सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 47, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 47

ब्रह्मपुराणोक्तराजाभिषेकः । ४५
सर्वौषधैः सर्वबीजैर्गन्धैरन्नैश्च सर्वदा ।
सर्वपुष्पैः सर्वफलैः स्नाप्यो रोचनया तथा ॥
अथ भद्रासनगतः सर्वतोयैः शुभाम्बरैः ।
यथाशक्त्या समानीतैः पुरस्कृत्य पुरोहितैः ।
नृपतिस्त्वभिषेक्तव्यो दैवज्ञवचनान्नरैः ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रमुख्यैस्तथैव च ।
पतिव्रताभिर्नारीभिः पुत्रिणीभिश्च पुत्रवत् ॥
ततः स्नातो विलिप्ताङ्गः कृतदेवाग्नितर्पणः ।
आबद्धमुकुटः स्रग्वी बद्धपट्टो विभूषितः ॥
मङ्गलानां शतं पश्येत्पुण्यमष्टोत्तरं शतम् ।
शान्त्यै प्राधानिके स्थाने सर्वमेतद्यथाक्रमम् ॥
कृत्वा शेषं ततो हुत्वा दद्यात्पूर्णाहुतिं ततः ।
अभिषिक्तस्ततो राजा साम्राज्यादौ विनायकम् ॥
ततः क्रमेण देवांश्च ब्रह्मविष्णुमहेश्वरान् ।
ग्रहान्नीलं च नागेन्द्रमग्निं विप्रान् पुरोहितम् ॥
देवान् पितॄन् समुद्दिश्य दद्याद्विप्रेषु दक्षिणाम् ।
अभयं सर्वभूतेषु सम्यक्तत्र ददाति च ॥
आघातस्थानगान् सर्वान् पशूनपि विमोचयन् ।
आघातस्थानं हननस्थानम् ।
बन्धनस्थानसंस्थांश्च प्रमोचयति शास्त्रवत् ।
गोब्राह्मणादिहन्तॄंश्च पापिष्ठान् दारुणानपि ॥
जहाति हस्तिहन्तॄंश्च क्रूरांश्चापि सुशिक्षितान् ।
व्याघ्रचर्मोत्तरे रम्ये तथा सिंहासने शुभे ॥
उपवेश्यो भवेद्राजा स्वयमेव पुरोधसा ।
सिंहासनस्थः सम्पश्येत्प्रकृतीश्च समासतः ।

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष) · पृष्ठ 47, कुल 490 में से · SarvaKosh