सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 153, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 153

१३२ विक्रमोर्वशीये
राजा—आर्ये, तत्रभवते च्यवनाय मम प्रणाममावेदविष्यसि ।
तापसी—ऐव्वं भोदु ।
कुमारः—आर्ये, सत्यमेव निवर्तनम् । इतो मामपि नेतुमर्हसि ।
राजा—अयि वत्स, उषितं त्वया पूर्वस्मिन्नाश्रमे । द्वितीयम-
ध्यासितुं तव समयः ।
तापसी—जाद, गुरुणो वअणं अणुचिट्ठ ।
कुमारः—तेन हि
यं सुप्तवान्मदङ्के शिखण्डकण्डूयनोपलब्धसुखम् ।
तं मे जातकलापं प्रेषय शितिकण्ठकं शिखिनम् ॥ १३ ॥
तापसी—ऐव्वं करेमि ।
उर्वशी—भअवदि, पादवन्दणं करेमि ।
राजा—भगवति, प्रणमामि ।
तापसी—सोत्थि भोदु तुम्हाणम् । (इति निष्क्रान्ता ।)
राजा—सुन्दरि,
अद्याहं पुत्रिणामग्र्यः सुपुत्रेण त्वयामुना ।
पौलोमीसम्भवेनेव जयन्तेन पुरंदरः ॥ १४ ॥
१ एवं भवतु ।
२ जातः, गुरोर्वचनमनुतिष्ठ ।
३ एवं करोमि ।
४ भगवति, पादवन्दनं करोमि ।
५ स्वस्ति भवतु युष्मभ्यम् ।
गार्ह्य । 'कामं विसृज्य प्रेष्यं विरहोत्कण्ठितासि न पुनर्नेमावरोधे वर्तितुम्'
इत्यपि कचित्पाठः ॥ तापसी । एवं भवतु ॥ उषितं स्थितम् । पूर्वेस्मिन्नाश्रमे
ब्रह्मचर्याश्रमे । द्वितीयो गार्हस्थ्याश्रमः ॥ तापसी । जात, गुरोर्वचनमनुतिष्ठ ।
यं सुप्तवानिति । गुप्तवानित्या चकार । यद्वा सुप्तः स्वापो विद्यतेऽस्येति तथा
तम् । जातकलापमुद्गतपिच्छभारम् । कलापः संहतौ बर्हे काष्यादावित्युभयदत्तो'
इति मुखरटी । शितिकण्ठकं नीलश्रीवं तन्नामानं वा ॥ १३ ॥ तापसी ।
एवं करोमि ॥ उर्वशी । भगवति, पादवन्दनं करोमि ॥ तापसी । स्वस्ति
भवतु युष्मभ्यम् ॥ अद्याहमिति । पुत्रिणां पुत्रवतामग्र्यः श्रेष्ठः पौलोमी