वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 43, कुल 355 में से
संदर्भ में पढ़ें२२ वेणीसंहारं नाटकं
यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धेऽद्य संभृतम् ।
तत्प्रावृडिव कृष्णेयं नूनं संवर्धयिष्यति ॥ १४ ॥
(ततः प्रविशति यथानिर्दिष्टा द्रौपदी चेटी च ।)
(द्रौपदी सास्त्रं निःश्वसिति ।)
चेटी—समस्ससदु समस्ससदु भट्टिणी । अवणइस्यदि दे मण्णुं णिच्चाणु-
बद्धकुरुबेरो कुमालो भीमसेणो । (समाश्वसितु समाश्वसितु भट्टिनी । अपनेष्यति
ते मन्युं नित्यानुबद्धकुरुवैरः कुमारो भीमसेनः ।)
द्रौपदी—हञ्जे बुद्धिमदिए, होदि एदं जइ महाराओ पडिकूलो
ण भवे । ता णाहं पेक्खिदुं तुवरदि मे हिअअं । आदेसेहि मे णाहस्स
वासभवणं । (हञ्जे बुद्धिमत्तिके भवेदेतद्यदि महाराजः प्रतिकूलो न भवेत् ।
आर्यसमीपं = भीमसंविधे, उपसर्पति = गच्छति ।
अन्वयः—अद्य, क्रुद्धे, आर्ये, वैद्युतमिव, यत्, ज्योतिः, सम्भृतम्, इयम्, कृष्णा,
नूनम्, तत्, प्रावृट्, इव, संवर्धयिष्यति ॥ १४ ॥
यद्वैद्युतमिति । अद्य = इदानीम्, क्रुद्धे = कुपिते, आर्ये = भीमे, वैद्युतमिव =
तडिदुद्भवसदृशम्, यत्, ज्योतिः = तेजः, सम्भृतम् = उत्पन्नम्, इयं, कृष्णा = द्रौपदी,
नूनम् = निश्चयम्, तत् = ज्योतिः, प्रावृट् = वर्षाकाल इव, संवर्धयिष्यति = एधयिष्यति ।
यथा प्रावृट्कालः, विद्युत्तेजः संवर्धयति तथैव द्रौपदी भीमक्रोधं संवर्धयिष्यतीत्यर्थः ।
अत्र पूर्णोपमाऽलङ्कारः पथ्यावक्त्रं छन्दः । लक्षणमुक्तं नवमश्लोके ॥ १४ ॥
अपनेष्यति = दूरीकरिष्यति, ते = तव, मन्युं = क्रोधं, नित्यानुबद्धकुरुवैरः = नित्यम्
अनुबद्धः, सम्बद्धः कुरुवैरः धार्तराष्ट्रविद्वेषः यस्य सः ।
चेटीं प्रति 'हञ्जे' इत्युच्यते 'हण्डे हञ्जे हलाह्वानं नीचां चेटीं सखीम्प्रती'त्यमरः ।
आज आर्य भीमसेन के क्रुद्ध होने पर विद्युतप्रकाश के सदृश उनका तेज हो गया है,
अब उसे वर्षा ऋतु की भाँति अवश्य यह महारानी [द्रौपदी] बढ़ायेंगी [अर्थात् क्रोधान्ध
भीमसेन द्रौपदी के वचनों से और उत्तेजित हो उठेंगे ] ॥ १४ ॥
(द्रौपदी का चेटी के साथ प्रवेश )
(द्रौपदी डबडबाए हुए नेत्रों से ठण्डी श्वास लेती हैं)
चेटी—धैर्य धरें, धैर्य धरें, महारानी, सहज कौरवशत्रु कुमार भीमसेन आप का क्रोध
निवारण करेंगे।
द्रौपदी—अरी, बुद्धिमत्तिके, ऐसा ही होता यदि महाराज विपरीत न होते । प्राणनाथ का