सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 44, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 44

४२ वीरमित्रोदयस्य राजनीतिप्रकाशे
भीष्म उवाच ।
राज्यं तावत्पूर्वमेव यथा त्यक्तं नराधिपाः ।
अपत्यहेतोरपि च करिष्येऽप्यविनिश्चयम् ॥
अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति । इति ।
सति पुत्रे स राज्याधिकारी स्यादतो ब्रह्मचर्यमङ्गी-
कृतं भीष्मेण । असत्यौरसे पुत्रे तत्सन्ततौ च क्षेत्रजादीनां
क्षत्रियाजातानामुदाहृतकालीपुराणवचनेनोक्त एवाभिषेकः । ते-
षामपि मातृसमानजातीयत्वेन व्यासोत्पन्नपाण्डोरिव “राजा-
नमभिषेचयेत्” इति विधिप्राप्तेः । तेष्वपि केषां चिन्नाधिकार
इत्युक्तम्—
तत्रैव,
पौनर्भवं स्वयंदत्तं दासं राज्ये न योजयेत् । इति ।
गौणस्यापि पुत्रस्याभावे भ्रात्रादीनामधिकारस्य दायक्र-
मलभ्यत्वात्तत्क्रमविचारो नेह विविच्यते ।
इति राज्याधिकारिनिर्णयः ।
अथाभिषेकः ।
तत्र आथर्वणगोपथब्राह्मणे, अथ राज्ञोऽभिषेकविधिं
व्याख्यास्यामो बिल्वप्रभृतीन् सम्भारान् सम्भृत्य षोडश क-
लशान् षोडश बिल्वानि वल्मीकस्य च मृत्तिकां सर्वान्नं सर्वर-
सान् सर्वबीजानि । तत्र चत्वारः सौवर्णाश्चत्वारो राजताश्च-
त्वारस्ताम्राश्चत्वारो मृन्मयाः । तान् हृदे सरसि वोर्ध्वस्रुतो नामै-
नाम इत्युदकेन पूरयित्वा वेदिपृष्ठे संस्थाप्य कुम्भेषु बिल्वमेकैकं
दद्यात् । सर्वान्नं सर्वरसान् सर्वबीजानि च प्रक्षिप्याभयैरपरा-
जितैरायुष्यैः स्वस्त्ययनैः सौवर्णेषु सम्पातान्, संस्राव्यैः संसि-
क्तीयैश्च राजतेषु, भैषज्यैरैहोमुचैस्ताम्रेषु, संवेशसंवर्गाभ्यां शा-