सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 84, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 84

८२ वीरमित्रोदयस्य राजनीतिप्रकाशे
अथ विष्णुधर्मोत्तर एवैतदभिषेकमन्त्रप्रतिपाद्यदेवताती-
र्थादीनां कीर्त्तननमस्कारादौ फलविशेष उक्तः ।
पुष्कर उवाच ।
मन्त्रा ये कीर्त्तिता राम मयाऽस्मिंस्तव भार्गव ।
तेषां सङ्कीर्त्तनं धन्यं सर्वपापप्रणाशनम् ॥
एतेषां कल्यमुत्थाय यः कुर्यात्कीर्त्तनं नरः ।
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥
तिर्यग्योनिं न गच्छेत नरकं सङ्कटानि च ।
न च दुःखं न च सुखं मरणे न तु मुह्यति ॥
एतेषां च नमस्कारं यः कुर्यात्प्रयतो नरः ।
न तस्य तिष्ठते पापमम्बुबिन्दुरिव पुष्करे ॥
एतेषां तर्पणं कृत्वा स्नातः प्रयतमानसः ।
महापातकयुक्तोऽपि त्वचेवाहिर्विमुच्यते ॥
एतेषां पुष्पदानेन महतीं श्रियमश्नुते ।
एतेषामर्घ्यदानेन सर्वपापैर्विमुच्यते ॥
एतेषां दीपदानेन भ्राजते चन्द्रवद्दिवि ।
एतेषामाहुतिं दत्त्वा कामानाप्नोति पुष्कलान् ॥
नैवेद्यं च बलिं दत्त्वा भोगानाप्नोत्यनुत्तमान् ।
एतानुद्दिश्य विप्रेषु दत्त्वा भार्गव भोजनम् ॥
सन्तर्प्य दक्षिणाभिश्च त्रिदिवं प्राप्नुयाच्चिरम् ।
अभिषेकादिने राज्ञां पुण्यस्नाने तथैव च ॥
तथा सम्वत्सरग्रन्थौ सर्वे पूज्या हितैषिणा ।
यानि तीर्थानि चोक्तानि सारतश्च समासतः ॥
तेषां गमेन पूयन्ते येऽपि पातकिनो जनाः ।