विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 150, कुल 168 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । १२९
राजा-वतस्तत ।
तापसी-तदो उवलद्धवुत्तन्तेण भयवदा चवणेण अह समा-
दिट्ठा णिव्वादेहि एदं उव्वसीहत्थे ण्हासं त्ति । ता उव्वसीं पेक्खिदु
इच्छामि ।
राजा-तेन ह्यासनमनुगृह्णातु भगवती ।
(शिष्योपनीतयोरासनयोरुपविष्टौ ।)
राजा-रतभ, आहूयतामुर्वशी ।
कञ्चुकी-यदाज्ञापयति देव । (इति निष्क्रात ।)
राजा-(कुमारमवलोक्य ।) एद्येहि वत्स ।
सर्वाङ्गीण स्पर्श सुतस्य किल तेन मामुपनतेन ।
आह्लादयस्व तावच्चन्द्रकरश्चन्द्रकान्तमिव ॥ ११ ॥
तापसी-जाद, णन्देहि पिदरम् ।
(कुमारो राजानमुपसर्पति ।)
राजा-(आलिङ्ग्य ।) वत्स, पितृसखं ब्राह्मणमशङ्कितो वन्दस्व ।
विदूषकः-'किं' ति सङ्किस्सदि । ण अस्समवासपरिचिदो एव्व
साहामिओ ।
१ तत उपलब्धवृत्तान्तेन भगवता च्यवनेनाहं समादिष्टा निर्वातयैनं
मुर्वशीहस्त न्यासमिति । तदुर्वशी प्रेक्षितुमिच्छामि ।
२ जात, नन्दय पितरम् ।
३ किमिति शङ्किष्यते । न वाऽऽश्रमवासपरिचित एव शाखामृग ।
दशशिखरे निपीयमानो स कीदृशो वाणस्य ॥ तापसी । तत उपल-वृत्तान्तेन
भगवता च्यवनेनाहं समादिष्टा निर्वातयैनमुर्वशीहस्ते न्यासमिति । निर्वातर्नं
न्यासप्रत्यर्पणम् । दाने न्यासार्पणे वैश्यद्रो निर्वातन मतम् इति मुक्तावली ।
न्यासो निक्षेप । तदुर्वशी प्रेक्षितुमिच्छामि ॥ सर्वाङ्गीण इति । किडे हिडिते ।
सर्वाङ्गीण सर्वाङ्गव्यापी । उपनतेन प्राप्तेन । तेन स्पर्शेन । 'उरगतेन इत्यपि
पाठस्तदर्थ एव ॥ ११ ॥ तापसी । जात नन्दय पितरम् ॥ विदूषक ।
किमिति शङ्किष्यते । नवाऽऽश्रमवासपरिचित एव शाखामृग । आश्रम एक्या