वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 40, कुल 355 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १९
( इत्युद्धतं परिक्रामति । )
सहदेवः—( तमेवानुगच्छन्नात्मगतम् । ) अये, कथमार्यः पाञ्चाल्याश्चतुः-
शालकं प्रति प्रस्थितः । भवतु तावदहमत्रैव तिष्ठामि । ( इति स्थितः । )
भीमसेनः—(प्रतिनिवृत्यावलोक्य च । ) सहदेव, गच्छ त्वं गुरुमनुवर्तस्व ।
अहमप्यायुधागारं प्रविश्यायुधसहायो भवामि ।
सहदेवः—आर्य नेदमायुधागारम् , पाञ्चाल्याश्चतुःशालकमिदम् ।
भीमसेनः—(सवितर्कम् । ) किं नाम नेदमायुधागारम्, पाञ्चाल्या-
श्चतुःशालकमिदम् । ( विचिन्त्य, सहर्षम् । ) आमन्त्रयितव्यैव मया
पाञ्चाली । ( सप्रणयं सहदेवं हस्ते गृहीत्वा । ) वत्स आगम्यताम् । यदार्यः
कलापसूत्रेण निष्पन्नम् । एकं, दिवसम् = दिनम् 'कालाध्वनोरत्यन्तसंयोगे' इति
द्वितीया । गुरुः = ईश्वरः शासक इत्यर्थः । न, असि, अहं=भीमः, तव=युधिष्ठिरस्य,
विधेयः = अनुशासनीयः, न । भवदाज्ञामनुरुध्य कौरवान् विनाशयिष्यामीति
युधिष्ठिरम्प्रति सन्देश इति । अत्र कौरवविनाशरूपकार्यस्य, हेतोर्गण्डोल्लासस्य
निन्दाप्राप्तिरूपाकार्यस्य हेतोर्ज्येष्ठभ्रातृशासनोल्लङ्घनस्य कथनात् परिकरनामकसन्धिः ।
तदुक्तं भरतेन—'कार्यकार्यार्थहेतूनामुक्तिः परिकरो मतः ॥' इति । शार्दूलविक्रीडितं
छन्दः, लक्षणमुक्तं द्वितीयश्लोके ॥ १२ ॥
पाञ्चाल्याः = द्रौपद्याः, चतुःशालम्=अन्योन्याभिमुखशालाचतुष्टयगृहम् ।
गुरुम् = युधिष्ठिरम्, अनुवर्तस्व = अनुसर । आयुधागारं = शस्त्रगृहम्, प्रविश्य=
गत्वा, आयुधसहायः = गृहीतशस्त्रः ।
सवितर्कम् = सानुमानम् । मया, पाञ्चाली = द्रौपदी, आमन्त्रयितव्या=विचारयि-
( अहङ्कार के साथ घूमते हैं )
सहदेव—( भीम के पीछे जाते हुए मन ही मन ) अरे, क्यों, भार्य कृष्णा [ द्रौपदी ]
के सदन में पहुँच गए, अच्छा, मैं यहीं ठहर जाता हूँ ( बैठ जाते हैं ) ।
भीमसेन—( लौटकर और देखकर ) सहदेव, जाओ बड़े भैया की आज्ञा का पालन
करो । मैं भी शस्त्रागार में जाकर सहायतार्थ शस्त्र लेता हूँ ।
सहदेव—आर्य, यह शस्त्रागार नहीं, यह तो कृष्णा का आवास है ।
भीम—( भ्रमपूर्वक ) क्या यह शस्त्रागार नहीं ? क्या यह द्रौपदी का आवास है ?
( सोचकर हर्षपूर्वक ) कृष्णा से वार्तालाप करना ही है ( प्रेम के साथ सहदेव का हाथ पकड़-
कर ) अनुज, आओ । भाई, महाराज कौरवों के साथ सन्धि की इच्छा करते हुए हमें जो जो