सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 84, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 84

तृतीयोग्ङ्कः । ७१
विदूषकः — आम । भो, अहंपि जदा सिद्घरिणी रसाल अ
ण लद्धे तदा तं एव्व चिंतयन्तो आसादेमि मुहम् ।
राजा—संपद्यत इदं भवत ।
विदूषकः —तुवं पि तं अइरेण पाविहिसि ।
राजा—सखे, एव मन्ये ।
चित्रलेखा—सुणु असंतुट्टे ।
विदूषकः —कँह विअ ।
राजा—
इदं तया रथक्षोभादङ्गेनाङ्गं निपीडितम् ।
एकं धृति शरीरेऽस्मिञ्शेषमङ्गं मुधो भर ॥ ११ ॥
उर्वशी—किं दाणीं अवरं विलम्बिस्सम् । (सहसोपगम्य।) हला
चित्तलेहे, अग्गदो वि गए दिट्ठीए उदासीणो महाराओ ।
१ आम । भो, अहमपि यदा शिखरिणीं रसालं च न लभे तदा तदेव
चिन्तयन्नासादयामि सुखम् ।
२ त्वमपि तामचिरेण प्राप्स्यसि ।
३ शृणु असन्तुष्टे ।
४ कथमिव ।
५ किमिदानीमपरं विलम्बिष्ये । सखि चित्रलेखे, अग्रतोऽपि मम
स्थिताया उदासीनो महाराजः ।
त्तं रथं वल ल्लोपलब्धम् । इत इत्यस्मिन् राजनि । शंङ्का त निर्दिशम् ॥ विदू
षकः । भयेत्यानुगृह्य स्मरसे वा । भो अहमपि यदा शिखरिणीम् । एला
त्वक्कर्पूरादिमरिचमिश्रितं दुग्धेन सह याचितं सितासंगतं दधि शिखरिणी
त्युच्यते । दध्युत्तरेणपूर्वोक्तद्रव्यमिश्रितं पक्वकदलीफलान्तं क्षीरोऽपि लप्स्य
साध्यं । रसालं च न लभे । रसाल्माम्रविशेषरसम् । तदा तदेव चिन्तयन्नासा
दयामि सुखम् ॥ विदूषकः । त्वमपि तामचिरेण प्राप्स्यसि ॥ चित्रलेखा ।
शृणु असंतुष्ट ॥ विदूषकः । कथमिव ॥ इदं तयेति । रथस्य क्षोभादुच्चनीच
प्रदेशादापातात् । एकमेवाङ्गमस्मिञ्छरीरे धृति कुतूहलम् ॥ ११ ॥ उर्वशी । किमि
दानीमपरं विलम्बिष्ये । सखि चित्रलेखे अग्रतोऽपि मम स्थिताया उदासीनो