वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
द्वादशराजमण्डलम् । ३२१
त्रयाणामप्यनधीनः । मध्यमोदासीनयोर्लक्षणे विष्णुधर्मोत्तरे
स्पष्टमभिधास्येते ।
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥
विजिगीषुमित्रमरिमित्रं विजिगीषुमित्रमित्रमरिमित्रमित्रं चेति
अन्याश्चतस्रः प्रकृतयः पूर्वतः। यस्यां दिश्यरिः सैव पूर्वा। पार्ष्णि-
ग्राहः, आक्रन्दः, पार्ष्णिग्राहासारः, आक्रन्दासारश्चेति चतस्रः
प्रकृतयः पश्चात् इत्यष्टौ, आद्याश्चतस्र इति द्वादश। तथा चोक्तम्-
विष्णुधर्मोत्तरे,
अधिकृत्याभियोज्यं तु तत्रापि शृणु कल्पनाम् ।
अभियोज्यः स्मृतः शत्रुस्तस्यापि च प्रतीक्षिता ॥
तस्य, अरेः । प्रतीक्षिता, सेवकः । तदुक्तम्-
मनुना,
अनन्तरमरिं विद्यादरिसेविनमेव च । इति ।
तत्परस्तु सुहृज्ज्ञेयो रिपुमित्रमतः परम् ।
स्वमित्रमित्रं तत्पश्चान्मित्रमित्रं रिपोस्तथा ॥
एतत्पुरस्तात्कथितं पश्चादपि निबोध मे ।
पार्ष्णिग्राहः स्थितः पश्चात्ततस्त्वाक्रन्द उच्यते ।
आसारस्तु ततोऽप्यन्यस्त्वाक्रन्दासार उच्यते ॥
आसारः, पार्ष्णिग्राहासारः ।
जिगीषोः शत्रुयुक्तस्य वियुक्तस्य तथा द्विज ।
निग्रहानुग्रहे शक्तो मध्यमः परिकीर्तितः ॥
निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् ।
उदासीनः स कथितो बलवान् पृथिवीपतिः ॥
एतावदेव ते प्रोक्तं राम द्वादशराजकम् ।
नात्रापि निश्चयः शक्यो वक्तुं मनुजपुङ्गव ।
४१
३२२ वीरमित्रोदयस्य राजनीतिप्रकाशे
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते ॥
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ।
सामर्थ्ययोगात् कारणात् ।
त्रिविधा रिपवः प्रोक्ताः कुल्यानन्तरकृत्रिमाः ।
पूर्वः पूर्वो गुरुस्तेषां दुश्चिकित्स्यतमो मतः ॥
अनन्तरोऽपि यः शत्रुः सोऽपि मे कृत्रिमो मतः ।
पार्ष्णिग्राहो भवेद्राजा शत्रुमित्राभियोगिनः ॥
पार्ष्णिग्राहमुपायैस्तु शमयेच्च तथा स्वकम् ।
मित्रेण शत्रोरुच्छेदं प्रशंसन्ति पुरातनाः ॥
मित्रं हि शत्रुतामेति सामन्तत्वादनन्तरम् ।
शत्रुं जिगीषुरुच्छिन्द्यात्स्वयं शक्नोति चेद्यदि ॥
प्रतापवृद्धौ तेनास्य न मित्राज्जायते भयम् ।
नान्यथा पृथिवी जेतुं शक्या राम जिगीषुणा ॥
महाभारते,
विजिगीषोररिमित्रमरेर्मित्रमतः परम् ।
मित्रमित्रं शत्रुमित्रमित्रं ज्ञेयं पुरःसरम् ॥
पार्ष्णिग्राहस्तथाक्रन्दः पार्ष्ण्यासारश्च पृष्ठतः ।
आक्रन्दासार शांतं च ज्ञेयं मण्डलचिन्तकैः ॥
पार्ष्णिग्राहाभिसारं च पार्ष्णिग्राहं च विग्रहे ।
राजाक्रन्दाभिसारेण तथाऽऽक्रन्देन वर्द्धयेत् ॥
वर्द्धयेत्, छेदयेत् ।
विरोधयेच्छत्रुमित्रं मित्रमित्रमरेस्तथा ।
मित्रेण मित्रमित्रेण मध्यमत्वाभिवाञ्छकः ॥
मन्त्रप्रभूत्साहशक्तीः पालयेद्बलवान्नृपः ।
अत्र यद्यपि मध्यमोदासीनौ नोक्तौ तथापि मन्वाद्येकवा-
द्वादशराजमण्डलम् । ३२३
क्यतयात्रापि तौ बोद्धयौ । कल्पतरुस्तु-'विजिगीषुमित्रं, वि-
जिगीषुमित्रमित्रम्, अरिमित्रम्, अरिमित्रमित्रं, मध्यममित्रं मध्य-
ममित्रमित्रम्, उदासीनमित्रम्, उदासीनमित्रमित्रं चेत्यष्टौ, प्रकृ-
ताश्चतस्रः प्रकृतय इति द्वादश' इत्याह । एतेषां भेदानाह—
मनुः,
अमात्यराष्ट्रदुर्गाथैदण्डाख्याः पञ्च चापराः ।
प्रत्येकं कथिता ह्येताः सङ्क्षेपेण द्विसप्ततिः॥(अ०७श्लो० १५७)
विजिगीषुः, विजिगीष्वमात्यादयः पञ्च एवं षट् । एवमन्ये
एकादश माण्डलिकाः, एषाममात्यादयः प्रत्येकं पञ्च पञ्चेति
द्विसप्ततिर्भवन्ति । असाध्यमरिमाह—
स एव,
प्राज्ञं कुलीनं दातारं शूरं दक्षं तथैव च ।
कृतज्ञं शक्तिमन्तं च कष्टमाहुररिं बुधाः ॥(अ०७श्लो०२१०) इति।
आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता ।
स्थौललक्ष्यं च सततमुदासीनगुणोदयः॥ (अ०७ श्लो० २११)
तान्सर्वानभिसन्दध्यात्सामादिभिरुपक्रमैः ।
व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥ (अ० ७ श्लो० १५८)
अभिसन्दध्यात्, वशीकुर्यात् । विजिगीषुर्धर्मेण परान् ज-
येदित्युकम्—
१ अत्र 'उदासीन गुणानाह स एव'इत्यपेक्षितं त्रुटितमिव भाति ।
२ बहुप्रदत्वम् 'स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे' इत्यमरः।
३ अत्रापि 'तेषां वशीकारोपायामाह स एव' इत्यपेक्षितम् । एत्प-
द्यस्थतच्छब्देन पूर्वोक्तद्विसप्ततिप्रकारराजमण्डलस्य परामर्शात्
तदनन्तरमेवास्य पद्यस्य विद्यमानत्वात् ।
३२४ वीरमित्रोदयस्य राजनीतिप्रकाशे
विष्णुधर्मोत्तरे,
यथास्य नोद्विजेल्लोको विश्वास्यश्च यथा भवेत् ।
जिगीषुधर्मविजयी तथा लोकं वशं नयेत् ॥
यः स्यादधर्मविजयी तस्मादुद्विजते जनः ।
प्राप्यापि वसुधां कृत्स्नां न चिरं श्रियमश्नुते ॥
धर्मेण राज्ञो भवतीह वृद्धिर्धर्मेण वृद्धिश्च तथा परत्र ।
धर्मेण लब्ध्वा वसुधां जितारिर्भुक्त्वा चिरं नाकमनुप्रयाति ॥ इति।
इति द्वादशराजमण्डलम् ।
अथ षाड्गुण्यम्।
तत्र याज्ञवल्क्यः,
सन्धि च विग्रहं यानमासनं संश्रयं तथा ।
द्वैधीभावं गुणानेतान्यथावत्परिकल्पयेत् ॥ इति ॥
मनुः,
सन्धिं च विग्रहं चैव यानमासनमेव च ।
द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा ॥
आसनं चैव यानं च सन्धिं विग्रहमेव च ।
कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ॥
सन्धिः, हस्त्यश्वादिदानादिना परस्परमुपकर्त्तव्यमित्यादि-
व्यवस्था । तदुक्तम्-
पणबन्धः स्मृतः सन्धिः-इति ।
विग्रहो विरोधः । तदुक्तम्-
अपकारस्तु विग्रहः । इति ।
यानं, स्वबलेन शत्रुं प्रति गमनम् । तदुक्तम्-
जिगीषोः शत्रुविषये यानं यात्रऽभिधीयते । इति ।
षाड्गुण्यलक्षणम् । ३२५
आसनं, विग्रहमुपेक्ष्य स्वदेशेऽवस्थितिः । तदुक्तम्-
विग्रहेऽपि स्वके देशे स्थितिरासनमुच्यते । इति ।
द्वैधीभावः, स्वबलस्य द्विधाकरणम् । तदुक्तम्-
बलार्द्धेन प्रयाणं तु द्वैधीभाव स उच्यते । इति ।
संश्रयः, परपीडितस्य प्रवलराजान्तराश्रयणम् । तदुक्तम्-
उदासीने मध्यमे वा संश्रयात्संश्रयः स्मृतः ।
सन्ध्यादयो द्विविधाः । तदुक्तम्-
मनुना,
सन्धिं च द्विविधं विद्याद्राजा विग्रहमेव च ।
उभे यानासने चैव द्वैधं संश्रयमेव च ॥
तत्र सन्धिर्द्विविधो यथा-आवाभ्यां राजान्तरं प्रति यानं
कर्त्तव्यमिति क्रियमाण एकः, त्वमत्र याह्यहमन्यत्र यास्यामी-
ति द्वितीयः। एतावपि प्रत्येकं द्विविधौ तात्कालिकफलवत्त्वोत्त-
रकालीनफलवत्त्वाभ्याम् । तदुक्तम्-
तेनैव,
समानयानकर्मा च विपरीतस्तथैव च ।
तदात्वायांतसंयुक्तः संन्धिज्ञेयो द्विलक्षणः ॥ इति ।
विग्रहो द्विविधः-स्वकार्यार्थं मार्गशीर्षादिकालेऽकाले वा
कृतः स्वयङ्कृत एकः, मित्रस्यापकारे केनचित्कृते तद्रक्षार्थ-
मपरः । तदुक्तम्-
तेनैव,
स्वयङ्कृतश्च कार्यार्थमकाले काल एव च ।
मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥ इति ।
यानं द्विविधम्-बलवत एकाकिनो मित्रसहितस्य वा । तदुक्तम्-
तेनैव,
३२६ वीरमित्रोदयस्य राजनीतिप्रकाशे
एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया ।
संहतस्य च मित्रेण द्विविधं यानमुच्यते ॥ इति ।
आसनं द्विविधम्-क्षीणबलस्य मित्ररक्षार्थं सबलस्य वा। तदुक्तम्-
तेनैव,
क्षीणस्य चैव क्रमशौ दैवात्पूर्वकृतेन वा ।
मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥ इति ।
द्वैधं द्विविधम्-दुर्गदेशेऽर्द्धबलेन राजावस्थानम्, अर्द्धबलेन
सेनापतिप्रयाणं, वैपरीत्येन वावस्थानं गमनं च । तदुक्तम्-
बलस्य स्वामिनो वापि स्थितिः कार्यस्य सिद्धये ।
द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥ इति ।
स्थितिः, द्विधाभूय स्थितिः । द्विधास्थितेर्द्वैधशरीरान्तर्गत-
त्वात् । संश्रयो द्विविधः-अपहृतार्थस्यादानार्थः, अमुकमय-
माश्रित इति भाविपीडानिवृत्त्यर्थश्च । तदुक्तम्-
तेनैव,
अर्थसम्पादनार्थं च पीड्यमानस्य शत्रुभिः ।
साधुषु व्यपदेशार्थं द्विविधः संश्रयः स्मृतः ॥ इति ।
ते च कदा केन च कर्त्तव्या इत्यपेक्षायामाह-
मनुः,
यदाऽधिगच्छेदायतयामाधिक्यं ध्रुवमात्मनः ।
तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत् ॥
आयत्याम्, उत्तरकाले । आधिक्यं, बलाधिक्यम् । तदा-
त्वे, सम्प्रति । स च समेन बलीयसा वा कार्यः । तदुक्तम्-
समेन सन्धिरन्वेष्यो हीनेन च बलीयसा । इति ।
स्वयं हीनेन सता समेन सह बलीयसा वा सह सन्धिरन्वेष्यः।
मनुः
षाड्गुण्यस्य प्रयोगकालः । ३२७
यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम् ।
अत्युच्छ्रितं तथात्मानं तदा मन्येत विग्रहम् ॥
विष्णुधर्मोत्तरेऽपि,
हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा ।
राज्ञा स्वयं बलीयसा सता हीनेन शत्रुणा सह विग्रहः कार्यः ।
मनुः,
यदा मन्येत भावेन हृष्टं पुष्टं स्वकं बलम् ।
परस्य विपरीतं च तदा यायादरीन् प्रति ॥
विष्णुधर्मोत्तरेऽपि,
बहुलाभकरं यत्स्यात्तदा यानं समाश्रयेत् ।
बहुव्ययक्षयायासं तेषां राम प्रकीर्त्तितम् ॥
बहुव्ययक्षयायासमित्यत्र समाहारद्वन्द्वेन नपुंसकतैकवद्भावौ ।
मनुः,
यदा तु स्यात्परिक्षीणो वाहनेन बलेन च ।
तदासीत प्रयत्नेन शनकैः सान्त्वयन्त्रिपून् ॥
विष्णुधर्मोत्तरेऽपि,
आसीत कर्मविच्छेदं शक्तः कर्तुं रिपुर्यदा ।
यदा रिपुः शक्तः स्वापेक्षया सामर्थ्यवान् तदा कर्मणो
विग्रहस्य विच्छेदं कर्तुमासीतेत्यर्थः ।
मनुः,
मन्येतारिं यदा राजा सर्वथा बलवत्तरम् ।
तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः ॥
विष्णुधर्मोत्तरेऽपि,
अशुद्धपाष्णिर्बलवान्द्वैधीभावं समाश्रयेत् ।
३२८ वीरमित्रोदयस्य राजनीतिप्रकाशे
मनुः,
यदा परबलानां तु गमनीयतमो भवेत् ।
तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम् ॥
निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च ।
उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा ॥
विष्णुधर्मोत्तरेऽपि,
बलिना निगृहीतस्तु योऽसन्धेयेन पार्थिवः ।
संश्रयस्तेन कर्त्तव्यो गुणानामधमो गुणः ॥
तथा,
सर्वशक्तिविहीनस्तु तदा कुर्यात्तु संश्रयम् ।
मनुः,
यदि तत्रापि सम्पश्येद्दोषं संश्रयकारितम् ।
सुयुद्धमेव तत्रापि निर्विशङ्कं समाचरेत् ॥
सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः ।
यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥
आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।
अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥
आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः ।
अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥
यथैनं नाभिसन्दध्युर्मित्रोदासीनशत्रवः ।
तथा सर्वं संविदध्यादेष सामासिको नयः ॥
चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् ।
स्वशक्तिं परशक्तिं च नित्यं विद्यान्महीपतिः ॥
पीडनानि च सर्वाणि व्यसनानि तथैव च ।
आरभेत ततः कार्यं सञ्चिन्त्य गुरुलाघवम् ॥
यात्राप्रकरणे यात्राकालः । ३२९
आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः ।
कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ॥ इति ।
अग्निपुराणे सन्ध्यादीनामनेके प्रकारा उक्ता विस्त-
रभयात्तु नेह लिख्यन्ते । अथ षाड्गुण्यमध्ये सङ्क्षेपतो 'याया-
दरीन् प्रति'इति यदुक्तं तद्विस्तरतो निरूपयितुं यात्राप्रकरणम् ।
तत्रादौ तत्कालो निरूप्यते । स च तत्कालो विष्णुधर्मोत्तरे
मात्स्ये चाभिहितः ।
राम उवाच ।
भगवन् धर्मशास्त्रज्ञ सर्वशास्त्रविशारद ।
यात्राकालविधानं मे कथयस्व महीक्षिताम् ॥
पुष्कर उवाच ।
यदा मन्येत नृपतिराक्रन्देन बलीयसा ।
पार्ष्णिग्राहाभिभूतोऽरिस्तदा यात्रां प्रयोजयेत् ॥
उच्छ्रायो वा भृता भृत्याः प्रभूतं च बलं मम ।
मूलरक्षासमर्थोऽस्मि तदा यात्रां प्रयोजयेत् ॥
मूलं, स्वदेशः ।
अशुद्धपार्ष्णिर्नृपतिर्न तु यात्रां प्रयोजयेत् ।
पार्ष्णिग्राहाधिकं सैन्यं मूले निक्षिप्य वा व्रजेत् ।
दिव्यान्तरिक्षक्षितिजैरुत्पातैः पीडितं परम् ॥
तमृक्षपीडासन्तप्तं पीडितं च तथा ग्रहैः ।
स्वबलव्यसनोपेतं तथा दुर्भिक्षपीडितम् ॥
सम्भूतान्तरकोपं च क्षिप्रं यायादरिं नृपः ।
शत्रोर्वा व्यसने यायात्काल एष सुदुर्लभः ॥ इति ।
१ योधान्भृत्वा प्रभूतांश्च इति मात्स्ये पाठः ।
४२
३३० वीरमित्रोदयस्य राजनीतिप्रकाशे
मनौ,
यदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः ।
तदानेन विधानेन यायादरिपुरं शनैः । इति ।
याज्ञवल्क्येऽपि,
यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् ।
परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥ इति ।
विष्णुधर्मोत्तरेऽपि,
प्रज्वलन्ती तथैवोल्का दिशि यस्यां प्रपद्यते ।
भूकम्पो यां दिशं याति यां च केतुः प्रधूमयेत् ॥
निर्घातश्च पतेद्यत्र तां यायाद्वसुधाधिपः ।
विष्टिनायककं सैन्यं तथा भिन्नं परस्परम् ॥
विष्टिनायककं, विष्टिर्बलादाकृष्टः कर्मकरः स नायको यत्र
तादृशम् ।
यूकामाक्षिकबहुलं बहुरोगाकुलं तथा ।
नास्तिकं भिन्नमर्यादं तथाऽमङ्गलवादिनम् ॥
अपेतप्रकृतिं चैव निराशं च तथा जये । इति ।
एतादृशं यदा परसैन्यं तदा यायादित्यनुषङ्गः ।
विष्णुर्यात्रामासानाह, चैत्रे मार्गशीर्षे वा यात्रां यायात् । इति।
वाशब्दोऽनुक्तसमुच्चये तेन फाल्गुनोऽपि ग्राह्यः । तथाह-
मनुः,
मार्गशीर्षे शुभे मासे यायाद्यात्रां महीपतिः ।
फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥
अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम् ।
तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः ॥ इति ।
रिपुव्यसनस्य स्वातन्त्र्येण कालत्वाभिधानात्तत्काले का-
यात्राप्रकरणे यात्रातः पूर्वं देवपूजा । ३३१
लान्तरप्रतीक्षा निषिद्ध्यते ।
विष्णुधर्मोत्तरे,
चैत्रे वा मार्गशीर्षे वा यात्रां यायान्नराधिपः । इति ।
इदमुपलक्षणम् । अन्यापि ज्योतिःशास्त्रोक्ता सर्वापि का-
लशुद्धिर्ग्राह्या । यात्रातः पूर्वं सप्तदिनपर्यन्तं देवपूजोक्ता—
तत्रैव,
सप्ताहेन यदा यात्रा भविष्यति महीपतेः ।
तदा दिने तु प्रथमे पूजनीयो विनायकः ॥
मोदकैरक्षतैर्हृद्या कुसुमैश्च तथा फलैः ।
गन्धवस्त्रैरलंकारैर्धूपैर्दीपैर्मनोहरैः ॥
अग्निपुराणे तु हरिशम्भ्वोरपि पूजोक्ता—
पूजनीयो हरिः शम्भुर्मोदकाद्यैर्विनायकः । इति ।
द्वितीयेऽहनि कर्तव्यं सर्वदिक्पालपूजनम् ।
दिक्पालपूजनं कृत्वा तेषां च पुरतः स्थितः ॥
शय्यां कुशाद्यैः कुर्वीत सितवस्त्रोत्तरच्छदाम् ।
विकिरेन्नागपुष्पैस्तां तथा सिद्धार्थकैः शुभैः ॥
तच्छीर्षके तु पूज्या श्रीर्भद्रकाली च पादयोः ।
हरिं दक्षिणपार्श्वे तु वामे ब्रह्माणमेव च ॥
पूजितं कलशं हृद्यं कुर्यादुष्णीषके दृढम् ।
नीलपल्लवसंछन्नं चारुपुष्पोज्ज्वलं शुभम् ॥
एककालं हविष्यान्नं लघु भुक्त्वा महीपतिः ।
स्वयं दक्षिणपार्श्वेन मन्त्रमेतमुदीरयेत् ॥
नमः शम्भो त्रिनेत्राय रुद्राय वरदाय च ।
वामनाय विरूपाय स्वप्नाधिपतये नमः ॥
भगवन्देवदेवेश शूलभृद्वृषवाहन ।
३३२ वीरमित्रोदयस्य राजनीतिप्रकाशे
इष्टानिष्टं समाचक्ष्व स्वप्ने सुप्तस्य शाश्वतम् ॥
यज्जाग्रतो दूरमिति मन्त्रमावर्तयेत्ततः ।
हृदि न्यस्य कुशान् राज्ञः प्रयतस्तु पुरोहितः ॥
ततः स्वपेच्छुभे दृष्टे यात्रा देया तु नान्यथा ।
तृतीयेऽहनि सम्प्राप्ते देवं दिङ्नाथमर्चयेत् ॥
एकमेव महाभाग दिङ्नाथं च तथा ग्रहम् ।
यां दिशं नृपतिर्गच्छेन्नाथस्तस्यास्तथैव तम् ॥
चतुर्थेऽहनि सम्प्राप्ते ग्रहयागो विधीयते ।
पञ्चमेऽहनि सम्प्राप्ते सर्वयागस्तथैव च ॥
देवतानां स्वनगरे कृता यासां तथालयाः ।
तासां सम्पूजनं कार्यं स्वपुरे या व्यवस्थिताः ॥
तत्रैव रात्रौ भूतानां कर्त्तव्यं च तथार्चनम् ।
देववृक्षेषु चैत्येषु गोपुराट्टालकेषु च ॥
चतुष्पथेषु रथ्यासु पर्वतानां गुहासु च ।
नदीतीरेषु रम्येषु देवतायतनेषु च ॥
तेषां सम्पूजनं कृत्वा स्वगृहे तान् समर्च्चयेत् ।
तत्र कृत्वा तथैवार्च्याः प्रमथा भूभुजा स्वयम् ॥
वासुदेवस्य देवस्य तथा सङ्कर्षणस्य च ।
प्रद्युम्नस्यानिरुद्धस्य ब्रह्मणः शङ्करस्य च ॥
कीनाशशक्रवरुणधनेशानां तु ये गणाः ।
वायोश्च निर्ऋतेर्वह्नेस्तथा चन्द्रार्कयोश्च ये ॥
ग्रहाणामथ ऋक्षाणां स्कन्दस्य धनदस्य च ।
महाबला महाकाया महासत्त्वा महाव्रताः ॥
अणिमा महिमा चैव गरिमा लघिमा तथा ।
ईशित्वेन वशित्वेन प्राप्तिनाम्ना तथा च ये ॥
यत्र कामावसायित्वं तथा येषां च विद्यते ।
एवमष्टगुणैश्वर्य्यसंयुता भीमविक्रमाः ॥
नानामत्त्वशिरोग्रीवा नानाप्रहरणायुधाः ।
नानाविरागवसना नानासत्त्ववपुर्धराः ॥
तथा नानाविधाहारा महाचेष्टा महाबलाः ।
भक्तानुकम्पिनो वीरा वरदाः कामरूपिणः ॥
प्रमथाः प्रतिगृह्णन्तु उपहारं नमोऽस्तु वः ।
सपुत्रमातृभृत्योऽहं सदारः शरणं गतः ॥
रक्षध्वं मां महाभागा गृहे युद्धे तथाध्वनि ।
चमूनां पृष्ठतो गत्वा नाशयध्वं तथा रिपून् ॥
स्वप्नं शुभाशुभं वापि कथयध्वं समाहिताः ।
विनिवृत्तश्च दास्यामि दत्तादभ्यधिकं बलिम् ॥
अनिवृत्तेन दातव्याः सयत्नेन च भूभुजा ।
पूर्ववच्च तथा रात्रौ स्वप्नप्रार्थनमिष्यते ॥ इति ।
तत्र सुस्वप्नदर्शने यात्रोक्ता—
मत्स्यपुराणे,
शरीरस्फुरणे धन्ये तथा सुस्वप्नदर्शने ।
निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् ॥ इति ।
अत्र प्रसङ्गात् शुभाशुभसूचकाः सुस्वप्ना दुःस्वप्नाश्चोच्यन्ते ।
तत्र श्रीरामायणे शुभस्वप्नविषये त्रिजटावाक्यम्—
समग्रभवनां कृत्स्नां ग्रसमानः पुरीमिमाम् ।
स्वप्ने रामो मया दृष्टो रुधिरं पीतवान्बहु ॥
गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ।
युक्तां नागसहस्रेण सुखमास्थाय राघवः ॥
स्वप्ने चाद्य मया दृष्टः शुक्लाम्बरधरावृतः ।
३३४ वीरमित्रोदयस्य राजनीतिप्रकाशे
सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थितः ॥
राघवश्च मया दृष्टश्चतुर्दन्तं महागजम् ।
आरूढः शैलसङ्काशं विचरन्सह लक्ष्मणः ॥
ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा ।
शुक्लमाल्याम्बरधरौ जानकीं प्रत्युपस्थितौ ॥
ततस्तस्य नगस्याग्रादाकाशस्थस्य दन्तिनः ।
भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ॥
भर्तुरङ्कात्समुत्पत्य ततः कमललोचना ।
चन्द्रसूर्यौ मया दृष्टा पाणिना परिमार्जती ॥
ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः ।
सीतया च विशालाक्ष्या लङ्कां पर्यभितः स्थितः ॥
पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् ।
शुक्लमाल्याम्बरो रामो लक्ष्मणेन सहागतः ॥ इति ।
अष्टयुजा, अष्टवृषभयुक्तेन ।
मत्स्यपुराणे,
शैलप्रासादनागाश्ववृषभारोहणं हितम् ।
द्रुमाणां श्वेतपुष्पाणां गमनं च तथा द्विज ॥
तृणद्रुमोद्भवो नाभौ तथा च बहुबाहुता ।
तथा च बहुशीर्षत्वं पलितोद्भव एव च ॥
सुशुक्लमाल्यधारित्वं सुशुक्लाम्बरधारिता ।
चन्द्रार्कताराग्रसनं परिमार्जनमेव च ॥
शक्रध्वजालिङ्गनं च तदुच्छ्रायक्रिया तथा ।
भूम्यम्बुध्योरथाग्रसनं शत्रूणां च वधक्रिया ॥
जयो विवादो द्यूतेषु सङ्गमे च तथा द्विज ।
भक्षणं चाममांसानां मत्स्यानां पायसस्य च ॥
यात्राप्रकरणे शुभस्वप्नाः । ३३५
दर्शनं रुधिरस्यापि स्नानं च रुधिरेण ह ।
सुरारुधिरमद्यानां पानं क्षीरस्य चाप्यथ ॥
अन्त्रैर्विचेष्टनं भूमौ निर्मलं गगनं तथा ।
सुखेन दोहनं शस्तं महिषीणां गवां तथा ॥
सिंहीनां हस्तिनीनां च वडवानां तथैव च '
प्रसादो देवविप्रेभ्यो गुरुभ्यश्च तथा शुभः ॥
अम्भसा त्वाभिषेकश्च गवां शृङ्गाश्रितेन च ।
चन्द्राद्भ्रष्टेन वा राजन् ज्ञेयो राज्यप्रदो हि सः ॥
चन्द्राद्भ्रष्टेनाम्भसाभिषेकः ।
राज्याभिषेकश्च तथा शिरसश्छेदनं तथा ।
मरणं वह्निदाहश्च वह्निदाहो गृहस्य च ॥
लब्धिश्च राज्यलिङ्गानां तन्त्रीवाद्यादिवादनम् ।
तथोदकानां तरणं विषमस्य च लङ्घनम् ॥
हस्तिनीवडवानां च गवां च प्रसवो गृहे ।
आरोहणं तथाश्वानां रोदनं च तथा शुभम् ॥
वरस्त्रीणां तथा लाभस्तथाऽऽलिङ्गनमेव च ।
निगडैर्बन्धनं धन्यं तथा विष्ठानुलेपनम् ॥
जीवतां भूमिपालानां सुहृदामपि दर्शनम् ।
दर्शनं देवतार्चानां विमलानां तथाम्भसाम् ॥
शुभान्यथैतानि नरस्तु दृष्ट्वा प्राप्नोत्ययत्नाद्ध्रुवमर्थलाभम् ।
स्वप्नानि धर्मज्ञभृतां वरिष्ठ व्याधेर्विमोक्षं च तथाऽऽतुरोऽपि॥इति।
इति शुभस्वप्नाः ।
अथाशुभस्वप्नाः ।
तत्र श्रीरामायणे,
विमानात्पुष्पकादद्य रावणः पतितो मया ।
३३६ वीरमित्रोदयस्य राजनीतिप्रकाशे
कृष्यमाणः स्त्रिया दृष्टो मुण्डः पीताम्बरो हसन् ॥
रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ।
स गत्वा दक्षिणामाशां प्रविष्टो गोमयह्रदम् ॥
कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी ।
काली करालवदना दिशं याम्यां प्रकर्षति ॥
वराहेण दशग्रीवः शिशुमारेण चासकृत् ।
उष्ट्रेण च मया दृष्टः प्रयातो दक्षिणां दिशम् ॥
समाजश्च मया दृष्टो गीतवादित्रनृत्तवान् ।
बिभ्रतां रक्तमाल्यानि रक्षसां रक्तवाससाम् ॥
लङ्का चेयं पुरी दृष्टा गजवाजिरथाकुला ।
सागरे पतिता कृत्स्ना भग्नप्राकारतोरणा ॥
पीत्वा तैलं प्रनृत्यन्ति प्रहसन्ति महास्वराः ।
लङ्कायां भस्मरूक्षायां सर्वराक्षसयोषितः ॥
कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः ।
पीतैर्निवसनैर्दृष्टाः क्रीडन्तो गोमयह्रदे ॥ इति ।
मत्स्यपुराणविष्णुधर्मोत्तरयोरपि,
इदानीं कथयिष्यामि निमित्तं स्वप्नदर्शने ।
नाभिं विनान्यगात्रेषु तृणवृक्षसमुद्भवः ॥
चूर्णनं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा ।
मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता ॥
उच्चात्प्रपतनं चैव दोलारोहणमेव च ।
अञ्जनं पक्वलोहानां तपतामपि धारणम् ॥
रक्तपुष्पद्रुमाणां च चण्डालस्य तथैव च ।
१ अर्जनं पक्वलोहानां हयानामपि मारणम् । इति मात्स्ये पाठः
यात्राप्रकरणे दुःस्वप्नाः । ३३७
वराहर्क्षखरोष्ट्राणां तथा चारोहणक्रिया ॥
भक्षणं पक्वमांसानां तैलस्य कृसरस्य च ।
नर्तनं हसनं चैव विवाहो गीतमेव च ॥
तन्त्रीवाद्यविहीनानां वाद्यानां चापि वादनम् ।
स्रोतोऽवगाहगमनं स्नानं गोमयवारिणा ॥
पङ्कोदकेन च तथा महीतोयेन वाप्यथ ।
मातुः प्रवेशो जठरे चितारोहणमेव च ॥
शक्रध्वजाभिपतनं पतनं शशिसूर्ययोः ।
दिव्यानन्तरिक्षभौमानामुत्पातानां च दर्शनम् ॥
देवद्विजातिभूपालगुरूणां क्रोध एव च ।
आलिङ्गनं कुमारीणां पुरुषाणां च मैथुनम् ॥
हानिश्चैव स्वगात्राणां विरेकवमनक्रिया ।
दक्षिणाशाभिगमनं व्याधिनाभिभवस्तथा ॥
फलापहारश्च तथा गृहाणां चैव पातनम् ।
गृहसम्मार्जनं चैव धनहानिं विनिर्दिशेत् ॥
पीडा पिशाचक्रव्यादवानरान्त्यनरैरपि ।
परादभिभवश्चैव तस्माच्च व्यसनोद्भवः ॥
काषायवस्त्रधारित्वं तद्वत्स्त्रीक्रीडनं तथा ।
तद्वत्स्त्रीक्रीडनं, काषायवस्त्रयुक्तस्त्रिया सह क्रीडनम् ।
स्नेहपानावगाहौ च रक्तमाल्यानुलेपनम् ।
एवमादीन्यधन्यानि स्वप्नानि तु विनिर्दिशेत् ॥ इति ।
ऐतरेयारण्यके, अथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति
स एनं हन्ति वराह एनं हन्ति मर्कट एनमास्कन्दत्याशुवायुरेनं
भवहति सुवर्णं खादित्वापगिरति मध्वश्नाति बिसानि भक्षयत्ये-
कपुण्डरीकं धारयति खरैर्वराहैर्युक्तैर्याति कृष्णां धेनुं कृष्णव-
४३
३३८ वीरमित्रोदयस्य राजनीतिप्रकाशे
त्सां नलदमाली दक्षिणामुखो व्राजयति स यद्येतेषां किञ्चित्प-
श्येदुषोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रीसूक्तेन प्रत्यृचं
हुत्वान्येनान्नेन ब्राह्मणान् भोजयित्वा चरुं स्वयं प्राश्नी-
यात् । इति । ( आ० ३ अ० २ खं० १० )
अथेत्यादि दश स्वप्नारिष्टानि । स्वप्ने साकल्येनात्यन्तं
कृष्णवर्णं पुरुषं कृष्णवर्णैर्दन्तैर्युक्तं पश्यति स च पुरुष एनं स्व-
प्नद्रष्टारं हन्ति इत्येकमरिष्टम् । अरण्ये प्रौढो वराहो हन्ति इति
द्वितीयम् । मर्कटो मूर्द्धन्यारोहतीति तृतीयम् । शीघ्रवायुः स्ववे-
गेन निम्नदेशे बलात्प्रवहतीति चतुर्थम् । सुवर्णं भक्षयित्वा
वमतीति पञ्चमम् । मधु आकण्ठमश्नातीति षष्ठम् । बिसानि पद्मा-
नां नालानि भक्षयतीति सप्तमम् । एकं रक्तवर्णं पुण्डरीकं शि-
रसि धारयतीति अष्टमम् । युक्तैरश्ववत्सज्जीकृतैर्गर्दभैर्वराहैर्वा
ग्रामान्तरं गच्छतीति नवमम् । नलदमाली रक्तकुसुमग्रथितस्र-
ग्वी दक्षिणदिगभिमुखो भूत्वा कृष्णवत्सोपेतां कृष्णां धेनुं
व्राजयति प्रेरयतीति दशमम् । एतैः स्वप्नगतैररिष्टैः प्रत्यासन्नं
मरणं निश्चित्य यदस्यानन्तरकर्त्तव्यं तद्दर्शयति-स यदीति ।
स पुमानेषामरिष्टानां मध्ये एकमपि पश्येत्तस्मिन्दिने उपोष्य
स्थालीपाकविधानेन पायसं श्रपयित्वा रात्रीव्यरुयदायतीतिसू-
क्तेन प्रत्यृचं हुत्वा स्वगृहपक्केनान्नेन यथाशक्ति ब्राह्मणान् भोज-
यित्वा होमशेषं स्वयं प्राश्नीयात् । एतेषु स्वप्नेषु अयं विशेषः ।
सामान्यतस्तु दुःस्वप्नदर्शनेऽन्यो विधिरुक्तः—
स्वप्नममनोज्ञं दृष्ट्वा द्यानो देव सवितरितिद्वाभ्यां यच्च गोषु
दुःस्वप्नमिति पञ्चभिरादित्यमुपतिष्ठेत यो मे राजन्युज्यो वा सखा
वेति सप्तभिरादित्यमुपतिष्ठेतैकया वा । इति ।
एषामकथनं धन्यं भूयश्च स्वपनं तथा ।
शुभाशुभस्वप्नविपाककालः । ३३९
एषां, दुःस्वप्नानाम् ।
कल्कस्नानं तिलैर्होमो ब्राह्मणानां च पूजनम् ।
स्तुतिश्च वासुदेवस्य तथा तस्यैव पूजनम् ॥
नागेन्द्रमोक्षश्रवणं ज्ञेयं दुःस्वप्ननाशनम् ।
तथा,
अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् ।
हंसं नारायणं चैव एतन्नामाष्टकं शुभम् ॥
त्रिसन्ध्यं यः पठेन्नित्यं दारिद्र्यं तस्य नश्यति ।
शत्रुसैन्यं क्षयं याति दुःस्वप्नं च विनश्यति ॥
गङ्गायां मरणं चैव दृढभक्तिश्च केशवे ।
ब्रह्मविद्यावबोधश्च तस्मान्नित्यं पठेन्नरः ॥ इति ।
इति दुःस्वप्नाः ।
अथ शुभाशुभस्वप्नविपाककालः ।
स्वप्नास्तु प्रथमे यामे संवत्सरविपाकिनः ।
षड्भिर्मासैर्द्वितीये तु त्रिभिर्मासैस्तृतीयके ॥
चतुर्थे मासमात्रेण पश्यतो नात्र संशयः ।
एकस्यां यदि वा रात्रौ शुभं वा यदि वाऽशुभम् ॥
पश्चात् दृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत् ।
तस्माच्छोभनके स्वप्ने पश्चात्स्वप्नं न शस्यते ॥ इति ।
तदेवं पञ्चमेऽहनि सुस्वप्नदर्शने षष्ठेऽहनि यात्रायां निश्चि-
तायां कृत्यान्तरमुक्तम्—
विष्णुधर्मोत्तरे,
षष्ठेऽहनि जयस्नानं कर्त्तव्यं च तथा भवेत् ।
विधिस्तस्याभिषेकार्थः सर्व एव विधीयते ॥
अस्य जयाभिषेकस्य प्रयोगो वक्ष्यते । अत्रैव वक्ष्यमाणा
३४० वीरमित्रोदयस्य राजनीतिप्रकाशे
घृतकम्बलशान्तिर्नीराजनशान्तिश्च यथासम्भवं कर्त्तव्या
यात्रादिने तु सम्प्राप्ते क्षुरकर्म विवर्जयेत् ।
अभ्यङ्गं गृहकार्य्यं च क्रोधशोकौ च काङ्कतम् ॥
काङ्कतं, केशप्रसाधनम् ।
यातव्यं येन तेनाद्य तदुक्तं स्नानमाचरेत् ।
स्नातः शुक्लाम्बरः स्रग्वी तथा श्वेतानुलेपनः ॥
चित्राभरणवान् राजा दूर्वापल्लवलाञ्छनः ।
— — — त्रिविक्रमम् ॥
जुहुयाच्च ततो वह्नौ सुसमिद्धे पुरोहितः ।
आयुष्यमभयं चैव तथा स्वस्त्ययनं गणम् ॥
शर्मवर्मगणं चैव तथा प्रतिरथं शुभम् ।
शाकुनं च तथा सूक्तं सूक्तं वैष्णवमेव च ॥
तथाग्निलक्षणोत्पत्तौ शुभे यायान्महीपतिः ।
नक्षत्रस्य दिशश्चैव नैवेद्यं यत्प्रकीर्तितम् ॥
तदेव नृपतिः प्राश्य यात्रां कुर्य्याद्यथाविधि ।
अहृद्यं मक्षिकाकेशकीटयुक्तं विवर्जयेत् ॥
दग्धं च वर्जयेद्यात्रा देया भवति नान्यथा ।
अन्यथा, केशकीटादिपाते ।
ततस्तु राजलिङ्गानामायुधानां तथैव च ।
नीराजनोक्तमन्त्रैस्तु सर्वांस्तानभिमन्त्रयेत् ॥
मन्त्रा यथा—
राम उवाच ।
छत्राश्वकेतुकरिणां पताकाखङ्गचर्मणाम् ।
तथा दुन्दुभिचापानां ब्रूहि मन्त्रं ममानघ ॥