विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 154, कुल 168 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । १३३
(उर्वशी स्मृत्वा रोदिति ।)
विदूषकः-किं णु खलु संपदं अण्णोदी अस्सुमुही संवृत्ता ।
राजा-(साश्रवम् ।)
किं सुन्दरि प्ररुदितासि ममोपनीते
यशस्वितेरधिगमात्स्फुरति प्रमोदे ।
पीनस्तनोपरिणिपातिभिरर्पयन्ती
मुक्तावलीविरचनां पुनरश्रुकंसैः ॥ १५ ॥
उर्वशी-सुणादु महाराओ । पढमं उण पुत्तदंसनसमुत्थिदेण
आणन्देण विसुमरिदम्हि । दाणीं महिन्दपेरिदत्तेण मम हिअए ठिदं
समएण ।
राजा-कथ्यतां समयः ।
उर्वशी-अह पुरा महाराजगहिदहिअआ गुरसावसंमूढा महि-
न्देण अवणीकदअ अब्भणुण्णादा ।
१ किं नु खलु साप्रतमप्रभवत्यश्रुमुखी संवृत्ता ।
२ शृणोतु महाराजः । प्रथमं पुनः पुत्रदर्शनसमुत्थितेनानन्देन विस्मृ-
तास्मि । इदानीं महेन्द्रप्रवर्त्तितेन मम हृदये स्थितं समयेन ।
३ अह पुरा महाराजगृहीतहृदया गुरुशापसंमूढा महेन्द्रेनावधी-
कृत्याभ्यनुज्ञाता ।
दाधी । जयंत इत्यनुषंग ॥ १४ ॥ विदूषक । किं नु खलु सांप्रतमप्रभव
त्यश्रुमुखी संवृत्ता । सांप्रतमित्यत्र एकपदे इति पाठः । एकपदे तत्क्षणे ।
तत्क्षणैकपदे तुल्ये क्षण मात्रे च सत्वरम्' इति हलायुधः ॥ किं सुन्दरीति ।
प्ररुदिता कृतरोदना । वंशस्य कुलस्य स्थितिरवस्थानं यस्मात्तादृशस्य सुत
स्याधिगमात्प्राप्तेः कुल प्रस्थानप्राप्तया । वंशो वेणौ कुले वर्गे पृष्ठस्यावयवा
न्तरेति । मात्राविवरदण्डापि वाप्यभाण्डान्तरेऽपि च ॥ इति धीरधसेनः ।
मर्यादायामवस्थाने स्थाने धीमनि च स्थितिः इति विश्वलोचनः । स्फुरति
प्रकाशमाने । प्रमोदे संतोषे । उपनीत इत्येव धवि । महति इति कचित्पाठः ।
महति उद्दामे । पुनरुक्तैरिति क्रियाविशेषणम् । विरचनम् इति पाठे तद्विशे
षणम् । अश्रुत्युभिः । अश्रमश्रु च (शोणितम्) इति त्रिकाण्डी ॥ १५ ॥ उ
र्वशी । शृणोतु महाराजः । प्रथमं पुनः पुत्रदर्शनसमुत्थितेनानन्देन विस्मृतास्मि ।
इदानीं महेन्द्रप्रकीर्तनेन मम हृदये स्थितं समयेन । समयेनावधि कालेव ।
समया शपथामारकालसिद्धान्तसंविद् इति त्रिकाण्डी ॥ उर्वशी ।