विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 131, कुल 168 में से
संदर्भ में पढ़ें११६ विक्रमोर्वशीये
ता रण्णे विणु करिमि णिब्भन्ती
पुण णइ मेल्लइ ताह फअन्ती ॥ ६७ ॥
(इति चचरीकयोपगृह्य लतामालिङ्गति । ततस्तदीयस्थानमाक्रम्यैव प्रविष्टोर्वशी ।)
राजा—(निमीलिताक्ष एव स्पर्शं नाटयित्वा ।) अये, उर्वशीगात्रम्प-
र्शादिव निर्वृतं मे हृदयम् । पुनरस्ति विश्वासः । कुतः ।
समर्थये यत्प्रथमं प्रिया प्रति
क्षणेन तन्मे परिवर्ततेऽन्यथा ।
अतो विनिद्रे सहसा विलोचने
करोमि न स्पर्शविभावितप्रियः ॥ ६८ ॥
(निमेषोन्मील्य चक्षुषी ।) कथं सत्यमेवोर्वशी । (इति मूर्च्छितः पतति ।)
उर्वशी—समस्ससदु समस्ससदु महाराओ ।
राजा—(संज्ञां लब्ध्वा ।) प्रिये, अद्य जीवितम् ।
त्वद्वियोगोद्भवे चण्डि मया तमसि मग्नता ।
दिष्ट्या प्रत्युपलब्धासि चेतनेव गताधुना ॥ ६९ ॥
उर्वशी—मरिसदु मरिसदु महाराओ । जं मए कोववसं गदाए
अवत्थन्तरं पाविदो महाराओ ।
तद्राज्येन विना करोमि निर्भ्रान्ति
पुनर्न प्रवेशयामि तां वृत्तान्ताम् ॥
१ समाश्वसितु समाश्वसितु महाराजः ।
२ मर्षयतु मर्षयतु महाराजः । यन्मया कोपवशं गतयाऽवस्थान्तरं
प्रापितो महाराजः ।
ततः प्रातश्च विना दृश्यन प्रभाविपर्यय निर्भ्रान्तिश्च पुनर्न प्रवेक्ष्यामि । तद्राज्येन
विना करोमि निर्भ्रान्ति पुनर्न प्रवेशयामि तां वृत्तान्तम् । राज्यस्य नो इति
पाठे दादृतं तम् । त्रिदश प्रभ्रंशवत्या क्रियाया दया कातर्या । तामरण्येन
विना करोमि । इदानीं तरण्डून् रंभाद्यप्सरोभि पुनर्न प्रवेशयामि । पुनर्वाक्य
नामकर्मोद्धार्यं । वृत्तान्तां सम्भ्रमेण पीतदुःखितामित्यर्थः । कुतोऽन्यान्तासु
यस्य मदेति वा । यद्वा दृष्ट्वाऽप्सरोभिरितो नयतुं ? पुनर्नाव्यानी न
प्रवेशयसीत्यर्थः । अथवा पश्चान्तरे दृष्ट्वा विरहव्यथाप्रतिद्वन्द्वम् । क्षेमोगे
०४८११- इति शृङ्गारदा हावस्तदभिमतं दृढि० ॥ ६८ ॥ उर्वशी ।
समाश्वसितु समाश्वसितु महाराजः ॥ उर्वशी । मर्षयतु मर्षयतु महाराजः ।