विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 26, कुल 168 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । २१
राजा—भवत्यश्च सखीसमागमेन ।
उर्वशी—(चित्रलेखादत्तहस्तावलम्बा रथादवतीर्य ।) हला, अभिअं
परिसज्जह । ण क्खु मे आसी आसासो जधा पुणो वि सहीअणं
पेक्खिस्सं चि ।
(सह्य परिष्वजन्ते ।)
मेनका—(ससम्भ्रमं ।) सव्वहा कप्पसदं महाराओ पुढविं
पालयन्तो होदु ।
सूतः—आयुष्मन्, पूर्वस्यां दिशि महता रथवेगेनोपदर्शित
शब्द ।
अय च गगनात्कोऽपि तप्तचामीकराङ्गदः ।
अधिरोहति शैलाग्रं तडित्वानिव तोयदः ॥ १५ ॥
अप्सरसः—(पश्यन्त्यः ।) अह्मो, चित्तरहो ।
(ततः प्रविशति चित्ररथः ।)
चित्ररथः—(राजानं दृष्ट्वा सबहुमानम् ।) दिष्ट्या महेन्द्रोपकार-
पर्याप्तेन विक्रममहिम्ना वर्धते भवान् ।
राजा—अये गन्धर्वराजः । (रथादवतीर्य ।) स्वागतं प्रियसुहृदे ।
(परस्परं हस्तौ स्पृशतः ।)
१ सख्यः, अधिकं परिष्वजध्वम् । न खलु मे आसीदाशासो यथा
पुनरपि सखीजनं प्रेक्षिष्य इति ।
२ सर्वथा कल्पशतं महाराजः पृथिवीं पालयन्भवतु ।
३ अहो, चित्ररथः ।
भाग...
सख्यः अधिकं परिष्वजध्वम् । न खलु मे आसीदाशासो यथा पुनरपि सखीजनं
प्रेक्षिष्य इति ॥ मेनका । सर्वथा कल्पशतं महाराजः पृथिवीं पालयन्भवतु ॥
अयमिति । गगनात्कोऽपि । चामीकरं सुवर्णम् । चामीकरं जातरूपं महार-
जतकाञ्चनम् । इत्यमरः । तस्य चाङ्गदम् । अङ्गदं प्रकोष्ठगदाभरणम् । शैलाग्रं नगशृङ्गम्
करीन्द्रस्य । अवगाहति इति पाठे अवगाहीत्यर्थः । तडित्त्वासडियुक्तः । तोयदो
मेघः ॥ १५ ॥ अप्सरसः । अह्मो इति । तथा च सागरः — अज्जा अम्म
...