वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 290, कुल 490 में से
संदर्भ में पढ़ें२९४ वीरमित्रोदयस्य राजनीतिप्रकाशे
शारीरदण्डवच्चार्थदण्डोऽप्युत्तमसाहसादिभेदेनानेकधेति त-
दुपयोगिकृष्णलादिनिरूपणम् । तत्र—
याज्ञवल्क्यः,
जालसूर्य्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ।
तेऽष्टौ लिक्षास्तु तास्तिस्रो राजसर्षप उच्यते ॥
गवाक्षप्रविष्टादित्यकिरणेषु यत्सूक्ष्मं वैशेषिकोक्तरीत्या द्य-
णुकत्रयारब्धं रजो दृश्यते तत् त्रसरेणुरिति मन्वादिभिः स्मृतम् ।
गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः ।
कृष्णलः पञ्च ते माषास्ते सुवर्णस्तु षोडश ॥
पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्त्तितम् । इति ।
इदं तु कनकपरिमाणम् । रजतपरिमाणमपि—
तेनैवोक्तम् ,
द्वे कृष्णले रौप्यमाषो धरणं षोडशैव ते ।
शतमानं तु दशभिर्धरणैः पलमेव तु ॥
निष्कं सुवर्णाश्चत्वारः-इति ।
कृष्णलद्वयपरिमितो रौप्यस्य माषो भवति। ते षोडश माषा
रौप्यस्य धरणम् । दशभिर्धरणैः शतमानसंज्ञकं रौप्यस्य परि-
माणम्, तदेव च पलम् । चत्वारः सुवर्णा रौप्यस्य निष्कः ।
ताम्रपरिमाणमपि —
तेनैवोक्तम् ,
कार्षिकस्ताम्रिकः पणः । इति ।
सुवर्णपलस्य चतुर्थोऽंशः कर्षः तेन सम्मितः कार्षिकः स
ताम्रिकः पणो भवति । ताम्रस्यायं ताम्रिकः ।
साशीतिः पणसाहस्रो दण्ड उत्तमसाहसः ।
तदधं मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः ॥