सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 39, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 39

[Page Header: १८ वेणीसंहारं नाटकं]

तत्सहदेव, निवर्तस्व। एवं चापि चिरप्रवृद्धामर्षोद्दीपितस्य भीमस्य
वचनाद्विज्ञापय राजानम्।
सहदेवः—आर्य, किमिति।
भीमसेनः—
युष्मच्छासनलङ्घनांहसि मया मग्नेन नाम स्थितं
प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-
नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥ १२ ॥
तथाभूतपाञ्चालतयादर्शनरूपैककारणस्य सत्त्वेऽपि 'खले कपोत' न्यायाद्वने व्याघ्रैः
सार्द्ध' मित्याद्यनेककारणान्तराणामुपादानात्समुच्चयालंकारः। शिखरिणीछन्दः ॥११॥
तत् = तस्मात् सहदेव ! निवर्तस्व = निवृत्तो भव। चिरप्रवृद्धामर्षोद्दीपितस्य =
चिरात् प्रवृद्धो यः अमर्षः क्रोधः तेन उद्दीपितस्य प्रज्वलितस्य।
अन्वयः—युष्मच्छासनलङ्घनांहसि, मग्नेन, मया, स्थितम्, नाम, स्थिति-
मताम्, अनुजानाम्, मध्ये, विगर्हणा, प्राप्ता नाम, क्रोधोल्लासितशोणितारुणगदस्य,
कौरवान्, उच्छिन्दतः, मम, अद्य, एकम्, दिवसम्, गुरुः, न असि, अहम्, तव,
विधेयः, न ॥ १२ ॥
विज्ञापनीयमेवाह—युष्मच्छासनेति। युष्मच्छासनलङ्घनांहसि = भवदीयाज्ञोल्ल-
ङ्घनपापे, मग्नेन = निमग्नेन, मया = भीमेन, स्थितम्, नामेति प्राकाश्ये, इदं
प्रकाशयामीत्यर्थः । स्थितिमताम् = ज्येष्ठाज्ञापालनरूपमर्यादावतां, अनुजानाम् =
कनिष्ठभ्रातॄणाम् अपि, मध्ये अन्तरे 'न्याय्यावलग्नयोर्मध्यमन्तरे चाधमे त्रिषु' इति
विश्वः। विगर्हणा = निन्दा, प्राप्ता = समासादिता, नाम सम्भावयामि यद्विगर्हणा
प्राप्तेति । क्रोधोल्लासितशोणितारुणगदस्य-क्रोधेन = कोपेन, उल्लासिता = उत्थापिता,
शोणितेन = रुधिरेण, अरुणा = रक्ता गदा येन, सः तस्य, कौरवान् = धार्तराष्ट्रान्,
उच्छिन्दतः = निःशेषयतः, मम = भीमस्य, अद्य = इदानीम्, 'इदानीमद्य' इति
अतः सहदेव, लौट जाओ, और चिरकाल में सञ्चित क्रोध से उद्दीप्त भीम की ओर से
राजा युधिष्ठिर से कहो।
सहदेव—आर्य, क्या कहें ?
भीमसेन—इस प्रकार सूचित करो—'आपके आज्ञोल्लङ्घनरुपी पाप जल में डूबता हुआ
मैं सम्भावना करता हूँ कि आज्ञापालनारत भाइयों के बीच निन्दनीय समझा जाऊँ। क्रोध के
साथ रुधिर-से लिप्त गदा को घुमाते हुए तथा कौरवों का संहार करते हुए आज एक दिन के
लिए न तो आप मेरे ज्येष्ठ भ्राता हैं और न मैं आपका आज्ञाकारी कनिष्ठ भ्राता'।