विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 291, कुल 493 में से
संदर्भ में पढ़ें. ( २७५ )
व्याख्या
सपरिग्रहा सपरिच्छदा श्री राज्यलक्ष्मीस्तस्य विक्रमाङ्कदेवस्य प्रणयेन प्रेम्णा
प्रवणोन्मुखा प्रणयप्रवणा प्रीतितत्परैवाऽऽसीत् । परं किन्तु विक्रमाङ्को
विक्रमाङ्कदेवः कलङ्किनीं सोमदेवसंसर्गात्कलुषितां तां नाङ्गीकरोति स्म न
स्वीकरोति स्म । अमात्यादयः सर्वेऽपि राज्याङ्गभूतास्तं विक्रमाङ्कदेवं राजा-
सने स्थापयितुमैच्छन् । परं सः सोमदेवसंसर्गादपवित्रं राजासनं न स्वीचकारेति
भावः ।
भाषा
यद्यपि राज्याङ्गभूत मन्त्री आदि से युक्त राज्यलक्ष्मी विक्रमाङ्कदेव के पास
उसके प्रेम में तत्पर होकर आ रही थी । अर्थात् मन्त्री लोग सोमदेव को राज-
गद्दी से उतार कर इसे राजा बनाना चाहते थे । परन्तु उसने उस गद्दी को
सोमदेव के संसर्ग से कलङ्कित समझ स्वीकार नहीं किया ।
बहुना किं प्रलापेन तथा राज्यं चकार सः ।
यथेन्दुमित्रे चालुक्य-गोत्रे प्राप कलङ्कताम् ॥११४॥
अन्वयः
बहुना प्रलापेन किम् । सः तथा राज्यं चकार यथा इन्दुमित्रे चालुक्य-
गोत्रे (सः) कलङ्कतां प्राप ।
व्याख्या
बहुना प्रलापेनाऽतिसंजल्पनेन किं किं प्रयोजनं न किमपीत्यर्थः । स सोमदेव-
स्तथा तादृशं राज्यं राजकार्यं चकार कृतवान् यथा येनेन्दुमित्रे चन्द्रसदृशधवले
चालुक्यगोत्रे चालुक्यनृपाणां वंशे सः सोमदेवः कलङ्कतां कलुषतां प्राप प्राप्तः ।
अनेनैव धवले चालुक्यवंशे कलङ्कः स्थापित इति भावः ।
भाषा
अधिक कहने से क्या लाभ ? सोमदेव राजा ने ऐसा राज्य किया जिससे
चन्द्रमा के सदृश निर्मल चालुक्य वंश में यह कलङ्क हो गया ।
न शशाक निराकर्तुमग्रजस्य दुराग्रहम् ।
राज्यग्रहगृहीतानां को मन्त्रः किं च भेषजम् ॥११५॥