वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 45, कुल 490 में से
संदर्भ में पढ़ेंआथर्वण-ब्रह्मपुराणोक्तराजाभिषेकः । ४३
न्तातीयैः प्राणसूक्तेन च मृन्मयेषु । ततस्तान् कलशान् गृहीत्वा
स्तोत्रियैः पवित्रियै राजानमभिषिञ्चेत् । भूमिमिन्द्रियं च वर्द्धयित्वा
क्षत्रियं म इति सिंहासनमारूढमभिमन्त्रयेत् । एवमभिषिक्तस्तु
रसान् प्राश्नीयाद्विप्रेभ्यश्च दद्याद्गोसहस्रं सदस्येभ्यः, कर्त्रे ग्राम-
वरं, विपुलं यशः प्राप्नोति भुङ्क्ते धरां जितशत्रुः सदा भवेदिति ।
अन्नं यदुप्तं न प्ररोहति । बीजं प्ररोहार्हं व्रीह्यादि । ऊर्ध्व-
स्तुत ऊर्ध्वमुखान् । नामेत्यादयो मन्त्राः । तत्र कपिञ्जलाधिकर-
णन्यायेन बहुवचनेन त्रयाणां त्रयाणामुपादानम् । संवेशसंवर्ग-
प्राणसूक्तेष्वेकैकस्य । भूम्यादिर्मन्त्रः ।
ब्रह्मपुराणेऽपि,
नगरं तत्र कर्तव्यं पताकाध्वजसङ्कुलम् ।
नीरजस्कास्तथा कार्या राजमार्गाः शुभैर्जलैः ॥
पौरैः स्नातैः सुवस्त्रैश्च भाव्यं मङ्गलपाणिभिः ।
गन्तव्यं वारमुख्याभिस्तथा राजनिवेशनम् ॥
पौरमुख्यैस्तथा बाह्यैर्गणमुख्यैस्तथैव च ।
शोभनीयं च नगरं सविलासैश्च नर्तकैः ॥
स्नानकाले च कर्तव्यो महाकोलाहलस्तथा ।
वादित्रशङ्खपुण्याहैः सूतमागधवन्दिभिः ॥
सामन्तैर्मन्त्रिभिर्भाव्यं छत्रचामरपाणिभिः ।
आदौ कृत्वा महाशान्तिं पुण्यां वैनायिकीं शुभाम् ॥
ग्रहशान्तिं तथा श्रेष्ठां तृतीयामाहुतिं तथा ।
पुरोधाः सोपवासश्च श्रुतिस्मृतिसमन्वितः ॥
त्रयोदश महामन्त्रान् तर्पयेज्जातवेदसि ।
गणं चैवाप्रतिरथं सत्याधर्मगणौ तथा ॥
१ पू०मी० अ० ११ । पा० १ । अधि० ८ ।