वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 181, कुल 490 में से
संदर्भ में पढ़ेंराज्ञोऽमात्यान्तराणि । १८५
स्थापना, आयुधयन्त्रावरणानामुचितदेशनिवेशः । जात-
यः, आयुधानामवान्तरभेदाः ।
कर्माण्यपरिमेयानि राज्ञो भृगुकुलोद्वह ।
उत्तमाधममध्यानि बुद्ध्वा कर्माणि पार्थिवः ॥
उत्तमाधममध्येषु पुरुषेषु नियोजयेत् ।
नरकर्मविपर्यासाद्राजा नाशमवाप्नुयात् ॥
नरकर्मविपर्यासात्, उत्तमे कर्मण्यधमस्य अधमे कर्मण्युत्त-
मस्य नियोजनात् ।
नियोगं पौरुषं भक्तिं श्रुतं शौर्यं कुलं नयम् ।
ज्ञात्वा वृत्तिर्विधातव्या पुरुषाणं महीक्षिता ॥ इति ।
शङ्खलिखितौ,
न गृध्नुपरिवारः स्यात्कामं गृध्नो राजा प्रेयान्न हंसपरि-
वारो न हंसो गृध्नुपरिवारः परिवाराद्धि दोषाः प्रादुर्भवन्ति
तेऽलं विनाशाय तस्मात्पूर्वमेव तत्परिवारं लिखेत् श्रुतशीला-
न्वयोपपन्नम् । इति ।
मनुः,
अन्यानपि प्रकुर्वीत शुचीन् प्राज्ञानवस्थितान् ।
आप्तानर्थसमाहर्तॄनमात्यान् सुपरीक्षितान् ॥
निवर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः ।
तावतोऽतन्द्रितान्दक्षान् प्रकुर्वीत विचक्षणान् ॥ इति ।
शङ्खलिखितौ,
सर्वेषां राजकुलरक्षणं कोशपरिपालनं गोब्राह्मणपरित्राणं
साम्परायिकं क्रियासाधारणत्वादनुजीविनां विशेषेण चारप्रति-
चारौ मन्त्रप्रणिधयश्च सर्पाः तत्प्रयोजनत्वात्प्रत्यक्षा वृत्तिस्तस्य
२४