वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 328, कुल 490 में से
संदर्भ में पढ़ें३३२ वीरमित्रोदयस्य राजनीतिप्रकाशे
इष्टानिष्टं समाचक्ष्व स्वप्ने सुप्तस्य शाश्वतम् ॥
यज्जाग्रतो दूरमिति मन्त्रमावर्तयेत्ततः ।
हृदि न्यस्य कुशान् राज्ञः प्रयतस्तु पुरोहितः ॥
ततः स्वपेच्छुभे दृष्टे यात्रा देया तु नान्यथा ।
तृतीयेऽहनि सम्प्राप्ते देवं दिङ्नाथमर्चयेत् ॥
एकमेव महाभाग दिङ्नाथं च तथा ग्रहम् ।
यां दिशं नृपतिर्गच्छेन्नाथस्तस्यास्तथैव तम् ॥
चतुर्थेऽहनि सम्प्राप्ते ग्रहयागो विधीयते ।
पञ्चमेऽहनि सम्प्राप्ते सर्वयागस्तथैव च ॥
देवतानां स्वनगरे कृता यासां तथालयाः ।
तासां सम्पूजनं कार्यं स्वपुरे या व्यवस्थिताः ॥
तत्रैव रात्रौ भूतानां कर्त्तव्यं च तथार्चनम् ।
देववृक्षेषु चैत्येषु गोपुराट्टालकेषु च ॥
चतुष्पथेषु रथ्यासु पर्वतानां गुहासु च ।
नदीतीरेषु रम्येषु देवतायतनेषु च ॥
तेषां सम्पूजनं कृत्वा स्वगृहे तान् समर्च्चयेत् ।
तत्र कृत्वा तथैवार्च्याः प्रमथा भूभुजा स्वयम् ॥
वासुदेवस्य देवस्य तथा सङ्कर्षणस्य च ।
प्रद्युम्नस्यानिरुद्धस्य ब्रह्मणः शङ्करस्य च ॥
कीनाशशक्रवरुणधनेशानां तु ये गणाः ।
वायोश्च निर्ऋतेर्वह्नेस्तथा चन्द्रार्कयोश्च ये ॥
ग्रहाणामथ ऋक्षाणां स्कन्दस्य धनदस्य च ।
महाबला महाकाया महासत्त्वा महाव्रताः ॥
अणिमा महिमा चैव गरिमा लघिमा तथा ।
ईशित्वेन वशित्वेन प्राप्तिनाम्ना तथा च ये ॥