विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 164, कुल 168 में से
संदर्भ में पढ़ेंउत्तर-भागः
ऽ ऽ
पञ्चमोऽङ्कः। १००-२४ (रा... १४१
राजा—अत परमपि प्रियमस्ति । यदि भगवान्पाकशासन
प्रसाद करोतु । तत
(भरतवाक्यम् )
परस्परविरोधिन्योरेकाश्रयदुर्लभम् ।
संगत श्रीसरस्वत्योर्भूयादुद्भूतये सताम् ॥ २४ ॥
अपि च ।
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ।
सर्व कामानवाप्नोतु सर्व सर्वत्र नन्दतु ॥ २५ ॥
(इति निष्क्रान्ता सर्वे ।)
पञ्चमोऽङ्कः ।
समाप्तमिदं श्रीकालिदासकृत विक्रमोर्वशीय नाम त्रोटकम् ।
इन्द्र ॥ परस्परति । सेत्रय आश्रय । संगत मिलनम् । उद्भूतवे उत्कृष्टभूत्यै
॥ २४ ॥ सर्व इति । दुर्गाणि दुःखानि । भद्राणि कल्याणानि । सर्वोऽयं
शिव भद्र कल्याणम् इत्यमर । कामानभिलाषान् । 'कामोऽभिलाष'
इत्यमर । सर्वत्र सर्वस्मिन्स्थले सर्वस्मिन्काले च नन्दत्वानन्दं प्राप्नोतु ॥ २५ ॥
धीरित्र्यम्बकवद्यभूषणमणि धीताननद्यात्मज
धीमद्दीक्षितरङ्गनाथविबुधो धीरो धराधिश्रुतः ।
धीनारायणबालकृष्णकृतिनो ज्येठे तनूजा स्फुर
द्विद्वत्संरिकरीद्रकुम्भरणीधैवारिपञ्चाननौ ॥
सर्वतन्त्रस्वतन्त्रधीबालकृष्णतनूद्भवः ।
धीवेणीमाधवाद्यरङ्गनाथाभिधौ सुतौ ॥
व्योमकेशपुरभेदनवादी जानकीशपदपद्ममिलिन्दः ।
रङ्गनाथ इममाशु वितने प्रीतये रघूवरस्य निबन्धम् ॥
कृतेयं विक्रमोर्वश्या रङ्गनाथमनीषिणा ।
[L28: प्रकाशिका कायिकान्ति पत्तनेषु प्रकाशताम् ॥
प्रेक्षाविशेषमधनेन वितन्त्रदात्रा
भूत्वा परोपकृतये विबुधेश्वराणाम् ।
साहित्यसागरत एष समाचरंश्च
ग्रन्थं सुधाधिकरसं किल रङ्गनाथः ॥