वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 162, कुल 355 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १४१
कर्णः—( विहस्य । ) एवं भीरुरहम् । त्वं पुनर्विक्रमैकरसं तव पितर-
मनुस्मृत्य न जाने किं करिष्यसीति महान्मे संशयो, जातः । अपि च रे मूढ ?
यदि शस्त्रमुज्झितमशस्त्रपाणयो
न निवारयन्ति किमरीनुदायुधान् ।
यदनेन मौलिदलनेऽप्युदासितं
सुचिरं स्त्रियेव नृपचक्रसन्निधौ ॥ ३९ ॥
अश्वत्थामा—( सक्रोधं सकम्पं च । ) दुरात्मन्, राजवल्लभप्रगल्भ,
सूतापसद, असम्बद्धप्रलापिन् ।
समये, हे रणभीरो, त्वम् क्व असि = आसीः नु, नुशब्द प्रश्ने, यदा त्वं तत्रैवासी-
स्तथा कथमेवं ब्रवीषीति भावः । शिखरिणी छन्दः । ३८ ॥
विक्रमैकरसः = पराक्रमप्रधानः । किमिति-किं क्षत्रियविनाशं करिष्यसि, अथवा
पित्रे वोदासीनो भविष्यसीति ।
अन्वयः—यदि, शस्त्रम्, उज्झितम्, ( ततः किम् ), अशस्त्रपाणयः, उदायु-
धान्, अरीन्, किम्, न, निवारयन्ति, नृपचक्रसन्निधौ, स्त्रिया, इव, अनेन, यत्,
मौलिदलने, अपि, सुचिरम्, उदासितम् ॥ ३९ ॥
वीरो निःशस्त्रोऽपि स्वरक्षां कर्तुं समर्थ इत्याह—यदीति । यदि, शस्त्रम्
उज्झितं = त्यक्तम्, ततः किमिति शेषः । अशस्त्रपाणयः—अशस्त्रहस्ताः, उदायुधान्=
उद्यतशस्त्रान् , अरीन् = शत्रून्, किं न, निवारयन्ति, निवारयन्त्येवेत्याशयः । नृप-
चक्रसन्निधौ = राजसमूहसमीपे, अनेनं = त्वत्पित्रा, मौलिदलने = मस्तकखण्डने अपिं
उदासितम् = उपेक्षितम् । अत्र शाब्दोपमाऽलङ्कारः । मञ्जुभाषिणी छन्दः—सजसा
जगौ च यदि मञ्जुभाषिणीति लक्षणात् ॥ ३९ ॥
राजवल्लभ = नृपप्रिय, निन्दावाचकशब्दोऽयम् । सूतापसद = सूतपामर ।
कर्ण—( हँसकर ) ठीक मै कायर हूँ तू पराक्रमी है। किन्तु तेरे पिता की बात स्मरण
करके मुझे बड़ा सन्देह हो रहा है पता नहीं तुम क्या करोगे ? । और भी सुन ऐ मूर्ख—
यदि उन्होंने शस्त्र का त्याग किया तो क्या बिना शस्त्र के लिये हुए सशस्त्र शत्रु का
प्रतिकार नहीं किया जा सकता ? वे तो केश खींचने पर इस राजन्यमण्डल के बीच अबलाओं
की भाँति अधिक काल तक मौन हो गये ॥ ३९ ॥
अश्वत्थामा—( क्रोध से काँपता हुआ ) अरे दुष्ट, राजा का प्रियपात्र, चापलूस, सूताधम,
बकवादी !