सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 148, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 148

पञ्चमोऽङ्कः। १२७
विदूषक — १न क्खु एसो खत्तिअकुमारो जस्स णामाङ्किदो
गिद्धवक्खवेही णराचो उदन्तो तत्तभवदो बहु अणुकरेदि ।
राजा—एवमेतत् ।
बाष्पायते निपतिता मम दृष्टिरस्मि-
न्वात्सल्यबन्धि हृदयं मनसः प्रसादः ।
संजातवेपथुगिरञ्चितधैर्यवृत्ति-
रिच्छामि चैनमदयं परिरब्धुमङ्के ॥ ९ ॥
कञ्चुकी—भगवति, एवं नीयताम् ।
(तापसीकुमारौ यथोचितं स्थितौ ।)
राजा—(दृष्ट्वा ।) भगवति, अभिवादये ।
तापसी—२महाराअ, सोमवंसं धारअन्तो होहि । (आत्मगतम् ।)
भो, अणाचक्खिदो वि विण्णादो एव्व एस्स राएसिणो आवसो
अ ओवसो संवन्धो । (प्रकटम् ।) जाद, पणम गुरुम् ।
(कुमारो बद्धाञ्जलिः प्रणमति ।)
राजा—वत्स, आयुष्मान्भव ।
कुमार —(स्वगतम् । सगतम् ।)
यदि हार्दमिदं श्रुत्वा पिता ममायं सुतोऽहमस्येति ।
उत्सङ्गे हृदयानां गुरुषु भवेत्कीदृशः स्नेहः ॥ १० ॥
१ ननु खल्वेष क्षत्रियकुमारो यस्य नामाङ्कितो गृध्रपक्षवेधी नाराच
उपदन्तस्तत्रभवतो बहनुकगेति ।
२ महाराज, सोमवंश धारय भव । भो, अनाख्यातोऽपि विज्ञात एव
तस्य राजर्षेरायुष्मतोश्च संबन्धः । जात, प्रणम गुरुम् ।
(सारथी लक्षं । विदूषकं । ननु खल्वेष क्षत्रियकुमारो यस्य नामाङ्कितो
गृध्रपक्षवेधी नाराच उपलभ्य । नाराचो बाण । तत्रभवतो बहनुकरोति । तत्र
भवन्तं पूज्यम्। बाष्पायते निपतितति। बाष्पयुक्तमिति बाष्पायते अश्रुसंयुता
भवति। वात्सल्यबन्धि प्रभातिशयोयुक्तम्। वपयु कम्प । परिरब्धुमालिङ्गितुम्
॥९॥ तापसी। महाराज सोमवंशं धारयं भव । भो अनाख्यातोऽपि विज्ञात
एव तस्य राजर्षेरायुषधीतस्य संबन्ध । जात प्रणम गुरुम्। आवेहि। युष्मानभवन्मून
यदि हार्दमिति। अयं मम जनयिता। अहमस्य सुत इति श्रुत्वा यदि
वि १२