सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 49, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 49

रामायणोक्तराजाभिषेकः । ४७
०ण्यशृङ्गं वृषभं समग्रं व्याघ्रचर्म च ।
यच्चान्यत्किञ्चिदेष्टव्यं यच्च किञ्चिन्मनोऽनुगम् ॥
उपास्थापयत प्रातरग्न्यगारे महीपतेः ।
अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ॥
चन्दनैः स्रग्भिरर्च्यन्तां सुमनोदामभिस्तथा ।
प्रशस्तवस्तु गुणवद्दधिक्षीरोपसेचनम् ॥
द्विजानां शतसाहस्रं यत्प्रकाममलं भवेत् ।
सिद्धमन्नाद्य सम्भारं प्रत्यूषस्येव कल्प्यताम् ॥
सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ।
ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ॥
आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ।
सर्वे च नागराश्चैव गणिकाश्च स्वलङ्कृताः ॥
कक्ष्यां द्वितीयामासाद्य तिष्ठेयुर्नृपवेश्मनि ।
कक्ष्यां प्रकोष्ठम् ।
देवायतनचैत्येषु जलभक्ष्याः सदक्षिणाः ॥
उपस्थापयितव्याश्च माल्ययोगाः पृथक्पृथक् ।
बद्धदीर्घासयो योधाः सन्नद्धा धृष्टवाससः ॥
महाराजस्य भवनं प्रविशन्तु महोदयम् ।
एवमाज्ञाप्य तत्सर्वं कृतमित्यभ्यवेदयत् ॥
सुप्रीतमनसे राज्ञे वसिष्ठो हर्षयन् पुनः ।
तथा,
आभिषेचनिकं द्रव्यं सर्वमेवोपकल्पितम् ।
गङ्गायमुनयोश्चैव सङ्गमादाहृतं जलम् ॥
१ तत्सर्वमुपकल्प्यताम्-इत्यपि पाठः