विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 156, कुल 168 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । ११५
राजा—(सनिःश्वासं ।) अहो, सुखप्रत्यर्थिता दैवस्य ।
आश्वासितस्य मम नाम सुतोपलब्ध्या
सद्यस्त्वया सह कृशोदरि विप्रयोगः ।
व्यावर्तितातपरजः प्रथमाभ्रवृष्ट्या
वृक्षस्य वैद्युत इवानलपण्डितोऽयम् ॥ १६ ॥
विदूषकः—अधं सो भत्थो अणत्थाणुबन्धीत्ति तक्केमि तत्तभ-
वदा वकलं गेण्हिअ तवोवणं गन्तव्वं ति ।
उर्वशी—हा हदम्हि मन्दभाआ। मयि किदविणअस्स पुत्त-
अस्स रम्भाणन्तरं सम्गारोहणेण अवसिदकज्जो विप्पओअमुही
महाराओ समाथस्सदि ।
राजा—सुन्दरि, मा मैवम् ।
नहि सुलभवियोगा कर्तुमात्मप्रियाणि
प्रभवति परवशः प्राक्ते तिष्ठ भर्त्तु ।
१ अथ सोऽर्थोऽनर्थानुबन्धीति तर्कयामि तत्रभवता वल्कलं गृहीत्वा
तपोवनं गन्तव्यमिति ।
२ हा हतास्मि मन्दभाग्या । मयि कृतविनयस्य पुत्रस्य रम्भानन्तरं
स्वर्गारोहणेनावसितकार्यं वियोगमुखी महाराजं समर्थयिष्यति ।
सुखविरोधिता । प्रतिरोधितारको मय्यवस्थितिवत् इति टिप्पणी ॥
आश्वासितस्येति । सुतोपलब्ध्या पुत्रप्राप्त्या । नामेति प्रकाशे । नाम प्राक्-
दर्शेनाभ्यस्तेष्वैषम्यमुखेष्विति टिप्पणी । आश्वासितस्य कृतसमाश्वासस्य ।
विप्रयोगो वियोगः । व्यावर्तिता दूरीकृता आतपरजोभ्यां सा यस्य । अन्धो
रश्मिमात्रे साम्प्रतेऽपि च हन्यते इति घटा । भासस्त्विषा इत्युक्त-
त्वात् । प्रथमाभ्रवृष्ट्या नूतनमेघवर्षेण । अयं मेधो बरिवाह इत्यमरः । वैद्युतो
विद्युत्संबन्धी ॥ १६ ॥ विदूषकः । अथ सोऽर्थोऽनर्थानुबन्धीति तर्कयामि
तत्रभवता वल्कलं गृहीत्वा तपोवनं गन्तव्यमिति । असमयप्रविष्टस्य तस्य
दुश्चेष्टितस्येत्यपि द्रष्टव्यम् ॥ उर्वशी । हा हतास्मि मन्दभाग्या । मयि
कृतविनयस्य पुत्रस्य रम्भानन्तरं स्वर्गारोहणेनावसितकार्यो वियोगमुखं
महाराजः समर्थयिष्यति ॥ नहीति । दुःखं मुक्त्वा वियोगेन यतः सोऽपराधी