सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 60, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 60

प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ३९
भीमसेनः—( आकर्ण्य । सहर्षम् ) जृम्भतां जृम्भतामप्रतिहतप्रसरमार्यस्य
क्रोधज्योतिः ।
द्रौपदी—णाह, किं दाणीं एसो पलअजलहरत्थणिदमंसलोद्धोसो क्खणे
क्खणे समरदुन्दुही ताडीयदि । ( नाथ, किमिदानीमेष प्रलयजलधरस्तनितमांस-
लोद्घोषः क्षणे क्षणे समरदुन्दुभिस्ताड्यते । )
भीमसेनः—देवि, किमन्यत् । यज्ञः प्रवर्त्तते ।
द्रौपदी—( सविस्मयम् । ) को एसो जण्णो । ( क एष यज्ञः । )
भीमसेनः—रणयज्ञः तथाहि—
चत्वारो वयमृत्विजः स भगवान्कर्मोपदेष्टा हरिः ।
समृद्धं सत् कुरुवने = वन इव कुरुराजे, जृम्भते = प्रकाशते, अत्र न कुत्रापि रूपक-
समासः विस्मरणकेशाम्बराकर्षणकृतमहत्त्वयोः ज्योतिष्सम्बन्धादनन्वयापत्तेः । अत्र
पूर्वार्द्धे हेतोः पदार्थत्वेन काव्यलिङ्गद्वयम्, उत्तरार्द्धे द्यूतारणीत्यत्र क्रोधज्योतिरित्‍यत्र
कुरुवन इत्यत्र च लुप्तोपमात्रयम् । शार्दूलविक्रीडितं छन्दः ॥ २४ ॥
प्रलयेति—प्रलयकालिकमेघस्य मन्थरस्तनितं, धीरगर्जितम् तद्वन्मांसलः बलवान्
तद्घोषः शब्दः यस्य सः । समरदुन्दुभिः = युद्धकालिकभेरी ।
अन्वयः—वयम्, चत्वारः, ऋत्विजः सः, भगवान्, हरिः, कर्मोपदेष्टा, नरपतिः,
सङ्ग्रामाध्वरदीक्षितः, पत्नी, गृहीतव्रता, कौरव्याः, पशवः, फलम्, प्रियापरिभवक्ले-
शोपशान्तिः, राजन्योपनिमन्त्रणाय, यशोदुन्दुभिः, स्फीतम्, रसति ॥ २५ ॥
सङ्ग्रामं यज्ञरूपेण वर्णयति—चत्वार इति । वयं = भीमादयः, चत्वारः = चतुः-
संख्याकाः, ऋत्विजः = वृताः सन्तो यज्ञकर्त्तारः, हरिः = कृष्णः, स भगवान्, कर्मो-
भीमसेन—(सुनकर हर्ष और क्रोध के साथ) भड़क उठे ! भड़क उठे ! महाराज के
क्रोध की ज्वाला बिना किसी अवरोध के भली भाँति बढ़े ।
द्रौपदी—स्वामिन्, इस समय भीषण निर्घोष के कारण असह्य, प्रलयकालिक मेघ-
गर्जन के सदृश गर्जनकारिणी यह रणभेरी ( नगाड़ा ) प्रतिक्षण क्यों बजाई जा रही है ?
भीमसेन—देवि, और कुछ नहीं । यज्ञ का आरम्भ है ।
द्रौपदी—वह कौन यज्ञ है ?
भीमसेन—रणयज्ञ, देखिए—
हम लोग चारों भाई ऋत्विज हैं, भगवान् वासुदेव यज्ञीय-विधानोपदेशक आचार्य
हैं, भूमिपाल युधिष्ठिर यजमान हैं; व्रतधारण की हुई द्रौपदी ( इस यज्ञ में ) पत्नी हैं