सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 158, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 158

पञ्चमोऽङ्कः । १२७
राजा—(आकाशमवलोक्य ।) कुतो नु खलु भो विद्युत्संपातः ।
(निपुणमवलोक्य ।) अये, भगवान्नारदः ।
गोरोचनानिकषपिङ्गजटाकलापः
संलक्ष्यते शशिशकलमलीतसूत्रः ।
मुक्तागुणातिशयसंभृतमण्डनश्री-
र्हैमप्ररोह इव जङ्गमवल्पवृक्षः ॥ १९ ॥
अर्घोऽर्घस्तावत् ।
उर्वशी—अय्य भअवदो अग्घो ।
(ततः प्रविशति नारदः ।)
नारदः—विजयतां विजयतां मध्यमलोकपालः ।
राजा—भगवन्, अभिवादये ।
उर्वशी—भअव, पणमामि ।
नारदः—अविरहितौ दम्पती भूयास्तम् ।
राजा—(आत्मगतम् ।) अपि नामैवं स्यात् । (प्रकाशम् । कुमारं निर्दि-
श्य ।) वत्स, भगवन्तमभिवादयस्व ।
कुमारः—भगवन्, और्वशेय आयुः प्रणमति ।
नारदः—आयुष्मान्भव ।
१ अयं भगवतोऽर्घः ।
२ भगवन् प्रणमामि ।
न हेतुः सः २२ सङ्गाद्दर्विर्वृहन्नरामर्षे इत्यर्थः ॥ १८ ॥ संज्ञिरः ! विवक्षामूह
गोरोचनेति । गोरोचनाया निकषः कषपाषाणः सदृशस्तद्वत्पिङ्गो
पिङ्गो जटाकलापो जटासमूहो यस्य । शशिशकलं चन्द्रखण्डं मुक्तागुणानां माला-
मुक्तागुणामौक्तिकहाराणामतिशयेनात्यन्तं संभृतं कृतं मण्डनं भूषणं शोभा यस्य ।
तथा हैमप्ररोहः कनकप्रवालः स इव कल्पवृक्ष इव संलक्ष्यते दृश्यते जङ्गमः
प्ररोह इव संलक्ष्यते ॥ १९ ॥ उर्वशी । अय्य भअवदो अग्घो । आर्य पूजार्हस्य
षष्ठ्या इति विकल्पात् । मध्यमलोकस्य पृथिव्याः । पुत्रि एवं च सत्येवमस्तु
इतिविकल्पाद् रूपम् । उर्वशी । भगवन् प्रणमामि ॥ आयुष्मान् भव दीर्घायुर्भव ॥