सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 356, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 356

३६० वीरमित्रोदयस्य राजनीतिप्रकाशे
प्राप्तिव्यूहं समाख्यातं प्राकाम्यं शृणु सुव्रत ॥
पुष्पदन्तो महानन्दो विपुलानन्दकारकः ।
शुल्को विडालः कमलो बिल्वश्चारुण एव च ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
रतिप्रियः सुरेशानश्चित्राङ्गश्च सुदुर्जयः ॥
विनायकः क्षेत्रपालो महामोहश्च जाङ्गलः ।
वत्सपुत्रो महापुत्रो ग्रामदेशाधिपौ तथा ॥
सर्वस्थानाधिपो देवो मेघनादः प्रचण्डकः ।
कालदूतश्च कथितो द्वितीयावरणं स्मृतम् ॥
प्राकाम्यं कथितं व्यूहमैश्वर्यं कथयामि ते ।
मङ्गला चर्चिका चैव योगीशा वरदायिका ॥
भासुरा सुरमाता च सुन्दरी मातृकाष्टमी ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
गणाधिपश्च मन्त्रज्ञो वामदेवः षडाननः ।
विदग्धश्च विचित्रश्च अमोघो मोघ एव च ।
अंश्वो भद्रश्च सोमेशश्चोत्तमोदुम्बरस्तथा ॥
नारसिंहश्च विजयस्तथा इन्द्रग्रहः प्रभुः ।
अपांपतिश्च विधिना द्वितीयावरणं स्मृतम् ॥
ऐश्वर्यं कथितं व्यूहं वशित्वं कथयाम्यतः ।
गगनो भुवनश्चैव विजयो ह्यजयस्तथा ॥
महाजयस्तथाङ्गारो व्यङ्गारश्च महायशाः ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
१ शुक्लो विशाल इत्यपि पाठः ।
२ अश्वी रुद्रश्च इत्यपि पाठः ।