सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 126, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 126

चतुर्थोऽङ्कः । ११३
(चर्चरी ।)
सुरसुन्दरि जहणभरालस पीणुत्तुङ्गघणत्थणि
थिरजोव्वण सणुमरीरि हसगइ ।
गयणुज्जलराण्णे मिअलोअणि भमन्ते
दिट्ठी तइ तद्विरहसमुन्दरे उत्तारहि मह ॥ ५८ ॥
(उपसृत्याञ्जलिं बद्ध्वा ।) हंहो हरिणीपते,
अपि दृष्टवानसि मम प्रियां वने
कथयामि ते तदुपलक्षणं शृणु ।
पृथुलोचना सहचरी यथैव ते
सुभगा तथैव रन्तु सापि वीक्ष्यते ॥ ५९ ॥
कथमनादृत्य मद्वचनं कलत्राभिमुखं स्थितः । सर्वथोपपद्यते
परिभवास्पदं निधिविपर्ययः । यावदन्यमवकाशमवगाहिष्ये । (परि-
क्रम्यावलोक्य च ।) हन्त, दृष्टमुपलक्षणं तस्या मार्गस्य ।
रक्तकदम्बः सोऽयं प्रियया धर्मान्तशंशि यस्येदम् ।
कुसुमसगममकेसरविषममपि कृतं शिराभरणम् ॥ ६० ॥
१ सुरसुन्दरी जघनभरालसा पीनोत्तुङ्गघनस्तनी
स्थिरयौवना तनुशरीरा हंसगतिः ।
गगनोच्चलकानने मृगलोचना भ्रमन्ती
दृष्टा त्वया तद्विरहसमुद्रात्तारय माम् ॥
इति त्रिकान्तं ॥ ५७ ॥ सुरममुन्दरि—सुरसुन्दरीति । सुरसुन्दरी जघन-
भरालसा पीनोत्तुङ्गघनस्तनी स्थिरयौवना तनुशरीरा हंसगतिः । गगनोच्चलकानने
मृगलोचना भ्रमन्ती दृष्टा त्वया तद्विरहसमुद्रादुत्तारय माम् ॥ स्थिरयौवना चेत्
सुरसुन्दरी दृष्टा । एतादृशेन रूपेणोपलक्षिता मद्विपिया वने भ्रमन्ती यदि त्वया
दृष्टा तत्तर्हि मां विरहपारावारात्समुत्तारयेत्यर्थः । तादृशनेत्रेणेत्याह । काननस्य
गगनोच्चलत्वं महदग्रगीतकायतिशयादाश्चर्याद् भ्रमत्ये भ्रमन्त्या त्वयेति वा ।
तद्वत्तथा । अतिरचणीयादित्यर्थ इति वा ॥ ५८ ॥ अपीति । अपिः
प्रश्ने । तदुपलक्षणं तस्याश्चिह्नम् ॥ ५९ ॥ रक्तकदम्ब इति । रक्तोऽर्के कद-