विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 27, कुल 168 में से
संदर्भ में पढ़ें२२ विक्रमोर्वशीये
चित्ररथ —वयस्य, केशिना हृतामुर्वशीं नारदादुपश्रुत्य प्रत्या-
हरणार्थमस्या शतक्रतुना गन्धर्वसेना समादिष्टा । ततो वयम-
न्तरा चारणेभ्यस्त्वदीयं जयोदाहरणं श्रुत्वा स्वामिहत्समुपागताः ।
स भवानेनां पुरस्कृत्य सदासाभिर्मघवन्तं द्रष्टुमर्हति । महत्तत्खलु
तत्रभवतो मघोनः प्रियमनुष्ठितं भवता । पश्य ।
पुरा नारायणेनेयमतिसृष्टा महर्षये ।
दैत्यहस्तादपाच्छिद्य सुहृदा संप्रति त्वया ॥ १६ ॥
राजा—मा मैवम् ।
ननु वज्रिण एव वीर्यमेत-
द्विजयन्ते द्विषतो यदस्य पक्षाः ।
वसुधाधरकन्दराभिसर्पी
प्रतिशब्दो हि हरेर्हिनस्ति नागान् ॥ १७ ॥
चित्ररथः—युक्तमेतत् । अनुत्सेकः खलु विक्रमालङ्कारः ।
राजा—सखे, नायमवसरो मम शतक्रतुं द्रष्टुम् । अतस्त्व-
मेवैनां तत्रभवते प्रभवे प्रापय ।
चित्ररथः —यथा भवन्मन्यते । इत इतो भवत्यः ।
(सर्वाः प्रस्थिताः)
केशिनेत्यादिना 'वयस्य' केशिना दैत्येनापहृतामुर्वशीं नारदमुनिमुखादुपश्रुत्य ज्ञात्वा शतक्रतुना तदानयनार्थं
गन्धर्वसेना समादिष्टा प्रेषिता । ततो वयमन्तरा मध्ये चारणेभ्यः स्तुतिपाठकेभ्यस्तव विजयवार्तां श्रुत्वा
त्वां साक्षात्कर्त्तुमिहोपस्थिताः । स भवांस्तां पुरोधाय सर्व्वाभिरस्माभिः सह तत्रभवन्तं मघवन्तं
द्रष्टुमर्हति । यद् युष्माभिरिदं मघोनः प्रियं साधितम् । पुरा नारायणेनेति । नारायणेनायं वध्वाव-
तारः पुरा सृष्टः सन् महर्षये दत्ताऽभवत् । सा त्वया पुनर्दैत्येभ्य आच्छिद्य सुहृदर्थं प्रापितेति ॥
१६ ॥ मा मैवम् । ननु वज्रिण एवेति । अस्माकं जयस्तु मघोन एव वीर्यप्रभावः । यतो हि
सिंहरवस्य प्रतिध्वनिरेव पर्वतकन्दरान्तरं प्रविष्टो गजान् हन्तीति ॥ १७ ॥ सखे नायमित्यादिना