विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 130, कुल 168 में से
संदर्भ में पढ़ेंAn accurate line-by-line transcription in Unicode Devanagari:
चतुर्थोऽङ्कः । ११५
(नेपथ्ये ।)
वत्स, गृह्यतां गृह्यताम् ।
संगमनीयो मणिरिष्ट शैलसुताचरणरागरुचिरयम् ।
आवहति धार्यमाणः संगममाशु प्रियजनेन ॥ ६४ ॥
राजा—(ऊर्ध्वमवलोक्य ।) को मामनुशास्ति । (विलोक्य ।) कथं
भगवान्मृगराजधारी । भगवन्, अनुगृहीतोऽहममुनोपदेशेन ।
(मणिमादाय ।) हहो संगममणे,
तया वियुक्तस्य विलग्नमध्यया
भविष्यसि त्वं यदि संगमाय मे ।
तत करिष्यामि भवन्तमात्मनः
शिखामणि बालेमिवेन्दुमीश्वरः ॥ ६५ ॥
(परिक्रम्यावलोक्य च ।) अये, किं नु खलु कुसुमरहितामपि लतामिमां
पश्यतः मया रतिरुपलभ्यते । अथवा स्थाने मम मनो रमते ।
इयं हि—
तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः
शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा ।
चिन्तामौनमिवास्थिता मधुलिहां शब्देर्विना लक्ष्यते
चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥ ६६ ॥
यावदस्याः प्रियानुकृत्या लतया परिष्वङ्गप्रणयी भवामि ।
(उपसृत्य लतामाश्लिष्य समाधाय)
अये उद्वेगात्पुनर्निवर्तितमिव मे चक्षुः ।
न खल्वेषा लता मम प्रिया स्यात् ।
यदि स्यात्कथं लतात्वेन दृश्यते ।
१ तव २ वरः ३ यतः ४ तथा ५ कृतामपि । ६ द्रुततरं ७ उद्गमैः
८ संगमनीय इति । ९ ६५ प १० दृश्यते करात् ६१ नमति ।
६४ अ १ व इन्दोव ५ न वेत्ति । ७ तौ वास्य । १ वर्ग तु
सर्वथा पाहुः २ । १० अ । नि । च न । वेत्ता ५ ६—हस्तं पसारयति ।
वि ११