विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 89, कुल 168 में से
संदर्भ में पढ़ें७६ विक्रमोर्व्वशीये
परिजन — १जं देवी आणवेदि। अज्ज माणवअ, एदं उस्वा-
दिदं सोत्थिवाअणअं।
विदूषक — (मोदकशरावं गृहीत्वा।) २सोत्थि भोदीए। बहुप्फ-
एदं वदं होदु।
चेटी — ३अज्ज कञ्चुइ, इदं तुम्ह।
कञ्चुकी — (गृहीत्वा।) स्वस्ति देव्यै।
देवी — ४अज्जउत्त, इदो दाव।
राजा — अयमस्मि।
देवी — (राज्ञ पूजाभभिनीय प्राञ्जलि प्रणम्य च।) ५एसा देवदामिहुणं
रोहिणीमिलन्लच्छणं सक्सीरिअ अज्जउत्तं अणुप्पसादेमि। अज्ज
प्पहुदि अज्जउत्तो जं इत्थिअं कामेदि, जा अज्जउत्तसङ्गमप्पणइणा,
ताए सह अप्पदिबन्धेण वत्तिव्वम्।
उर्वशी — ६अम्महे, ण आणामि रिंपरं से वअणम्। मम उण
निस्सासविसदं हिअअं सत्तवुत्तम्।
१ यद्देव्याज्ञापयति। आर्य माणवक, एतदुपपादितं स्वस्तिवाचनकम्।
२ स्वस्ति भवत्यै। बहुफलमेतद्व्रतं भवतु।
३ आर्य कञ्चुकिन् इदं ते।
४ आर्यपुत्र, इतस्तावत्।
५ एषा देवदाम्पत्यं रोहिणीमृगलाञ्छनं साक्षीकृत्य आर्यपुत्रमनुप्रसाद-
यामि। अद्यप्रभृति आर्यपुत्रो यां स्त्रियं कामयते, या आर्यपुत्रसङ्गम-
प्रार्थिनी तया मयाप्रतिबन्धेन वर्त्तितव्यम्।
६ अहो आश्चर्यं, न जाने किंपरं से वचनम्। मम पुनर्विश्वासविशदं
हृदयं प्रवृत्तम्।
दम्पत्यं प्रणम्य च परिजन । १ यद्देव्यज्ञापयति। आर्य माणवक, एतदुपपा-
दितं स्वस्तिवाचनकम् विदूषक । स्वस्ति भवत्यै । बहुफलमेतद्व्रतं भवतु ॥
चेटी । आर्य कञ्चुकिन् इदं ते ॥ कञ्चुकी । स्वस्ति देव्यै ॥ देवी । आर्यपुत्र इतस्तावत् ॥ देवी । एषा
देवदाम्पत्यं रोहिणीमृगलाञ्छनं साक्षीकृत्य आर्यपुत्रमनुप्रसादयामि। अद्यप्रभृति
आर्यपुत्रो यां स्त्रियं कामयते या च आर्यपुत्रसङ्गमप्रार्थिनी तया मयाप्रतिबन्धेन
वर्त्तितव्यम् । उर्वशी । अम्महे आश्चर्यं। न जाने किंपरमस्या वचनम्। मम