सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

इदं च विदग्धस्निग्धवियोगदुर्मनसा विप्रलपितं तेन कविना-
.काव्यालापसुभाषितव्यसनिनस्ते राजहंसा गता-
अन्वयः —ते, काव्यालापसुभाषितव्यसनिनः, राजहंसाः, गताः, ताः, गोष्ट्यः,
क्षयम्, आगताः, सताम्, वाचः, गुणलवश्लाघ्याः न, कवीनाम्, सालङ्काररसप्रसन्नम-
धुराकाराः, गिरः नाशम्, प्राप्ताः, भूमिवलये, अयन्तु, महान्, प्रबन्धः जीयात् ।।
विदग्धस्निग्धवियोगदुर्मनसा = विदग्धाः चतुराः स्निग्धाः वत्सलाः तेषां यो
वियोगः, साम्प्रतं गुणज्ञानामेतादृशपुरुषाणामभावादिति भावः । तेन दुर्मनाः दुःखित-
चेताः तेन, कविना भट्टनारायणेन, विप्रलपितम् = दुःखालापः कृतः । साम्प्रतं मन्नि-
र्मितकवितास्वादं कः कारयतीति, विप्रलापहेतुः ।
विप्रलापमेवाह —काव्यालापेति । ते प्रसिद्धा राजादयः, काव्यालापसुभाषितव्यस-
निनः=काव्यानां दोषाभावविशिष्टगुणादिविशिष्टशब्दार्थयुगलानाम्, तदुक्तं काव्यलक्षणं
प्रकाशकृता—'तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि' इति ।
तस्यायमर्थः—तत् काव्यम्, शब्दार्थौ, शब्दार्थयुगलमित्यर्थः । न चैवं काव्य-
पदस्य प्रवृत्तिनिमित्तं व्यासज्यवृत्तिः स्यादिति वाच्यम्, इष्टापत्तेः, आस्वादव्यञ्जक-
त्वस्योभयत्रापि तुल्यत्वात् । अत एव काव्यं पठितं काव्यं बुद्धमित्युभयविधलोक-
व्यवहारः संगच्छते । यत्तु रसगङ्गाधरकृता काव्यपदप्रवृत्तिनिमित्तस्य व्यासज्यवृत्तित्वे
एकस्मिन् द्वित्वावच्छिन्नप्रतियोगिताकभेदस्य सत्त्वेन एको न द्वौ इति व्यवहारवत्,
श्लोकवाक्यं न काव्यमिति व्यवहारापत्तिः । यदि च शब्दार्थप्रत्येकपर्याप्तत्वमेव काव्य-
पदवृत्तिनिमित्तम् तदैकस्मिन् पद्ये काव्यद्वयव्यवहारापत्तिः, तस्मात् वेदत्वादिवत्
रमणीयार्थप्रतिपादकः शब्दः काव्यम् । इति शब्दमात्रनिष्ठत्वमेव काव्यलक्षण-
स्योक्तम् तन्नु तत्रैव मर्मप्रकाशटीकायां आस्वादव्यञ्जकत्वस्योभयत्रा विशेषादित्यादिना
अनुभवव्यवहारविरुद्धमिदमिति प्रतिपादितमस्ति वेदपदप्रवृत्तिनिमित्तस्यापि शब्दा-
र्थोभयवृत्तित्वमेव प्रतिपादितं 'तदधीते तद्वेद' इति पाणिनिसूत्रे भगवता
पतञ्जलिना, यद्यपि दर्पणकृता—'वाक्यं रसात्मकं काव्यम्' इति काव्यलक्षण-
मुक्तं तदपि, आग्रहमूलकमेव रसाभासाद्यात्मककाव्येऽव्याप्तेः । इष्टापत्तिस्तु न मन्त-
वति कविसम्प्रदायभङ्गप्रसङ्गात् । अत एव महाकविवर्णितकपिकुलचरितान्यपि
: काव्यानि । त्वन्मते तत्र रसाभावेन काव्यत्वं न स्यात् । यथाकथञ्चित् परम्परया
रसस्पर्शस्य काव्यत्वप्रयोजकत्वे 'गौश्चरति', 'मृगो धावति' इत्यादेरपि काव्यत्वमा-
पद्येति । दोषविशिष्टेऽतिव्याप्तिवारणाय अदोषविति लक्षणे निवेशः। न चादोषत्वं
यत्किञ्चिद्दोषाभावः, दोषसामान्याभावो द्वौ वा । नाद्य । यत्किञ्चिदभावस्य सर्वत्र

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३३१
स्ता गोष्ठ्यः क्षयमागता गुणलवश्लाघ्या न वाचः सताम् ।
सालङ्काररसप्रसन्नमधुराकाराः कवीनां गिरः
सुलभतया व्यावर्तकत्वापत्तेः । नान्त्यः 'तथाभूतां दृष्ट्वे' त्यादेरपि काव्यत्वानापत्तेः,
तत्रापि न्यूनपदत्वदोषस्य सत्त्वात् । इष्टापत्तिस्तु न सम्भवति, प्रकाशकृतेव तृतीयो-
ल्लासे 'तयाभूतामि' त्यत्र काकुसहकृतार्थध्वनित्वस्योक्तत्वादिति वाच्यम्, अदोषेत्यस्य
रसोद्बोधविरोधि-दोषाभावे तात्पर्यात् । तथा च यत्र यस्य दोषस्य रसोद्बोध-
विरोधित्वं तद्दोषत्वे न काव्यत्वं यत्र च न तादृग्दोषस्तत्र काव्यत्वमिति सहृदया
एव प्रमाणम् । निर्गुणेऽतिव्याप्तिनिरासाय सगुणाविति । माधुर्यादिगुणवन्तौ काव्य-
मित्यर्थः । यद्यपि गुणानां रसमात्रनिष्ठत्वेन शब्दार्थयोर्गुणवत्वमसम्भवि, तथापि
स्वव्यञ्जकत्वसम्बन्धेन तत्र तेषां सत्त्वमिति न काऽप्यनुपपत्तिः निरलङ्कारेऽतिव्या-
त्तिनिरासाय-अनलङ्कृतीति । अस्यायमर्थः-सर्वत्र सालङ्कारावेव काव्यम्-कुत्रापि
स्फुटालङ्काररहितावपि, 'अलवणा यवागूरि' तिवद् नञोऽल्पार्थकत्वात् । अत्राल्पत्वम-
स्फुटत्वमेव । अन्यस्य, निर्वक्तुमशक्यत्वात्-तथाच-नीरेऽपि अस्फुटालङ्कारसत्त्वे
काव्यत्वप्रसक्तावपि न कश्चिद्दोषः । प्रदीपकारास्तु-रसादिलङ्कारश्च द्वयमेव चम-
त्कारहेतुः एवञ्च यदि यत्र न रसादिः न वा स्फुटालङ्कारः तत्र चमत्कारहेतोरभावान्न
काव्यत्वमित्याहुः । वयन्तु मन्यामहे-तत्रास्फुटालङ्कार एव चमत्कारहेतुः, अलङ्कार-
मात्रस्यैव चमत्कारहेतुत्वात् । तत्र स्फुटत्वास्फुटत्वयोरकिञ्चिकरत्वादिति । अत्र
युक्तायुक्तत्वे सहृदयाः स्वयमेव विभावयन्विति संक्षेपः प्रकृतमनुसरामः ।
एतादृशानां काव्यानां य आलापः सम्भाषणानि तेषु यत्सुभाषितम् तत्र यद्व
व्यसनम् आसक्तिः तदस्त्यस्येति 'अत इनिठनौ' इतीन्प्रत्ययः । ते, राजहंसाः =
श्रेष्ठनृपाः, गता क्षयमित्यस्यात्राप्यन्वयः । विनष्टा इत्यर्थः । ताः, गोष्ठ्यः विवेच-
कानामित्यादि । क्षयम् = विनाशम्, आगताः मत्कवितानां क्षीरवत् गुण-
ग्राहका न केऽपि सन्तीति भावः । सताम् = सज्जनानाम्, वाचः, गुणलवश्लाघ्याः =
गुणस्य लवेन कणेनापि श्लाघ्याः प्रशंसनीयाः न, भवन्ति, कवीनाम् = उत्तम-
प्रबन्धकारिणाम्, सालङ्काररसप्रसन्नमधुराकाराः = सालङ्काराः अलङ्कारसहिताः,
अलङ्कारत्वञ्च-रसादिभिन्नव्यङ्ग्यभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विषयित्व-
सम्बन्धावच्छिन्ना चमत्कारिजनकताविच्छेदकता तदवच्छेदकत्वम् । भवति च अनु-
प्रासादिविशिष्टशब्दज्ञानात्, उपमादिविशिष्टार्थज्ञानाच्च चमत्कारोदय इति विष-
यित्वसम्बन्धावच्छिन्ना चमत्कारिजनकताविच्छेदकतया तादृशे शब्दे अर्थे च तदव-
च्छेदकत्वमनुप्रासादौ, उपमादौ चेति लक्षणसमन्वयः । व्यङ्ग्ये रसादिभिन्नत्वनिवे-
शान्न रसवदलङ्कारासङ्ग्रहः । तादृशव्यङ्ग्यभिन्नत्वनिवेशान्न व्यङ्ग्योपमासङ्ग्रहः ।

३३२ वेणीसंहारं नाटकं
प्राप्ता नाशमयं तु भूमिवलये जीयात्प्रबन्धो महान् ॥ ४७ ॥
समाप्तमिदं वेणीसंहारं नाम नाटकम् ।
रसप्रसन्नाः रसान्विताः अत एव मधुरा मधुरस्वरूपाः, गिरः = उक्तयः, नाशम्, प्राप्तः,
गुणग्राहकव्यक्त्यभावादिति भावः अतः, भूमिवलये = भूमण्डले, अयम् = मदीयः,
महान् = रसालङ्कारादिसंयुतः तुशब्दः पूर्वव्यच्छेदकः, प्रबन्धः = कविता, जीयात् =
उत्कृष्टत्वेन वर्तताम् । अनेन प्रबन्धेन मम कीर्तिलाभः प्रसन्नता च भवत्विति
कवेराशयः तदुक्तमग्निपुराणे व्यासदेवेन—
निर्दोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् ।
रसान्वितं कविः कुर्वन् कीर्तिं प्रीतिञ्च विन्दति ॥ इति ।
एतादृशं मदीयमपि काव्यमिति गूढाभिप्रायः । शार्दूलविक्रीडितं छन्दः ॥ ४७ ॥
उमरावाङ्गसम्भूतं नरसिंहस्य जन्मभूम् ।
अनहेरं कुलपतिं नौमि तं प्रपितामहम् ॥ १ ॥
विद्वद्वृन्दविलासिता भगवती संराजते सर्वदा ।
यतास्ते च विशालभालललिता लक्ष्मी स्वयं सुस्थिरा ।
पुण्ये तत्'पटसा'ख्यपत्तनवरे श्रीद्वारवङ्गस्थिते
सानन्दं मृदुचेतसा निवसत। व्याख्या मया पूरिता ॥ २ ॥
॥ इति प्रबोधिनीव्याख्या समाप्ता ॥
समाप्तश्चायं ग्रन्थः

श्लोकानुक्रमणिका

पद्यानिपृष्ठाङ्काःपद्यानिपृष्ठाङ्काः
अ-आउ-ऊ
अकलितमहिमान२४०उद्घातक्वणितविलोळ९०
अकृपणमतिः कामं३२९उपेक्षितानां मन्दानां१४४
अक्षतस्य मदापानैः१५९ऊरु करेण परिघट्टयतः३१०
अत्रैव किं न विशसेयं२३२ए
अद्य प्रभृति वो दत्तं३०३एकस्य तावत्पाकोऽयं११८
अद्य मिथ्याप्रतिज्ञो१४३एकेनापि विनानुजेन२०८
अद्यैवावां रणमुपगतौ१९७एतज्जलं जलजमील-३०३
अन्धोऽनुभूतशत२१६एतेऽपि तस्य कुपितस्य१०५
अन्योन्यास्फालभिन्न४२एह्यस्मदर्थहततात१३१
अपि नाम भवेन्मृत्युः१६५क
अप्रियाणि करोष्येव२३२कथमपि न निषिद्धः१४२
अयि कर्ण कर्णसुखदां२१७कर्णक्रोधेन युष्मद्विजयि२३६
अयं पापो यावन्न१४७कर्णदुःशासनवधात्२६२
अवसानेऽङ्गराजस्य२६९कर्णाननेन्दुस्मरणात्२२०
अश्वत्थामा हत इति११०कर्णािलङ्गनदायी वा२२४
असमाप्तप्रतिज्ञेऽपि३०६कर्णेन कर्णसुभगं२३९
अस्रग्रामविधौ कृती१९२कर्ता द्यूतच्छलानां२२७
अस्रज्वालावलीढ१०४कलितभुवना मुक्ते२१०
आचार्यस्य त्रिभुवन-११९कालिन्द्याः पुलिनेषु३
आजन्मनो न वितथं११४काव्यालापसुभाषित-३३०
आरमारामा विहित-३७किं कण्ठे शिथिली५८
आ शस्त्रग्रहणादकुण्ठ४९किं नो व्याप्रदिशां७२
आशैशवादमुदिनं३१५किं शिष्याद् गुरुद१०८
इकुरु घनोरु पदानि७७
इन्द्रप्रस्थं वृकप्रस्थं२६कुन्त्या सह युवामद्य२०३
इयमस्मदुपाश्रयैक-५८कुर्वन्स्वाहा हतानां२३६

३३४ श्लोकानुक्रमणिका
पद्यानि पृष्ठाङ्काः | पद्यानि पृष्ठाङ्काः
कुसुमाञ्जलिरपर इव ६ | ज्ञेया रहः शङ्कितं २४६
कृतगुरुमहदादि- ३२४ | ज्वलनः शोकजन्मा २२१
कृतमनुमतं दृष्टं वा १२३ |
कृष्टा केशेषु भार्या २३१ | त
कृष्टा येन शिरोरुहे १४८ | तथाभूतां दृष्ट्वा १७
कृष्टा येनासि राज्ञां ३२० | तद्दीर्घत्वं तव मम पुरः ६०
कृष्णा केशेषु कृष्टा २३० | तस्मिन्कौरवभीमयोः २७७
कोदण्डज्याकिणाङ्कैः ८८ | तस्मै देहि जलं कृष्णे १०५
कौरव्यवंशदावेऽस्मिन् ३० | तस्यैव देहरुधिरोक्षित-
क्रोधान्धैर्यस्य ३२२ | तस्यैव पाण्डवपशोः १६४
क्रोधान्धैः सकलं हतं ३२८ | तातस्तव प्रणयवान् १३२
क्रोधोद्गूर्णगदस्य नास्ति २६८ | तातं शस्त्रग्रहणविमुखं १२२
| तां वत्सलामनभिवाद्य ३०९
ग | तीर्णं भीष्ममहोदधौ २४३
गते भीष्मे हते द्रोणे २२४ | तेजस्वी रिपुहतबन्धु १२८
गतो येनाद्य त्वं ११५ | त्यक्तप्राजनरश्मि- २१४
गुप्त्या साक्षान्महानल्पः ४९ | त्यक्त्वोत्थितः सरभसं २५९
गुरूणां बन्धूनां २४९ | त्रस्तं विनापि विषयात् २४९
गृहीतं येनासीः ११८ |
ग्रहाणां चरितं स्वप्नो- ६७ | द
| दग्धुं विश्वं दहन् १०६
च | दत्त्वा द्रोणेन पार्थान् १५८
च्छन्दद्भुजअमितचण्ड ३३ | दत्त्वा भग्नं मोऽतिरथ १३०
चत्वारो वयमृत्विजः ३९ | दत्त्वा मे करदीकृता २८३
चूर्णिताशेषकौरव्यः २२९ | दायादा न ययोर्बलेन २०४
| दिक्षु व्यूढाङ्घ्रिपादः ७४
ज | दिष्ट्यार्धश्रुतविप्रलम्भ- ६१
जन्मेन्दोर्विमले कुले २५५ | दुःशासनस्य रुधिरे १५२
जातोऽहमगतिकृत्या २०१ | दुःशासनस्य हृदय ८५
जात्या कलिमवध्यो- १४३ | दृष्टः सप्रेम देव्या ५
जीवत्सु पाण्डुपुत्रेषु २९ | देशः सोऽयमराति १३४
जृम्भारम्भाप्रचितत ५५ | द्रक्ष्यन्ति न चिरात्सुतं २३४
ज्ञातप्रीतिर्मनसि न २८५ |

श्लोकानुक्रमणिका २३५
पद्यानि | पृष्ठाङ्काः | पद्यानि | पृष्ठाङ्काः
ध | | प्रत्यक्षं हतबन्धूनां | १८९
धर्मात्मजं प्रति यमौ | ८७ | प्रत्यक्षं हतबान्धवस्य | २१२
धिक्मानुजं कुरुपति | ११२ | प्रयत्नपरिवोधिनः | १३६
धृतराष्ट्रस्य तनयान् | १५ | प्रवृद्धं यद्वैरं मम | १६
धृतायुधो यावदहं | १४८ | प्राप्तावेकरथारूढौ | २२५
न | | प्रालेयमिश्रमकरन्द | ५४
नाहं रक्षो न भूतः | ३१२ | प्रियमनुजमपश्यंस्त | ३११
निर्लज्जस्य दुरोदर | २८१ | प्रभावमृदुस्तिमित- | ७३
निर्वाणवैरदहनाः | ११ | ब |
निर्वैर्यं गुरुशाप | १३८ | बालस्य मे प्रकृति | १६१
निर्वीर्यं वा सवीर्यं वा | २३९ | भ |
निवापाञ्जलिदानेन | ११७ | भग्नं भीमेन भवतो | ८१
निविडोरस्येमिलुलित | १ | भवति तनय लक्ष्मीः | २२१
नूनं तेनाद्य वीरेण | २५० | भवेदक्षीभ्पद्रोणं | १२६
नोच्चैः सत्यपि | ४४ | भीष्मे द्रोणे च निहते | २१६
न्यस्ता न भ्रुकुटिर्न | ७६ | भूमौ क्षिप्तं शरीरं | ३१७
प | | भूमौ निमग्नचक्रः | २२०
पङ्के सैकते वा | २४५ | भूयः परिभवक्लान्ति | ४१
पद्मगहदाणं मंसए | ९२ | भ्रातुस्ते तनयेन | २९८
पञ्चानां मन्यसेऽस्माकं | २६१ | म |
पदे संदिग्ध एवास्मिन् | २७५ | मथ्नामि कौरवशतं | २४
परित्यक्ते देहे रण | १२१ | मदकलितकरेणु | १५९
पर्याप्तनेत्रमचिरोद्गत- | १८९ | मद्वियोगभयात्तातः | ११६
पर्यायेण हि दृश्यन्ते | ६६ | मन्थात्रस्तार्णवाम्भः | ३४
पाञ्चाल्या मन्युवह्निः | २५६ | मम प्राणाधिकं | २१८
पाप प्रियस्तव कथं | १४५ | मम हि वयसा | २९४
पापेन येन हृदयस्थ | २२२ | मया पीतं पीतं न तदनु | ३०४
पितुर्मूर्ध्नि स्पृष्टे | १२४ | मयि जीवति यत्तातः | १३३
पीताभ्यां मद्भुजाभ्यां | २३४ | महाप्रलयमारुत | १००
पूर्यन्तां सलिलेन | २६३ | मातः किमप्यसदृशं | २०२
प्रत्यक्षमरुधनुषां | १२० | मामुद्दिश्य त्यजन् | २१९

३३६ श्लोकानुक्रमणिका
पद्यानि पृष्ठाङ्काः पद्यानि पृष्ठाङ्काः
य श
यत्तदूर्जितमत्युग्रं २१ शदयामि नो परिव- २८९
यत्सत्यव्रतभङ्गभीरु ३८ शक्यामि व्यपनीय १९९
यदि शस्त्रसुझिक्तं १४१ शल्येन यथा शल्येन २१५
यदि समरमपास्य १०४ शाखारोधस्थगित २१३
यद्दुर्योधनपक्षपात- १०१ शोकं स्त्रीवन्नयन- २३२
यद्वैद्युतमिव ज्योति- २२ शोचामि शोच्यमपि २१८
यन्मोचिस्तव पिता २४२ श्रवणाञ्जलिपुटपेयं ५
यस्मिंश्चिरप्रणय ६२ श्रुत्वा वधं मम नृपा १११
युक्तो यथेष्टमुपभोग १६३ स
युष्मच्छासनलङ्घनहिंस्र १८ सकलरिपुजयाशा २२९
युष्मान्हेपयति २७ स कीचकनिषूदनो- २८२
येनासि तत्र जतु- २९३ सत्पक्षा मधुरगिरः १०
योः यः शस्त्रं बिभर्ति १३३ सत्यादप्यनृतं श्रेयो- १५१
र स भीरुः शूरो वा १४०
रक्षणीयेन सततं १६५ सर्वथा कथय ब्रह्मन् २७६
राज्ञो मानधनस्य १५५ सहभृत्यगणं सबान्धवं ५१
रिपोरास्तां तावत् ३१८ सीरीसत्वर २७७
रेणुर्वाधां विधत्ते ७९ सूतो वा सूतपुत्रो वा १३९
ल स्त्रीणां हि साहचर्यात् ३२
लाक्षागृहानलविषाग्न- १२ स्मरति न भवान्पीतं २४६
लुहिलाशवपाणमत्तिए ९३ ह
लोलांशुकस्य पवना ८० हते जरति गाङ्गेये ५४
व हत्वा पार्थान्सलिल १९४
विकिर धवलदीर्घा- ७० हृदमाणुममंश ९१
विस्मृत्यास्यान्श्रुति २९५ हली हेतुः सख्यं ३००
व्यासोऽयं भगवागमी ३२६ हस्त्याकृष्टविलोय ८५
वृषसेनो न ते पुत्रो १५५ हीयमानः किल २०७