सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 291, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 291

उपायेषु दण्डः । २९५
अशीत्यधिकसहस्रसङ्ख्याकाः पणा उत्तमसाहसाख्यो दण्डः,
चत्वारिंशदधिकपञ्चशतसङ्ख्यपणात्मको मध्यमसाहसाख्यः, सप्त-
त्यधिकशतद्वयसङ्ख्याकपणात्मकोऽधमसाहसाख्यः । स एव च
शास्त्रान्तरे प्रथमसाहसाख्य इत्युच्यते । यत्तूक्तम्—
मनुना,
पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥
इति, तदल्पापराधविषयम् ।
धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा ।
योज्या व्यस्ताः समस्ता वाप्यपराधवशादिमे ॥
धिग्दण्डो, धिक्त्वां कापुरुषमित्यादिः । वाग्दण्डः, सर्वस्वं
ते हरामि, त्वां देशान्निर्वासयामीति परुषभाषणम् ।
ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा ।
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥
क्वचिद्देशे स्वल्पेनैव शीतेनाऽऽतपेन वा स्वल्पकालेन भोजन-
निवारणेनाधिका पीडा भवति, क्वचिच्च महतापि न तावती । तथा
काले शरदादौ, तथा दण्डनीयबलं विदित्वा ताडनादिदण्डो वि-
धेयः । तथा वयःकर्मवित्तानि । वयः, अशीत्यादि वार्द्धकं, प्रागुप-
नयनादि शैशवं च । कर्माग्निहोत्रादि । वित्तं प्रसिद्धम् । क्वचि-
त्क्वचिद्वाचनिका एव दण्डविशेषा उक्ताः—
विष्णुधर्मोत्तरे,
उत्साहमन्त्रशक्तिभ्यां प्रभुशक्तिश्च दैविकी ।
चतस्रः शक्तयस्तस्य वैष्णव्यः परिकीर्त्तिताः ॥
कः समर्थः प्रजाः पातुं विना वैष्णवतेजसा ।
सर्वदेवमयस्यैवं वारुणे पृथिवीपतेः ॥