सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 48, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 48

४६ वीरमित्रोदयस्य राजनीतिप्रकाशे
छत्रायुधानि सम्पूज्य गणमुख्यांस्तुरङ्गमान् ॥
आरुह्यालङ्कृतं नागं विसृजन् धनसञ्चयम् ।
प्रदक्षिणीकृत्य पुरं प्रविश्य च पुरं गृहम् ॥
समस्तान् पौरमुख्यांश्च कृत्वा पूजां विसर्जयेत् ।
गतेषु तेषु च धनैस्तर्पयेद्भटनर्त्तकान् ॥
ब्राह्मणान् भोजयेत्सर्वान् दीनानाथांश्च बान्धवान् ।
ततो महाजनैः सार्द्धं पूर्वराजक्रमादिभिः ॥
आहारं कुरुते राजा राजभृत्यान् विसृज्य च ।
आचम्य ताम्बूलमुखो विहरेत ततः क्षणम् ॥
ततः कतिपयैः सार्द्धमन्तःपुरनिवासिभिः ।
रक्षेत्सपवादात्मानं भूयो भुङ्क्ते यथासुखम् ॥ इति ।
श्रीरामायणेऽपि सम्भारसम्पादनपूर्वकमभिषेक उक्तः—
शनैस्तस्मिन् प्रशान्ते तु जनघोषे नराधिपः ।
प्रणम्य गुरुमासीनमित्युवाच पुरोहितम् ॥
अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ।
तदस्य भगवन् सर्वमाज्ञापयितुमर्हसि ॥
तच्छ्रुत्वा भूमिपालस्य वासिष्ठो द्विजसत्तमः ।
आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ॥
युक्तान् नियोगिपुरुषान् ।
सुवर्णादीनि रत्नानि मणीन् सर्वौषधीरपि ।
शुक्लं च माल्यं लाजांश्च पृथक्च मधुसर्पिषी ॥
अहतानि च वासांसि रथं सर्वायुधानि च ।
सितवर्णं च तुरगं गजं च शुभलक्षणम् ॥
चामरव्यजने चोभे ध्वजं छत्रं च पाण्डुरम् ।
शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ॥