विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 151, कुल 168 में से
संदर्भ में पढ़ें१३० विक्रमोर्वशीये
कुमारः—(राज्ञिनम् ।) तात, वन्दे ।
विदूषकः—सोत्थि भवदो । वड्ढदु भवम् ।
(तत प्रविशत्युर्वशी कञ्चुकी च ।)
कञ्चुकी—इत इतो देवी ।
उर्वशी—(प्रविश्यावलोक्य च ।) को णु क्खु एसो कणअपीठोव
विट्ठो महाराएण सञ्चीयमाणसिहण्डो चिट्ठदि । (तापसीं दृष्ट्वा ।)
अम्महे, सञ्चवदीसहिदो पुत्तओ मे आऊ महन्तो क्खु संवृत्तो
राजा—(विलोक्य ।) वत्स,
इयं ते जननी प्राप्ता त्वदालोकनतत्परा ।
स्नेहप्रस्रवनिर्भिन्नमुद्वहन्ती स्तनांशुकम् ॥ १२ ॥
तापसी—जाद, एहि । पच्चुवगच्छ मादरम् ।
(इति कुमारेण सहोर्वशीमुपसर्पति ।)
उर्वशी—अज्जे, पादवन्दणं करेमि ।
१ स्वस्ति भवते । वर्धतां भगवान् ।
२ को नु खल्वेष कनकपीठोपविष्टो महाराजेन सज्यमानशिखण्ड
स्तिष्ठति । अहो, सत्यवतीसहित पुत्रको मे आयु महांखलु संवृत्तः ।
३ जात, एहि । प्रत्युद्गच्छ मातरम् ।
४ आर्ये, पादवन्दनं करोमि ।
वसिष्ठा शृतशिरमैत्रीक इत्यर्थः ॥ विदूषकः । स्वस्ति भवते । वर्धतां
भवान् । उर्वशी । को नु खल्वेष कनकपीठोपविष्टो महाराजेन सज्यमानशि
खण्डस्तिष्ठति । शिखण्डश्चूडा । 'शिखण्डे बर्हचूण्डयोः' इति मुक्तावली । अम्महे
आश्चर्यै । सत्यवतीसहितः पुत्रको मे आयु । महांखलु संवृत्तः ॥ इयमिति ।
आलोक्तनतत्परा विलोकनैवताना । स्नेहेन प्रेम्णा प्रस्रव क्षरणयः । येन क्लिन्नं
भिन्नं संसक्तम् । आर्दीभूतमिति यावत् । स्नेहप्रसर-'इति पाठे स्नेहस्य प्रसरो
रोमाञ्चस्वेदनादिद्वारा आधिक्यम् । 'प्रस्रव' इति पाठे स्तन्यपयः अर्थात्तवेदोलूम् ।
भिन्नं वाध्यपदलार्थे दारिते संसक्ते स्फुटे इति लोचन ॥ १२ ॥ तापसी । जात,
एहि प्रत्युपगच्छ मातरम् ॥ उर्वशी । आर्ये, पादवन्दनं करोमि ॥ तापसी ।