निर्लज्जा निर्घृणा मन्दा सर्वपापक्षयङ्करी ।
कपिला चातिविधुरा षोडशैताः प्रकीर्त्तिताः ॥
मान्मथायिकमुक्तं ते भीमाव्यूहं वदामि ते ।
रक्ता चैव विरक्ता च उद्वेगा शोकवर्द्धनी ॥
कामा तृष्णा क्षुधा मोहा चाष्टमी परिकीर्त्तिता ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
जया निद्राऽभयालस्या सुतृष्णा रोदनी दरा ।
कृष्णाकृष्णाङ्गिनी वृद्धा शुद्धोच्छिष्टाशनी वृषा ॥

३६६ वीरमित्रोदयस्य राजनीतिप्रकाशे
कामदा भोगिनी दग्धा दुःखदा सुखदा तथा ।
भीमाव्यूहं मया प्रोक्तं भीमायणीव्यूहमुच्यते ॥
आनन्दा च सुनन्दा च महानन्दा शुभङ्करी ।
वीतरागा महोत्साहा जितरागा मनोरमा ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
मनोन्मनी मनःक्षोभा मदोन्मादा मदाकुला ॥
मदोद्गर्भा मदारामा कामानन्दा सुविह्वला ।
महावेगा सुवेगा च महाभोगा क्षयावहा ॥
क्रमणी क्रामिणी चक्रा द्वितीयावरणे स्मृताः ।
कथितं तव भीमायणीव्यूहं परमशोभनम् ॥
शाकुनं कथाम्यद्य व्यूहं परमशोभनम् ।
योगावेगा सुवेगा च अतिवेगा सुवासिनी ॥
देवी मनोरथावेगा रुद्रावर्तवती मतिः ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
रोधनी क्षोभणी बाला चातिघोषा सुघोषिणी ।
विद्युता त्रासनी देवी मनोवेगा च चापला ॥
विद्युज्जिह्वा महाजिह्वा भ्रुकुटीकुटिलानना ।
स्फुरज्ज्वाला महाज्वाला सुज्वाला च क्षयान्तिका ।
शाकुनं कथितं व्यूहं शाकुनार्थी शृणुष्व मे ।
ज्वालिनी चैव भस्माङ्गी तथा भस्मान्तकान्तका ॥
भाविनी च प्रजा विद्या ख्यातिश्चैवाष्टमी स्मृता ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
उल्लेखा च पताका च भोगा भोगवती खगा ।
योगव्रता योगमाता योगाख्या योगपारगा ।
१ जलावर्ता च धीमती इत्यपि पाठः ।

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३६७
ऋद्धिर्बुद्धिर्धृतिः कान्तिः स्मृतिः साक्षाच्छुतिर्धरा ॥
शाकुनाय्या महाव्यूहं कथितं कामदायकम् ।
स्वायम्भुव तथा व्यूहं सुमताख्यं सुशोभनम् ॥
परेष्टा च परादित्या ह्यमृता फलनाशिनी ।
हरिणाक्षी सुवर्णाक्षी देवी साक्षात्कपिञ्जला ॥
कामरेखा च कथितं प्रथमावरणं शुभम् ।
रत्नदीपा वसुदीपा रत्नदा रत्नमालिनी ॥
रत्नशोभा सुशोभा च महाशोभा महाद्युतिः ।
शवरी शाम्बरी ग्रन्थिपादकर्णकरानना ॥
हयग्रीवा च जिह्वा च सर्वग्रासेतिशक्तयः ।
कथितं सुमतव्यूहं सुमत्या व्यूहमुच्यते ॥
सर्वाशी च महाभक्षा महादंष्ट्रातिरौरवा ।
स्फुलिङ्गा विस्फुलिङ्गा च कृतान्ता भास्करानना ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
रागा रागवती क्रोधा महाक्रोधा च रौरवा ॥
क्रोधनी मृदनी चै व कलहा कलहावती ।
कलान्तिका चतुर्भेदा दुर्गा वै दुर्गमानगा ॥
नाली कुनाली सौम्या च इत्येवं कथितं मया ।
गोपाव्यूहं वदाम्यद्य शृणु स्वायम्भुवाखिलम् ॥
पाटली पाटवी चैव पाटी विटिपिटा तथा ।
कङ्कटा सुघटा चैव प्रघटा च घटोद्भवा ॥
प्रथमावरणं चात्र गोपायाः कथितं मया ।
नादाक्षी नादरूपा च सर्वकारागमागमा ॥
अग्रचारी सुचारी च चण्डनाडी सुवाहिनी ।
सुयोगा च वियोगा च हंसाक्षी च विलासिनी ॥

३६८ वीरमित्रोदयस्य राजनीतिप्रकाशे
सर्वगा सुविरावा च बन्धनी चेति शक्तयः ।
गोपाव्यूहं मया ख्यातं गोपायीव्यूहमुच्यते ॥
भेदिनी छेदनी चैव सर्वकारी क्षुधाशनी ।
उच्छुष्मा चैव गान्धारी भश्माशी वडवानला ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
अन्ववज्वालिनी ज्वाला दीपाक्षामा तथैव च ॥
अन्तरिक्षा च हृल्लेखा हृद्रमा मायिकापरा ।
आमयासादिनी भिल्ली सह्यासह्या सरस्वती ॥
रुद्रशक्तिर्महाशक्तिर्महामोहा च रोदिनी ।
गोपाय्याः कथितं व्यूहं नन्दाव्यूहं वदामि ते ॥
नन्दिनी च निवृत्तिश्च प्रतिष्ठा च यथाक्रमम् ।
विद्यानाशी खग्रसनी चामुण्डा प्रियदर्शनी ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
गुह्या नारायणी मोहा प्रज्ञा देवी च वज्रिणी ॥
कङ्कटा च तथा काली शिवा घोषा ततः परम् ।
वीरा माया च कामेशी वहिनी भीषणी तथा ॥
स्वर्गा माला च निर्दिष्टा द्वितीयावरणे स्मृताः ।
नन्दाव्यूहं समाख्यातं नन्दायीव्यूहमुच्यते ॥
विनायकी पूर्णिमा च रङ्गिणी कूर्दनी तथा ।
इच्छा कपालिनी चैव दीपनी च जयन्तिका ॥
प्रथमावरणे चाष्टौ शक्तयः परिकीर्त्तिताः ।
पावनी चाम्बिका चैव सर्वाशा पूतना तथा ॥
छागली मोदिनी साक्षाद्देवी लम्बोदरी शुभा ।
संहारी कालिनी चैव कुसुमा च यथाक्रमम् ॥
१ रङ्कारी कुण्डली तथा इत्यपि पाठः ।

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३६९
शुक्रा तारा तथाज्ञाना क्रिया गायत्रिका तथा ।
सावित्री चेति विधिना द्वितीयावरणे स्मृताः ॥
नन्दायाः कथितं व्यूहं पैतामहमतः शृणु ।
दन्तुरी चैव फेत्कारी क्रोधहासा षडङ्गुला ॥
आनन्दा च सुदुर्गा च संहारी ह्यमृताष्टमी
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
कुलान्तिकाऽनला चैव प्रचण्डा मर्दनी शुभा ।
सर्वभूताभया चैव देवी च वडवामुखी ॥
लम्पटा पन्नगा देवी कुसुमा विपुलान्तिका ।
केदारा च तथा कूर्मा दुरिता मन्दरोदरी ॥
खड्गचण्डेति विधिना द्वितीयावरणं स्मृतम् ।
व्यूहं पैतामहं प्रोक्तं धर्मकामार्थमोक्षदम् ॥
पितामह्यार्यव्यूहं च शृणुष्व कथयामि ते ।
वज्रा च मन्मथा चोरा विकारा रिपुभेदिनी ॥
रूपा चतुर्भुजा योगा प्रथमावरणे स्मृताः ।
भूताभया महाबाला खर्प्परा च ततः परम् ॥
भस्मा कान्ता तथा सृष्टिर्द्विभुजा ब्रह्मरूपिणी ।
सद्यःफेत्कारिका नाम कर्णमोटी तथापरा ॥
महामोहा महामाया गान्धारी पुष्पमालिनी ।
शब्दायी च महाघोषा षोडशैतास्तथान्तिमे ॥
सर्वाश्च द्विभुजा देव्यो बालभास्करसन्निभाः ।
पद्मशङ्खधराः शान्ता रक्तस्रग्वस्त्रभूषणाः ।
सर्वाभरणसम्पूर्णा मुकुटाद्यैरलङ्कृताः ॥
१ नन्दिनी इत्यपि पाठः ।
२ खड्गचक्रेत्यपि पाठः ।
४७

३७० वीरमित्रोदयस्य राजनीतिप्रकाशे
मुक्ताफलमयैर्दिव्यै रत्नचित्रैर्मनोरमैः ।
भूषिता हारकेयूरैर्गौरा ध्येयाः पृथक् पृथक् ॥
एवं सहस्रकलशं ताम्रजं मृन्मयं तु वा ।
पूर्वोक्त१दक्षिणायुक्तं रौद्रक्षेत्रे प्रतिष्ठितम् ॥
भवाद्यैर्विष्णुना प्रोक्तैर्नाम्नां चैव सहस्रकैः ।
सम्पूज्य विन्यसेदग्रे सेचयेद्वाणविग्रहम् ॥
अभिषिच्य च विज्ञाप्य सेचयेत्पृथिवीपतिम् ।
एवं सहस्रकलशं सद्यःसिद्धिफलप्रदम् ॥
चत्वारिंशन्महाव्यूहं सर्वलक्षणलक्षितम् ।
सर्वेषां कलशं प्रोक्तं पूर्ववद्धेमनिर्मितम् ॥
सर्वे गन्धोदकैः पूर्णास्तीर्थतोयसमन्विताः ।
तथा कनकसंयुक्ता देवस्य घृतपूरिताः ॥
क्षीरेण वाथ दध्ना वा पञ्चगव्येन वा पुनः ।
ब्रह्मकूर्चेन वा मेध्यमभिषेको विधीयते ॥
रुद्राध्यायेन रुद्रस्य नृपतेः शृणु सुव्रत ॥
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।
सर्वेभ्यः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥
मन्त्रेणानेन राजानं सेचयेदभिषेचितम् ।
होमं च मन्त्रेणानेन अघोरेणाघहारिणा ॥
प्रागाद्यं देवकुण्डे वा स्थण्डिले वा घृतादिभिः ।
समिदाज्यचरुं लाजशालिनीवारतण्डुलैः ॥
अष्टोत्तरशतं हुत्वा राजानमधिवासयेत् ।
पुण्याहं स्मस्ति२रित्याद्यैः कौतुकं हेमनिर्मितम् ॥
१ पूर्वोक्तलक्षणैर्युक्तमिति च पाठः ।
२ स्वस्तिरुद्राय इत्यपि पाठः ।

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३७१
भसितं च मृदो१ चैव बन्धयेद्दक्षिणे करे ।
त्र्यम्बकं यजामहे सुगन्धि पुष्टिवर्द्धनम् ॥
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् ।
मन्त्रेणानेन राजानं सेचयेद्वाथ होमयेत् ॥
सर्वद्रव्याभिषेकं च होमद्रव्यैर्यथाक्रमम् ।
प्रागाद्यं ब्रह्माभिः प्रोक्तं सर्वद्रव्यैर्यथाक्रमम् ॥
तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ॥
स्वाहान्तं पुरुषेणैवं प्राक्कुण्डे होमयेद्द्विजः ।
अघोरेण च याम्येऽथ होमयेत्कृष्णवाससा ॥
वामदेवाय नमोज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः ।
इत्याद्युक्तक्रमेणैव जुहुयात्पश्चिमे पुनः ॥
सद्येन पश्चिमे होमः सर्वद्रव्यैर्यथाक्रमम् ।
सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।
भवे भवे नातिभवे भवस्व मां भवोद्भवाय नमः ॥
स्वाहान्तं जुहुयादग्नौ मन्त्रेणानेन बुद्धिमान् ।
आग्नेय्यां च विधानेन ऋचा रौद्रेण होमयेत् ॥
जातवेदसे सुनवामसोममित्यादि ।
नैर्ऋते च तथा द्रव्यैः सर्वैर्होमो विधीयते ॥
मन्त्रेणानेन दिव्येन सर्वसिद्धिकरेण च ।
निशि निशि जय स्वाहा खड्ग राक्षसभेदन ॥
रुधिराज्यार्द्रनैर्ऋत्यै स्वाहा नमः स्वधा नमः ।
यथेदं विधिना द्रव्यैर्मन्त्रेणानेन होमयेत् ॥
१ मृणालेन इत्यपि पाठः ।

३७२ वीरमित्रोदयस्य राजनीतिप्रकाशे
याम्यां१यां विविधैर्द्रव्यैरीशानेन द्विजोत्तमः ।
समीर समीर स्वाहा स्वधा नमः ।
ईशान्यामथ पूर्वोक्तैर्द्रव्यैर्होमं समाचरेत् ।
ॐईशानाय कद्रुद्राय रुद्राय प्रचेतसे त्र्यम्बकाय शर्वाय ।
तन्नो रुद्रः प्रचोदयात् ॥
प्रधानं पूर्ववद्द्रव्यैरीशाने च द्विजोत्तमः ।
प्रतिद्रव्यं सहस्रेण जुहुयान्नृपसन्निधौ ॥
स्वयं वा जुहुयादग्नौ पुरोहितमुखेन वा ।
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् । ब्रह्माधिपतिर्ब्र-
ह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवोम् ॥
प्रायश्चित्तमघोरेण शेषं सामान्यमाचरेत् ।
कृताधिवासं राजानं शङ्खभेर्यादिनिःस्वनैः ॥
जयशब्दैर्दिव्यैर्वेदघोषैः सुशोभनैः ।
सेचयेत्कूर्चतोयेन मोक्षयेद्वा नृपोत्तमम् ॥
रुद्राध्यायेन विधिना रुद्रभस्मप्रभारुणम् ।
शलाकाशतसम्पन्नं छत्रं चन्द्रसमप्रभम् ॥
शिबिकां वैजयन्तीं च साधयेन्नृपतेः समम् ।
राज्याभिषेकयुक्ताय क्षत्रियायेश्वराय वा ॥
नृपचिह्नानि यान्येषां क्षत्रियाणां विधीयते ।
वेदीप्रमाणं सर्वेषां द्वादशाङ्गुलमुच्यते ।
पलाशोदुम्बराश्वत्थवटाः पूर्वादितः क्रमात् ॥
तोरणाद्यानि वै तत्र पट्टमात्रेण पट्टिका ।
अष्टमाङ्गुलसंयुक्तदर्भमालासमावृतम् ॥
१ यमयतीति यमः सर्वनियन्ता वायुस्तद्दिता याम्या वायव्येत्य-
र्थः । तस्याम् ईशानेन तन्मन्त्रेणेत्यर्थः ।