सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 152, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 152

तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १३१
उभौ—विजयतां कौरवेश्वरः ।
दुर्योधनः—( दृष्ट्वा । ) अये, कथं कृपोऽश्वत्थामा च ( शासनादवतोर्य
कृपं प्रति । ) गुरो ? अभिवादये । ( अश्वत्थामानमुद्दिश्य । ) आचार्यपुत्र ?
एह्यस्मदर्थहततात परिष्वज्य
क्लान्तैरिमर्मम निरन्तरमङ्गमङ्गैः ।
स्पर्शस्तवैष भुजयोः सदृशः पितुस्ते
शोकेऽपि नो विकृतिमेति तनूरुहेषु ॥ २९ ॥
( आलिङ्ग्य पार्श्वं उपवेशयति । )
( अश्वत्थामा बाष्पमुत्सृजति । )
कर्णः— द्रोणायने ? अलमत्यर्थमात्मानं शोकानले प्रक्षेप्तुम् ।
अभिवादये=प्रणमामि ।
अन्वयः—(हे) अस्मदर्थहततात !, एहि, क्लान्तैः, इमैः, अङ्गैः, मम, निरन्त-
रम्, अङ्गम्, परिष्वजस्व, ते, पितुः, सदृशः, तव, एषः, भुजयोः, स्पर्शः, नः,
शोकेऽपि, तनूरुहेषु, विकृतिम्, एति ॥ २९ ॥
अस्मदर्थहततात=अस्मदर्थं हतः तातः यस्य, तत्सम्बोधने, एहि = आगच्छ,
क्लान्तैः = खिन्नैः, अङ्गैः= अवयवैः, मम, निरन्तरम्, अङ्गं पारिष्वजस्व =
वालिङ्गय, ते=तव, पितुः= द्रोणस्य, सदृशः, तव एषः = त्वया कृतः, भुजयोः =
बाह्वोः, स्पर्शः, नः=अस्माकम्, शोकेऽपि, तनूरुहेषु = लोमसु, विकृति = उद्गमम्,
एति = प्राप्नोति । तव स्पर्शादतीवानन्दो जात इति भावः । अत्र तृतीयचरणे
उपमा । वसन्ततिलका छन्दः ॥ २६ ॥
द्रोणायने=अश्वत्थामन्, शोकानले = शोकाग्नौ, आत्मानं=स्वम्, अत्यर्थं =
दोनों—[ अश्वत्थामा और कृप ] विनय ! विजय ! कौरवाधिनाथ की ।
दुर्योधन—( देख कर ) अरे यह कृप और अश्वत्थामा ? (आसन से उतर कर कृपाचार्य
के प्रति ) आचार्य ! प्रणाम करता हूँ । (अश्वत्थामा के प्रति ) आचार्यात्मज !
मेरे निमित्त आपके पिता का संहार हुआ है, आइए शोक से खिन्न अङ्गों ने मेरे अङ्गों
का [ वक्षःस्थल का ] आलिङ्गन कीजिए ! आपकी इन भुजाओं का संश्लेष (स्पर्श) आपके
पिता के अनुरूप ही है। इस शोकावस्था में भी रोमाञ्च होने में रञ्चमात्र भी विकृति नहीं
आती ॥ २९ ॥
( आलिङ्गन कर समीप में बैठाता है )
( अश्वत्थामा रोता है )
कर्ण—द्रोणात्मज ! शोकाग्नि में अपने को अत्यन्त सन्तप्त करने से क्या लाभ ?