वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 151, कुल 355 में से
संदर्भ में पढ़ें१३० वेणीसंहारं नाटकं
स्वराष्ट्रे वासो दत्तः ।
दुर्योधनः—साधु अङ्गराज ! साधु । निपुणमभिहितम् ।
कर्णः—न चायं ममैकस्याभिप्रायः । अन्येऽभियुक्ता अपि नैवेदमन्यथा
मन्यन्ते ।
दुर्योधनः—एवमेतत् । कः सन्देहः ?
दत्त्वाऽभयं सोऽतिरथो बध्यमानं किरीटिना ।
सिन्धुराजमुपेक्षेत नैवं चेत्कथमन्यथा ॥ २८ ॥
कृपः—( विलोक्य । ) वत्स, एष दुर्योधनः सूतपुत्रेण सहास्यां न्यग्रोध-
च्छायायामुपविष्टस्तिष्ठति । तदुपसर्पावः ।
( तथा कृत्वा । )
अन्वयः—एवम्, न चेत् (तदा) अन्यथा, अतिरथः, सः, अभयम्, दत्त्वा,
किरीटिना, वध्यमानम्, सिन्धुराजम् कथम् उपेक्षेत ॥ २८ ॥
कर्णोक्तं द्रढयति-दत्त्वाऽभयमिति । एवं=त्वदुक्तं सत्यं न, चेत्, तदा, अन्यथा=
अन्यथेत्यस्योपेक्षेतेत्यनेनान्वयः, अतिरथः=अगणितैः सह योद्धा, सः=द्रोणः, अभयं=
तव वधो न स्यादिति, दत्त्वा, सिन्धुराजायेति शेषः । किरीटिना=अर्जुनेन वध्य-
मानम्, सिन्धुराजम् = जयद्रथम्, कथम्, उपेक्षेत । नोपेक्षेतेत्यर्थः । अत एव जयद्रथस्य
रक्षा न कृता तेनेति भावः । पथ्यावक्त्रं छन्दः ॥ २८ ॥
सूतपुत्रेण = कर्णेन, न्यग्रोधच्छायायाम् = वटच्छायायाम् 'व्यामो वटश्च न्यग्रोधो'
इत्यमरः । उपसर्पावः = गच्छावः ।
ज्ञाता द्रुपद ने अपने राज्य में इन्हें आश्रय नहीं लेने दिया ।
दुर्योधन—सत्य अङ्गनरेश ! सत्य, बहुत उचित आपने कहा ।
कर्ण—यह केवल मेरी धारणा नहीं है अपितु और भी नीतिमान् पुरुष इससे विभिन्न
धारणा नहीं रखते ।
दुर्योधन—यही बात है, इसमें सन्देह ही क्या है ?
उन अतिरथी द्रोण ने जयद्रथ को अभय दान देकर अर्जुन के द्वारा वध किये जाते हुए
भी उसे देखकर उसकी उपेक्षा की । यदि यह बात न होती तो फिर ऐसा क्यों किया ॥२८॥
कृप—( देख कर ) पुत्र ! यह दुर्योधन सूतपुत्र [ कर्ण ] के साथ उस वटवृक्ष की छाया
में बैठा हुआ है अतः इसके सन्निकट चलें ।
( सन्निकट जाकर )