सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 293, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 293

( २७७ )
भाषा
विपरीत अर्थात् निर्विवेक बुद्धिवाले सोमदेव से मुझे क्या करना है और
यहाँ रहने से मैं भी दुर्याश के कुछ अंश का भागी हो जाऊँगा, ऐसा विक्रमाङ्कदेव
ने विचार किया ।
'त्यागमेव प्रशंसन्ति गुरोरुत्पथगामिनः ।
तदितः साधयाम्येष दक्षिणाम्बुधिसम्मुखः ॥११७॥
अन्वयः
( यत् सत्पुरुषाः) उत्पथगामिनः गुरोः त्यागम् एव प्रशंसन्ति । तत्
एषः ( अहम् ) दक्षिणाम्बुधिसम्मुखः सन् इतः साधयामि ।
व्याख्या
यद्यस्मात्कारणात् ( सत्पुरुषा ) उत्पथ कुमार्गं गच्छतीत्युत्पथगामी तस्योत्पथ-
गामिन कुमार्गस्थितस्य गुरो पूज्यस्य ज्येष्ठस्य त्याग सर्वथैवाऽसहयोगमेव
प्रशंसन्ति समाद्रियन्ते । तत्तस्मात्कारणादेषोऽह विक्रमाङ्कदेवो दक्षिणाम्बुधेर्द-
क्षिणसमुद्रस्य सम्मुख उन्मुखस्सन्नितोऽस्मात्स्थानात् साधयामि गच्छामि ।
भाषा
बड़ा के कुमार्गगामी होने पर उनका त्याग करना ही सज्जन लोग ठीक
समझते हैं । इसलिये मैं यहाँ से दक्षिण समुद्र की ओर चला जाऊँगा ।
मया निपीड्यमानास्ते निविडं द्रविडादयः ।
आर्यं विपर्यस्तमपि प्रभवन्ति न बाधितुम् ॥११८॥
अन्वयः
मया निबिडं निपीड्यमानाः ते द्रविडादयः विपर्यस्तम् अपि आर्यं
बाधितुं न प्रभवन्ति ।
१ गुरोरप्यवलिप्तस्य कार्याकार्यमजानन ।
उत्पथप्रतिपन्नस्य परित्यागः विधीयते ॥ इत्युक्ते ।