वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 324, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३०५
वितानेष्वप्येवं तव मम च सोमे विधिरभू-
न्निवापाम्भः पूर्वं पिवसि कथमेवं त्वमधुना ॥ ३१ ॥
कृष्णे, त्वमपि देहि सलिलाञ्जलिम् ।
द्रौपदी -हञ्जे बुद्धिमदिए, उवणेहि मे सलिलम् । ( हञ्जे बुद्धिमत्तिके,
उपनय मे सलिलम् । )
( चेटी तथा करोति )
द्रौपदी - ( उपसृत्य जलाञ्जलि पूरयित्वा । ) महाराज, कस्स सलिलं
देम्हि । ( महाराज, कस्य सलिलं ददामि । )
युधिष्ठिरः-
तस्मै देहि जलं कृष्णे सहसा गच्छते दिवम् ।
वर्तमानसामीप्ये लट् । वितानेषु = 'ऋतुविस्तारयोःस्त्री' इत्यमरः । सोमे = सोमयागे,
सोमरसपाने वा, एवम् = मम पश्चात् विधिः=क्रिया, अभूत्, सर्वं कार्यं त्वया मत्प-
श्चादेव सम्पादितमिति भावः । अधुना, कथम् एवम् = वैपरीत्येन, निवापाम्भः=
मृताय देयं जलम्, पूर्वम्=मत्तः प्राक्, त्वम्, पिवसि । साम्प्रतं कथं विपरीतमाचरित-
मिति भावः। मन्मरणानन्तरं तव मरणं समुचितमिति गूढाभिप्रायः । अत्र काव्य-
लिङ्गमलङ्कारः । शिखरिणी छन्दः ॥ ३१ ॥
सलिलाञ्जलिम् = जलाञ्जलिम् ।
कस्येति-सम्बन्धविवक्षया षष्ठी । अथवा व्याकुलीभूता द्रौपदी कस्मै इत्यस्य
स्थाने कस्येति प्रयुक्तम् ।
अन्वयः-दिवम्, सहसा, गच्छते, तस्मै, पूर्वम्, जलम्, देहि, येन, रुदितेन,
अपि, गान्धार्या, समीकृत ।
यदर्थं साम्प्रतं जलदानस्यावश्यकता पूर्वं तस्मै देहीत्याह-तस्मा इति । दिवम् =
स्वर्गम्, सहसा=सपदि, गच्छते, शतृप्रत्ययान्तस्य ङयि रूपमिदम् । तस्मै = भीमाय,
अब इस तिलजल को इस प्रकार मुझ से प्रथम क्यों पान कर रहे हो ? ॥ ३१ ॥
कृष्णे [ द्रौपदि ] ? तुम भी सलिलाञ्जलि प्रदान करो ।
द्रौपदी -अरी बुद्धिमत्तिके, मुझे जल ला दे । ( चेटी जल लाकर देती है )
द्रौपदी - ( समीप आकर जल से अञ्जलि भरकर ) महाराज, किसे जलप्रदान करूँ ?
युधिष्ठिर -
ऐ कृष्णे, अकस्मात् स्वर्ग में जाने वाले उसे (भीम को) जल दो जिसने माताजी को रुदन
२० वे०