वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 350, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३३१
स्ता गोष्ठ्यः क्षयमागता गुणलवश्लाघ्या न वाचः सताम् ।
सालङ्काररसप्रसन्नमधुराकाराः कवीनां गिरः
सुलभतया व्यावर्तकत्वापत्तेः । नान्त्यः 'तथाभूतां दृष्ट्वे' त्यादेरपि काव्यत्वानापत्तेः,
तत्रापि न्यूनपदत्वदोषस्य सत्त्वात् । इष्टापत्तिस्तु न सम्भवति, प्रकाशकृतेव तृतीयो-
ल्लासे 'तयाभूतामि' त्यत्र काकुसहकृतार्थध्वनित्वस्योक्तत्वादिति वाच्यम्, अदोषेत्यस्य
रसोद्बोधविरोधि-दोषाभावे तात्पर्यात् । तथा च यत्र यस्य दोषस्य रसोद्बोध-
विरोधित्वं तद्दोषत्वे न काव्यत्वं यत्र च न तादृग्दोषस्तत्र काव्यत्वमिति सहृदया
एव प्रमाणम् । निर्गुणेऽतिव्याप्तिनिरासाय सगुणाविति । माधुर्यादिगुणवन्तौ काव्य-
मित्यर्थः । यद्यपि गुणानां रसमात्रनिष्ठत्वेन शब्दार्थयोर्गुणवत्वमसम्भवि, तथापि
स्वव्यञ्जकत्वसम्बन्धेन तत्र तेषां सत्त्वमिति न काऽप्यनुपपत्तिः निरलङ्कारेऽतिव्या-
त्तिनिरासाय-अनलङ्कृतीति । अस्यायमर्थः-सर्वत्र सालङ्कारावेव काव्यम्-कुत्रापि
स्फुटालङ्काररहितावपि, 'अलवणा यवागूरि' तिवद् नञोऽल्पार्थकत्वात् । अत्राल्पत्वम-
स्फुटत्वमेव । अन्यस्य, निर्वक्तुमशक्यत्वात्-तथाच-नीरेऽपि अस्फुटालङ्कारसत्त्वे
काव्यत्वप्रसक्तावपि न कश्चिद्दोषः । प्रदीपकारास्तु-रसादिलङ्कारश्च द्वयमेव चम-
त्कारहेतुः एवञ्च यदि यत्र न रसादिः न वा स्फुटालङ्कारः तत्र चमत्कारहेतोरभावान्न
काव्यत्वमित्याहुः । वयन्तु मन्यामहे-तत्रास्फुटालङ्कार एव चमत्कारहेतुः, अलङ्कार-
मात्रस्यैव चमत्कारहेतुत्वात् । तत्र स्फुटत्वास्फुटत्वयोरकिञ्चिकरत्वादिति । अत्र
युक्तायुक्तत्वे सहृदयाः स्वयमेव विभावयन्विति संक्षेपः प्रकृतमनुसरामः ।
एतादृशानां काव्यानां य आलापः सम्भाषणानि तेषु यत्सुभाषितम् तत्र यद्व
व्यसनम् आसक्तिः तदस्त्यस्येति 'अत इनिठनौ' इतीन्प्रत्ययः । ते, राजहंसाः =
श्रेष्ठनृपाः, गता क्षयमित्यस्यात्राप्यन्वयः । विनष्टा इत्यर्थः । ताः, गोष्ठ्यः विवेच-
कानामित्यादि । क्षयम् = विनाशम्, आगताः मत्कवितानां क्षीरवत् गुण-
ग्राहका न केऽपि सन्तीति भावः । सताम् = सज्जनानाम्, वाचः, गुणलवश्लाघ्याः =
गुणस्य लवेन कणेनापि श्लाघ्याः प्रशंसनीयाः न, भवन्ति, कवीनाम् = उत्तम-
प्रबन्धकारिणाम्, सालङ्काररसप्रसन्नमधुराकाराः = सालङ्काराः अलङ्कारसहिताः,
अलङ्कारत्वञ्च-रसादिभिन्नव्यङ्ग्यभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विषयित्व-
सम्बन्धावच्छिन्ना चमत्कारिजनकताविच्छेदकता तदवच्छेदकत्वम् । भवति च अनु-
प्रासादिविशिष्टशब्दज्ञानात्, उपमादिविशिष्टार्थज्ञानाच्च चमत्कारोदय इति विष-
यित्वसम्बन्धावच्छिन्ना चमत्कारिजनकताविच्छेदकतया तादृशे शब्दे अर्थे च तदव-
च्छेदकत्वमनुप्रासादौ, उपमादौ चेति लक्षणसमन्वयः । व्यङ्ग्ये रसादिभिन्नत्वनिवे-
शान्न रसवदलङ्कारासङ्ग्रहः । तादृशव्यङ्ग्यभिन्नत्वनिवेशान्न व्यङ्ग्योपमासङ्ग्रहः ।