वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 295, कुल 355 में से
संदर्भ में पढ़ें२७६ वेणीसंहारं नाटकं
राक्षसः—( सानन्दमात्मगतम् । ) अयमेव मे यत्नः । ( प्रकाशम् । ) यदि
त्ववश्यं कथनीयं तदा संक्षेपेण कथयामि न युक्तं बन्धुव्यसनं विस्तरेणा-
वेदयितुम् ।
युधिष्ठिर—( अश्रूणि मुञ्चन् । )
सर्वथा कथय ब्रह्मन्संक्षेपाद्विस्तरेण वा ।
वत्सस्य किमपि श्रोतुमेष दत्तः क्षणो मया ॥ १५ ॥
राक्षसः—श्रूयताम् ।
तस्मिन्कौरवभीमयोर्गुरुगदाघोरध्वनौ संयुगे
अयम्=त्वदीयप्राणत्यागजनकः, यत्नः = कृतिः व्यापार इत्यर्थः ।
संक्षेपेण = समासत:, बन्धुव्यसनम्=स्वजनविनाशः, आवेदितुम् = कथयितुम् ।
मुञ्चन् = प्रोञ्छन् ।
अन्वयः—( हे ) ब्रह्मन्, संक्षेपात्, विस्तरेण वा, सर्वथा, कथय, वत्सस्य
किमपि, श्रोतुम्, मया, एषः, क्षणः, दत्तः ॥ १५ ॥
सर्वथेति । हे ब्रह्मन् = मुने, संक्षेपात् = स्वल्पवचसा, विस्तरेण=अधिकवचसा,
विपूर्वकस्तुधातोः प्रथने वाक्शब्दे, इति शब्दे घञोऽभावे ऋदोरप्'त्यप्प्रत्ययः । वा,
सर्वथा = सर्वप्रकारेण, कथय = ब्रूहि, वत्सस्य = अनुजस्य, किमपि = इष्टमनिष्टं वा
श्रोतुम् = आकर्णितुम्, मया एषः=अव्यवहितोत्तरवस्तुपाधिकः, क्षणः=काल-
विशेषः 'कालविशेषोत्सवयोः क्षणः' इत्यमरः । दत्तः । त्वद्वचनश्रवणार्थं दत्तमना
अभूवमित्यभिप्रायः । पथ्यावक्त्रं छन्दः ॥ १५ ॥
अन्वयः—तस्मिन्, कौरवभीमयोः, गुरुगदाघोरध्वनौ, संयुगे 'सति' सौरी,
राक्षस—( आनन्दपूर्वक मन ही मन ) इसीलिए तो उपाय कर रहा हूँ । ( प्रकट रूप
से ) यदि मुझे अवश्य कहना पड़ रहा है तो संक्षेप में कह रहा हूँ, भाई के दुःख को विस्तार-
पूर्वक कहना उचित नहीं ।
युधिष्ठिर—( आँसू पोंछता हुआ )
सब तरह से कहिए भगवन् ! संक्षेप या विस्तारपूर्वक । प्रिय भ्राता के विषय में कुछ भी
सुनने के लिए यह समय मैं दे रहा हूँ ॥ १५ ॥
राक्षस—सुनिये—
दुर्योधन और भीम की भीषण गदाध्वनिपूर्ण उस रणभूमि में......।