वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 42, कुल 355 में से
संदर्भ में पढ़ेंस्तेजोऽपकर्ष इति यत्सत्यं कम्पितमिव मे हृदयम् । (परिवृत्य स्थित्वा ।)
तद्वत्स, न त्वया कथितं न च मया भीमेन श्रुतम्—
यत्तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः ।
दीव्यताऽक्षैस्तदाऽनेन नूनं तदपि हारितम् ॥ १३ ॥
( नेपथ्ये )
समस्ससदु समस्ससदु भट्टिणी । ( समाश्वसितु समाश्वसितु भट्टिनी । )
सहदेवः—(नेपथ्याभिमुखमवलोक्यात्मगतम् ।) अये, कथं याज्ञसेनी
मुहुरुपचीयमानवाष्पपटलस्थगितनयना आर्यसमीपमुपसर्पति । तत्कष्टतर-
मापत्तितम् ।
स्येत्यर्थः । तेजोऽपकर्षः = प्रतापहानिः । यत्सत्यमिति समुदायः असम्भाव्यार्थद्योतकः,
तस्य च कम्पनक्रियायामन्वयः, तथा च, असम्भाव्यकम्पनाश्रयमिदं मे हृदयम् ।
अन्वयः—अस्य, भूपतेः, यत्, तत्, ऊर्जितम्, अत्युग्रम् क्षात्रम्, तेजः, अक्षैः,
दीव्यता, अनेन, तदा, नूनम्, तत्, अपि, हारितम् ॥ १३ ॥
यतः पञ्चभिर्ग्रामैः सन्धिं करोष्यतो जाने नास्य तेजोऽस्तीत्याह—यत्तदिति ।
अस्य भूपतेः = युधिष्ठिरस्य यत् तत् = प्रसिद्धम्, ऊर्जितम् = बलवत्, अत्युग्रम् =
अतितीक्ष्णम्, क्षात्रं = क्षत्रियसम्बन्धि, तेजः = प्रतापः, अक्षैः = द्यूतैः, दीव्यता =
क्रीडता, अनेन = युधिष्ठिरेण, तदा = तस्मिन् काले, नूनं = निश्चयम्, तत् = तेजः अपि
हारितम् = विनाशितम् । पथ्यावक्त्रं छन्दः ॥ १३ ॥
भट्टिनी = यद्यपि कृताभिषेकातिरिक्तराजपत्नी, 'देवी कृताभिषेकायाम्, इतरासु
तु भट्टिनी' इत्यमरात् भट्टिनीत्युच्यते तथापि लक्षण्या देव्यामपि भट्टिनीपदप्रयोगः ।
मुहुरुपचीयमानवाष्पपटलस्थगितनयना = पुनर्वर्द्धमानोष्माश्रुसमुदायाच्छन्ननेत्रा,
प्रकार क्यों कर गौण हो गया है ? यदि सत्य है तो मेरा हृदय काँपने हुए के सदृश है
( पराङ्मुख होकर और स्थित होकर ) अच्छा वत्स, न तो तुमने कहा और न मैंने सुना
[ अर्थात् सन्धि-बात की चर्चा न करो ] ।
महाराज का जो अत्यन्त उद्ग्र पराक्रमसम्पन्न क्षत्रियोचित तेज था यह निश्चय है कि द्यूत-
क्रीडा करके उसे भी इन्होंने अपने हाथ से चले जाने दिया है ॥ १३ ॥
( नेपथ्य में )
महारानी, धैर्य धारण करें, धैर्य्य धारण करें, कौरवों के सहजशत्रु कुमार भीमसेन आप
-के क्रोध की शान्ति करेंगे ।
सहदेव—( नेपथ्य की ओर कान करके और देखकर मन ही मन ) अरे, क्यों, श्रीमती
द्रौपदी आर्य के समीप चली आ रही हैं ! आँसुओं के अधिक भर जाने से नेत्र डबडबाये
हैं । यह तो महान् कष्ट उपस्थित हुआ ।