वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 329, कुल 355 में से
संदर्भ में पढ़ें३१० वेणीसंहारं नाटकं
चेटी—परित्ताअह परित्ताअह अज्जा । ( परित्रायध्वं परित्रायध्वमार्याः । )
( नेपथ्ये कलकलानन्तरम् । )
भोः भोः समन्तपञ्चकसञ्चारिणः क्षतजास्वादमत्तयक्षराक्षसपिशाच-
भूतवेतालकङ्कगृध्रजम्बूकवायसभूयिष्ठा अवशिष्टविरलाश्च योधाः, कृतम-
स्मद्दर्शनसंत्रासेन । कथयत भवन्तः कस्मिन्नुद्देशे याज्ञसेनी सन्निहितेति ।
कथयामि लक्षणं तस्याः—
ऊरू करेण परिघट्टयतः सलीलं
दुर्योधनस्य पुरतोऽपहृताम्बरा या ।
क्षतजेति—क्षतजस्य शोणितस्य आस्वादेन मत्ता ये यक्षादयः [ कङ्कः लोहपृष्ठः
'कलहङ्ग' इति ख्यातः, जम्बूकः शृगालः, वायसः काकः ] ते भूयिष्ठाः बहुला यत्र ते,
अवशिष्टा अत एव विरलाः = अल्पाः, योधाः = युध्यन्त इति योधाः भटाः, पचादि-
त्वादप्रत्ययः । मद्दर्शनसन्द्रासेन = मद्विलोकनजन्यभयेन, कृतम् = व्यर्थम् उद्देशे =
स्थाने, सन्निहिता = समीपस्था, उपविष्टेत्यर्थः । लक्षणम् = स्वरूपम् ।
अन्वयः—करेण, ऊरू, सलीलम्, परिघट्टयतः दुर्योधनस्य, पुरतः, या, अप-
हृताम्बरा, दुःशासनस्य, करकर्षणभिन्नमौलिः, सा, पुनः, क्व, प्रदेशे, वर्तते ( इति )
कथय ॥ ३५ ॥
लक्षणमेवाह—ऊरू करेणेति । करेण = हस्तेन, ऊरू = सक्थिनी, सलीलम् = सकौ-
तुकम्, परिघट्टयतः = परिमर्द्दतः 'मदीयं वोरुपरि उपविशेति बोधयत इत्यर्थः ।
दुर्योधनस्य, पुरतः = अग्रे, या अपहृताम्बरा = अपहृतम् आकृष्टम् अम्बरं यस्याः सा,
दुःशासनस्य, करकर्षणभिन्नमौलिः = करेण यत्कर्षणम् आकर्षणम् तेन भिन्नः विदीर्णः
तू भी महारानी के भ्राता [ धृष्टद्युम्न ] अथवा नकुल और सहदेव के समीप चला जाना ।
[ क्योंकि ] महाराज [ युधिष्ठिर ] का ऐसी अवस्था में और भीमार्जुन के स्वर्ग चले जाने पर
यहाँ हम लोगों की रक्षा के लिये क्या आशा ?
चेटी—रक्षा कीजिए, रक्षा कीजिए आर्यो ।
( नेपथ्य में कोलाहल के अनन्तर )
अरे अरे ! समन्तपञ्चक के चारो ओर से भ्रमण करनेवाले क्षत-विक्षत अङ्गों से निकले हुए
रुधिर के आस्वाद से उन्मत्त यक्ष, राक्षस, पिशाच, भूत वेताल, कङ्क, गीध, शृगाल और कौवों
से अधिक संख्या वाले कतिपय अवशिष्ट योद्धाओ ! मुझे देखकर आप लोगों के डरने की कोई
आवश्यकता नहीं । आप लोग यह कहिए, कि द्रौपदी किस स्थान में वर्तमान है ? उनके
लक्षणों को मैं बता दे रहा हूँ ।
'बड़े हाव-भाव के साथ हाथ से जाँघों को ठोंकते हुए दुर्योधन के नेत्रों के सामने