वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 355, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकाविधिः। ३५९
स्थाणुर्हरश्च चण्डेशो भूतीशः सुरपुङ्गवः ॥
सद्योजातो गुहेशश्च सूरसेनः सुरेश्वरः ।
क्रोधीशश्च तथा चण्डः प्रचण्डः शिव एव च ॥
एकरुद्रस्तथा कूर्चस्त्वेकनेत्रश्चतुर्मुखः ।
द्वितीयावरणे रुद्रा षोडशैव प्रकीर्त्तिताः ॥
कथितं लघिमाव्यूहं महिमां शृणु सुव्रत ।
अजेशः क्षेमरुद्रश्च सोमेशो लाङ्गली तथा ॥
चण्डारुश्चार्द्धनारीश एकान्तश्चान्त एव च ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
शिखीशः शकलश्चण्डो द्विरण्डः कल एव च ।
पाली भुजङ्गनामा च पिनाकी खड्गिरेव च ॥
काम ईशस्तथा श्वेतो भृगुः षोडश वै स्मृताः ।
कथितं महिमाव्यूहं प्राप्तिव्यूहं शृणुष्व मे ॥
संवर्त्तो लकुलीशश्च वाडवो हस्तिरेव च ।
चण्डयक्षो गणपतिर्महाभृगुरजोऽष्टमः ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
त्रिविक्रमो महाजिह्वो ध्वाँङ्क्षः श्रीभद्र एव च ॥
महादेवो दधीचश्च कुमारश्च परावरः ।
महादंष्ट्रः करालश्च सूचकश्च सुवर्धनः ॥
महाध्वाङ्क्षो महानन्दी गॅण्डो गोपालकस्तथा ।
१ इदमर्धं मु० लिं० पु० नास्ति ।
२ इदमप्यर्धं नास्ति ।
३ ऋक्ष इति च पाठः ।
४ दण्डी इति च पाठः ।