वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 61, कुल 355 में से
संदर्भ में पढ़ें४० वेणीसंहारं नाटकं
संग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता ।
कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं
राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः ॥ २५ ॥
सहदेवः—आर्य, गच्छामो वयमिदानीं गुरुजनानुज्ञाता विक्रमानुरूपमा-
चरितुम् ।
भीमसेनः—वत्स, एते वयमुद्यता आर्यस्यानुज्ञामनुष्ठातुमेव (उत्थाय ।)
तत्पाञ्चालि, गच्छामो वयमिदानीं कुरुकुलक्षयाय ।
द्रौपदी—(बाष्पं धारयन्ती ।) णाह, असुरसमराहिमुहस्स हरिणो विअ
मङ्गलं तुम्हाणं होदु । जं च अम्बा कुन्दी आसासदि तं तुम्हाणं होदु ।
(नाथ द्यसुरसमराभिमुखस्य हरेरिव मङ्गलं युष्माकं भवतु । यच्चाम्बा कुन्त्याशास्ते
तद्युष्माकं भवतु ।)
पदेष्टा = आचार्यः, नरपतिः = युधिष्ठिरः सङ्ग्रामाध्वरदीक्षितः = सङ्ग्रामः, अध्वर
इव तत्र दीक्षितः, पत्नी = द्रौपदी, गृहीतव्रता = आचरितनियमा, कौरव्याः = कुरु-
वंशजाताः, पशवः = यज्ञे आलम्भनीया जन्तुविशेषाः, फलं = लाभः, प्रियापरिभव-
क्लेशोपशान्तिः = द्रौपदीतिरस्कारजन्यदुःखविनाशः, राजन्योपनिमन्त्रणाय = क्षत्रि-
याह्वानाय, स्फीतं, यथा स्यादेवम्, यशोदुन्दुभिः, रसति = शब्दं करोति । अत्रोद्भे-
दाख्यं नाट्याङ्गम् तदुक्तं दर्पणे —'बीजार्थस्य प्ररोहः स्यादुद्भेदः' इति । शार्दूल-
विक्रीडितं छन्दः ॥ २५ ॥
कौरव वलि के लिये पशु का काम देंगे; प्रियतमा के अपमानित दुःख की शान्ति ही इस
यज्ञ के विधान का फल होगा । राजाओं को निमन्त्रित करने के लिये मूर्तिमती यश की
दुन्दुभी बार-बार बज रही है ॥ २५ ॥
सहदेव—आर्य, अब हम लोग भी पूज्य लोगों से आज्ञा प्राप्त कर अपने अपने बल-
पराक्रम के अनुसार कार्य करने के लिये चलें ।
भीमसेन—वत्स, ये हम लोग महाराज की आज्ञा पालन के लिये ही उद्यत हैं (उठ-
कर) पाञ्चालपुत्रि, अब हम लोग कुरुवंश के नाशार्थ चल रहे हैं ।
द्रौपदी—(अश्रु भर कर ), नाथ, दैत्यों के साथ युद्ध के लिये प्रस्थित भगवान् विष्णु
की भाँति आप लोगों का मङ्गल हो और आप लोगों के लिये जिस मंगल की कामना माता
कुन्ती करती हैं वह भी हो ।