विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 292, कुल 493 में से
संदर्भ में पढ़ें( २७६ )
अन्वयः
(सः) अग्रजस्य दुराग्रहं निराकर्तुं न शशाक । राज्यग्रहगृहीतानां
मन्त्रः कः भेषजं च किम् (अस्ति) ।
व्याख्या
स विक्रमाङ्कदेवोऽग्रजस्य ज्येष्ठभ्रातुर्दुराग्रहं दुराचारं प्रजापीडनरूपं
निराकर्तुं दूरीकर्तुं न शशाक न समर्थो बभूव । राज्यमेव ग्रहो दुष्टग्रहः पिशाचा-
दिर्वा तेन गृहीतानामाक्रान्तानामाविष्टानां वा नृपाणां मन्त्रो ग्रहपिशाचादिदूरी-
करणमन्त्रविशेषः को, न कोऽपीत्यर्थः । भेषजमौषधं च किम् न किमपीत्यर्थः ।
राजमदेनाऽऽविष्टानां नृपाणां कृते न कोऽप्युपाय इति भावः ।
भाषा
कुमार विक्रमाङ्कदेव अपने बडे भाई के दुराचार को न रोक सका । राज्य
रूपी क्रूर ग्रह से या पिशाचादि से गृहीत या आविष्ट राजाओ के लिये न कोई
मन्त्र है न दवा है ।
अचिन्तयच्च किं कार्यं विपर्यस्तधियामुना ।
अकीर्तिसंविभागस्य गमिष्याम्यत्र पात्रताम् ॥११६॥
अन्वयः
विपर्यस्तधिया अमुना किं कार्यम् अत्र अकीर्तिसंविभागस्य पात्रतां
गमिष्यामि (इति) च अचिन्तयत् ।
व्याख्या
विपर्यस्ता विपरीता धीर्बुद्धिर्यस्य तेन विपर्यस्तधिया 'बुद्धिर्मनीषा धिषणा धीः
प्रज्ञा शेमुषी मति.' इत्यमरः । विपरीतबुद्धियुक्तेनाऽमुना सोमदेवेन किं कार्यं मम
किं प्रयोजनम् न किमपीत्यर्थः । अत्राऽस्मिन् स्थानेऽकीर्तेर्दुर्यशसः संविभागस्यां-
शस्य पात्रतां भाजनत्वं गमिष्यामि प्राप्स्यामि इति चाऽचिन्तयद्विचारितवान् ।
सोमदेवेन पापरतेन सहाऽवस्थितो तेन सहाऽहमपि दुर्यशसोंऽशस्याऽऽश्रयो
भविष्यामीति च विचारयामासेति भावः ।